आडजादीनाम्

6-4-72 आट् अच् आदीनाम् असिद्धवत् अत्र आभात् लुङ्लङ्लृङ्क्षु अट् उदात्तः

Sampurna sutra

Up

लुङ्लङ्लृङ्क्षु अजादीनामाट् उदात्तः

Neelesh Sanskrit Brief

Up

लुङ्लकारे, लङ्लकारे, लृङ्लकारे च परे अजादेः अङ्गस्य उदात्तः आट्-आगमः भवति ।

Neelesh English Brief

Up

For the लुङ्लकार, लङ्लकार and लृङ्लकार, an अजादि अङ्ग gets an आट्-आगम, which is also उदात्त.

Kashika

Up

आडागमो भवत्यजादीनां लुङ्लङ्ऌङ्क्षु परतः, उदात्तश्च स भवति। ऐक्षिष्ट। ऐहिष्ट। औब्जीत्। औम्भीत्। लङ् — ऐक्षत। ऐहत। औब्जत्। औम्भत्। लृङ् — ऐक्षिष्यत। ऐहिष्यत। औब्जिष्यत्। औम्भिष्यत्। इह ऐज्यत औप्यत औह्यतेति लङि कृते लावस्थायामडागमादन्तरङ्गत्वाद् लादेशः क्रियते। तत्र कृते विकरणो नित्यत्वादडागमं बाधते। शब्दान्तरप्राप्तेरडागमस्यानित्यत्वम्, कृते हि विकरणान्तस्याङ्गस्य तेन भवितव्यम्,अकृते तु धातुमात्रस्य। <<शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति>>(परि०४२), न तु शब्दान्तरादिति विकरणो नित्यः। विकरणे कृते संप्रसारणमडागमाद् नित्यत्वादेव भवति, संप्रसारणे च कृतेऽजाद्यङ्गं जातमिति आडजादीनामित्याडागमः॥

Siddhanta Kaumudi

Up

अजादीनामाट् स्याल्लुङादिषु । अटोऽपवादः । आटश्च <{SK269}> । ऐधत । ऐधेताम् । ऐधन्त । ऐधथाः । ऐधेथाम् । ऐधध्वम् । ऐधे । ऐधावहि । ऐधामहि ॥

Laghu Siddhanta Kaumudi

Up

अजादेरङ्गस्याट् लुङ्लङॢङ्क्षु। आतत्। अतेत्। अत्यात्। अत्यास्ताम्। लुङि सिचि इडागमे कृते -

