इतश्च

3-4-100 इतः च प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लोपः नित्यं ङितः

Sampurna sutra

Up

ङितः परस्मैपदेषु इतः लोपः

Neelesh Sanskrit Brief

Up

ङित्-लकाराणाम् विषये परस्मैपदस्य प्रत्यये विद्यमानस्य इकारस्य लोपः भवति ।

Neelesh English Brief

Up

In case of ङित् लकारs, The इकार present in the परस्मैपद-प्रत्ययs is removed.

Kashika

Up

ङितो इत्येव। ङिल्लकारसंबन्धिन इकारस्य नित्यं लोपो भवति। अपचत्। अपाक्षीत्। परस्मैपदेष्वित्येव — अपचावहि। अपचामहि॥

Siddhanta Kaumudi

Up

ङितो लस्य परस्मैपदमिकारान्तं यत्तस्य लोपः स्यात् । अभवत् । अभवताम् । अभवन् । अभवः । अभवतम् । अभवत । अभवम् । अभवाव । अभवाम ॥

Laghu Siddhanta Kaumudi

Up

ङितो लस्य परस्मैपदमिकारान्तं यत्तदन्तस्य लोपः। अभवत्। अभवताम्। अभवन्। अभवः। अभवतम्। अभवत। अभवम्। अभवाव। अभवाम॥

Neelesh Sanskrit Detailed

Up

ङित्-लकारस्य परस्मैपदस्य प्रत्ययेषु विद्यमानस्य इकारस्य अनेन सूत्रेण लोपः भवति । परस्मैपदस्य तिप्, झि तथा सिप् - एतेषां विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । मिप्-प्रत्ययस्य ङित्-लकारेषु <<तस्थस्थमिपां तांतंतामः>> 3.4.101 इत्यनेन अम्-आदेशः भवति, अतः मिप्-प्रत्ययस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - 1. पठ्-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशं सिद्ध्यति - पठ् + लुङ् [<<लुङ्>> 3.2.110 इति लुङ्] → पठ् + च्लि + ल् [<<च्लि लुङि>> 3.1.43 इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि'] → पठ् + सिच् + ल् [<<च्लेः सिच्>> 3.1.44 इति च्ले-इत्यस्य सिच्-आदेशः ।] → अट् पठ् + स् + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अट्-आगमः] → अ पठ् + स् + तिप् [<<तिप्तस्..>> 3.4.78 इति तिप्] → अ पठ् + स् + त् [<<इतश्च>> 3.4.100 इति 'ति' इत्यस्य इकारस्य लोपः] → अ पठ् + इट् स् + त् [<<आर्द्धधातकस्य इड्वलादेः>> 7.2.35 इति इडागमः] → अ पठ् + इ स् + ईट् त् [<<अस्तिसिचोऽपृक्ते>> 7.3.96 इति ईट्-आगमः] → अ पठ् / पाठ् + इ स् + ई त् [<<अतो हलादेर्लघोः>> 7.2.7 इति वैकल्पिकवृद्धिः] → अ पठ्/पाठ् + इ + ई + त् [<<इट ईटि>> 8.2.28 इति सकारलोपः] → अपठीत् / अपाठीत् [ <!सिज्लोप एकादेशे सिद्धो वाच्यः !> अनेन वार्तिकेन सवर्णदीर्घ-एकादेशे कर्तव्ये सिच्लोपः सिद्धः अस्ति । अतः <<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः] 2. पठ्-धातोः लङ्लकारस्य प्रथमपुरुष-बहुवचनस्य रूपम् एतादृशं सिद्ध्यति - पठ् + लङ् [<<अनद्यतने लङ्>> 3.2.111 इति लङ्] → अट् + पठ् + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अट्-आगमः] → अ + पठ् + झि [<<तिप्तस्..>> 3.4.78 इति तिप्] → अ + पठ् + शप् + झि [<<कर्तरि शप्>> 3.1.68 इति शप्] → अ + पठ् + शप् + अन्ति [<<झोऽन्तः>> 7.1.3 इति झकारस्य अन्त्-आदेशः] → अ + पठ् + अ + अन्त् [<<इतश्च>> 3.4.100 इति 'अन्ति' प्रत्ययस्य इकारस्य लोपः] → अपठन्त् [<<अतो गुणे>> 6.1.97 इति गुण-एकादेशः] → अपठन् [<<संयोगान्तस्य लोपः>> 8.2.23 इति तकारलोपः] 3. पठ्-धातोः लृङ्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् एतादृशं सिद्ध्यति - पठ् + लृङ् [<<लिङ्निमित्ते लृङ् क्रियातिपत्तौ>> 3.3.139 इति लृङ्] → पठ् + स्य + लृङ् [<<स्यतासी लृलुटोः>> 3.1.33 इति स्य-विकरणप्रत्ययः] → अट् + पठ् + स्य + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अट्-आगमः] → अ + पठ् + इट् + स्य + लङ् [<<आर्धधातुकस्य इड्वलादेः>> 7.2.35 इति इडागमः] → अ + पठ् + इट् + स्य + सिप् [<<तिप्तस्..>> 3.4.78 इति सिप्] → अ + पठ् + इट् + स्य + स् [<<इतश्च>> 3.4.100 इति 'सि' प्रत्ययस्य इकारस्य लोपः] → अपठिस्यरुँ [<<ससजुषोः रुँः>> 8.2.66 इति सकारस्य रुँत्वम्] → अपठिस्यः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति रेफस्य विसर्गः] → अपठिष्यः [<<आदेशप्रत्यययोः>> 8.3.59 इति षत्वम्] ज्ञातव्यम् - यद्यपि <<लोटो लङ्वत्>> 3.4.85 इत्यनेन लोट्-लकारस्य प्रक्रिया लङ्लकारवत् भवति, तथापि लोट्-लकारस्य विषये <<एरुः>> 3.4.86 इत्यनेन इकारस्य उकारादेशः भवति । अतः लोट्लकारस्य विषये <<इतश्च>> 3.4.100 इत्यस्य प्रसक्तिः नास्ति ।

Balamanorama

Up

Padamanjari

Up