Neelesh Sanskrit Detailed

Up

लुङ्लकारस्य , लङ्लकारस्य, लृङ्लकारस्य प्रत्यये परे अङ्गस्य <<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इत्यनेन अट्-आगमे प्राप्ते अपवादत्वेन वर्तमानसूत्रेण आट्-आगमः भवति । आट्-आगमे कृते च तस्य आट्-आगमस्य तथा अङ्गस्य आदिस्वरस्य <<आटश्च>> इत्यनेन पूर्वपरयोः एकः वृद्धि-एकादेशः भवति । यथा - 1. ईक्ष् + लङ् [<<अनद्यतने लङ्>> 3.2.111 इति लङ्] → आट् + ईक्ष् + लङ् [<<आडजादीनाम्>> 6.4.72 इति आट्-आगमः] → आ + ईक्ष् + त [<<तिप्तस्..>> 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः 'त'] → आ + ईक्ष् + शप् + त [<<कर्तरि शप्>> 3.1.68 इति शप्] → ऐक्षत [<<आटश्च>> 6.1.90 इति वृद्धि-एकादेशः] 2. ईक्ष् + लुङ् [<<लुङ्>> 3.2.110 इति लुङ्] → ईक्ष् + च्लि + ल् [<<च्लि लुङि>> 3.1.43 इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि'] → ईक्ष् + सिच् + ल् [<<च्लेः सिच्>> 3.1.44 इति च्ले-इत्यस्य सिच्-आदेशः ।] → आट् ईक्ष्+ स् + ल् <<आडजादीनाम्>> 6.4.72 इति आट्-आगमः] → आ ईक्ष् + स् + त [<<तिप्तस्..>> 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः 'त'] → आ ईक्ष् + इट् स् + त [<<आर्द्धधातकस्य इड्वलादेः>> 7.2.35 इति इडागमः] → ऐक्ष् + इ स् + त [<<आटश्च>> 6.1.90 इति वृद्धि-एकादेशः] → एक्षिष् + त [<<आदेशप्रत्यययोः>> 8.3.59 इति प्रत्ययावयवस्य सकारस्य षत्वम्] → ऐक्षिष्ट [<<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वम्] 3. ईक्ष् + लृङ् [<<लिङ्निमित्ते लृङ् क्रियातिपत्तौ>> 3.3.139 इति लृङ्] → आट् + ईक्ष् + लृङ् [<<आडजादीनाम्>> 6.4.72 इति आट्-आगमः] → आ + ईक्ष् + स्य + लृङ् [ <<स्यतासी लृलुटोः>> 3.1.33 इति विकरणम् 'स्य'] → आ + ईक्ष् + स्य + त [<<तिप्तस्..>> 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः 'त'] → आ+ ईक्ष् + इट् स्य + त [<<आर्द्धधातुकस्य इड्वलादेः>> 7.2.35 इति इडागमः] → ऐक्ष् + इ स्य + त [<<आटश्च>> 6.1.90 इति वृद्धि-एकादेशः] → ऐक्षिष्यत [<<आदेशप्रत्यययोः>> 8.3.59 इति प्रत्ययावयवस्य सकारस्य षत्वम्] विशेषः - यदि धातोः आदिवर्णः व्यञ्जनमस्ति, परन्तु प्रक्रियायाम् तस्य स्थाने स्वरादेशः भवति, तर्हि <<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इत्यनेन अडागमः न भवति, अपितु अपवादत्वेन <<आडजादीनाम्>> 6.4.72 अनेन सूत्रेण आडागमः भवति । यथा, 'वेञ्' धातोः कर्मणि-प्रयोगे लङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - वे + लङ् [<<अनद्यतने लङ्>> 3.2.111] → वे + त [<<भावकर्मणोः>> 1.3.13 इति आत्मनेपदम् । <<तिप्तस्झि..>> 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः] → वे + यक् + त [<<सार्वधातुके यक्>> 3.1.67 इति यक्-विकरणम्] → उ + य + त [<<वचिस्वपियजादीनां किति>> 6.1.15 इति सम्प्रसारणम् , <<सम्प्रसारणाच्च>> 6.1.108 इति पूर्वरूपः] → आट् + उ + य + त [<<आडजादीनाम्>> 6.4.72 इति आडागमः ।] → औयत [<<आटश्च>> 6.1.90 इति वृद्धि-एकादेशः] अस्य कारणम् एतत् - अडागमः / आडागमः लादेशापेक्षया बहिरङ्गकार्यमस्ति । अतः लादेशैः यदि अङ्गे परिवर्तनम् क्रियते, तर्हि तत् परिवर्तनमादौ कृत्वा ततः एव अडागमः / आडागमः क्रियते ।

Balamanorama

Up

<<आडजादीनाम्>> - अथ एधधातोर्लङि लुङ्लङ्लृङ्क्ष्वडुदात्त इत्यडागमे वृदिंध बाधित्वा परत्वादतो गुण इति पररूपे प्राप्ते — आडजादीनां । लुङादिष्विति । 'लुङ्लङ्लृङ्क्ष्वि' त्यनुवृत्तेरिति भावः । अटोऽपवाद इति । अटि सति पररूपं स्यादिति भावः ।आटश्चेत्यनन्तरंवृद्धि॑रिति शेषः । यद्यपि वृद्धिरेचीति वा वृद्धौ इदं सिध्यति तथापि ऐक्षतेत्याद्यर्थं सूत्रमिहापि न्याय्यत्वादुपन्यस्तम् । ऐधतेति । लङस्तादेशे शपि आडागमे आटश्चेति वृद्धिः । लङादेशानां टिदादेशत्वाऽभावादेत्वं न भवति ।आडजादीना॑मिति सूत्रं भाष्ये प्रत्याख्यातम् । ऐधेतामिति । आतामि शपि आटि वृद्धिः । 'आतो ङित' इत्याकारस्य #इय् । आद्गुणः । आटो वृद्धिः । ऐधावहि ऐधमहीति । वहिमह्योः शप्, आट्, वृद्धिः । इति लङ्प्रक्रिया ।

Padamanjari

Up

ऐज्यतेत्यादौ यजिवपिवहीनां हलादित्वादाणन प्राप्नोति, सम्प्रसारणे कृतेऽजादित्वाद्भविष्यति, परत्वाल्लादेशेभ्यः प्रागटा भवितव्यम्, ततो लादेशैः, ततो यका, ततः सम्प्रसारणेन, अत आह - इहेति । लादेशास्यान्तरङ्गत्वं लकारमात्रापेक्षित्वात् । अडागमस्तु लकारविशेषमङ्गं चापेक्षते इति बहिरङ्गः, कृताकृतप्रसङ्गत्वाद्वकरणस्य नित्यत्वम् । नन्वडागमोऽपि कृतेऽपि विकरणे प्राप्नोत्यकृतेऽपीति नित्य एव, ततश्च परत्वादडागम एव प्राप्नोति, तत्राह - शब्दान्तरप्राप्तोरिति । शब्दान्तरप्राप्तिमेव दर्शयति - कृते हीति । अङ्गस्याडागमः कृते विकरणोऽपि शब्दान्तरप्रप्तेरनित्यः तथा हि स कृतेऽडागमे तदादेर्धातोर्भवति, तथाकृते तु धातुमात्रात् अत आह - शब्दान्तरस्येति । षष्ठीनिर्द्देष्टस्य यद्विधीयते आगम आदेशो वा तत्रैषा परिभाषा, न पञ्चमीनिर्देश इत्यर्थः । नित्यत्वादेवेति । एवकारः पौनर्वचनिकः, नित्यत्वादडागमं बाधते इति पूर्वमुक्तम्, तत्रापि स एव हेतुरिति । अडागमस्तु सम्प्रसारणे कृते न प्राप्नोति, आटा बाधितत्वात् । यस्य निमितं लक्षणान्तरेण विहन्यते इति तु न सार्वत्रिकमिति भावः । अयं योगः शक्योऽकर्तुम्, अजादीनामपि पूर्वसूत्रेण अडेवास्तु । कथमाटश्चेति वृद्धिः अटश्चेति वक्ष्यामि । इहापि तर्हि प्राप्नोति - अकार्षीत् अचीति वर्तते । एवमपि स्वपेर्लङ्, सिप्, अड् गार्ग्यगालवयोः इति सिपोऽट्, रुत्वम्, हशि च इत्युत्वम् - अस्वपो हसतीत्यत्र वृद्धप्रसङ्गः अजादौ धातौ वृद्धिं वक्ष्यामि । तर्हि धाताविति वक्तव्यम् न वक्तव्यम् यदेतद् उपसर्गादृति धातौ इति, तत्पूर्वत्रापकृष्यते, अटश्च इत्यत्र चकारस्तस्यैव विधेः समुच्चयार्थः - अटो विध्यन्तरं बाधित्वा वृद्धिरेव यथा स्यात् । तेनाटिटदित्यादौ परमप्यतो गुणे पररुपं बाधित्वा वृद्धिरेव भवति । यथा सिद्धान्तेऽपि, औसीयत् औङ्करीयत् उस्यपदान्तात्, ओमाङेश्च एइति पररुपं न भवति । उतरार्थं तर्ह्याड्वचनम् च्छन्दस्यपि दृश्यते - सुरुचो वेन आवः अट एवात्र छान्दसं दीर्घत्वं भविष्यति - पूरुषो नारक इति । यथा आसन्नित्यत्रापि लावस्थायामेवाटि कृते अ - अस् - ल् इति स्थिते अटश्चेति वृद्धिश्च प्राप्नोति, लादेशाश्च, तत्रान्तरङ्गत्वाल्लादेशः । वृद्धर्ह्यटमचं च निमितमपेक्षते, कृते लादेशे वृद्धिश्च प्राप्नोति, श्नसोरल्लोपः च, तत्रान्तरङ्गत्वाद्वृद्धिः । नानाश्रयत्वाच्च वार्णादाङ्गं बलीयः इति नास्ति कृतायां वृद्धौ तपरकरणादाकारस्य लोपाभावः । इह च आयन्निति इणो लङ् इटि अ - इ - अन्, अटश्चेति वृद्धिः प्राप्नोति, इणो यण् इति यणादेशश्च, तत्रान्तरङ्गत्वाद्वृद्धः, नानाश्रयत्वाच्चवार्णादाङ्गं बलीयः, इति नास्ति, इणो यण् एः इति योगविभागादिवर्णान्तस्येणो यण्विधानादेकारस्य तदभावादायादेशे सिद्धिमिष्टम् । अत्र श्लौकौ - अजादीनामटा सिद्धं वृद्ध्यर्थमिति चेदटः । अस्वपो हलतीत्यत्र धातौ वृद्धिमटः स्मरेत् ॥ पररुपं गुणेनाट ओमाङेरुसि तत्समम् । च्छन्दोऽर्थं बहुलं दीर्घ इणस्त्योरन्तरङ्गतः ॥