लिटस्तझयोरेशिरेच्

3-4-81 लिटः तझयोः एश् इरेच् प्रत्ययः परः च आद्युदात्तः च धातोः लस्य

Sampurna sutra

Up

लिटः लस्य आत्मनेपदानाम् त-झयोः एश्-इरेच्

Neelesh Sanskrit Brief

Up

लिट्-लकाराणाम् विषये आत्मनेपदस्य त-प्रत्ययस्य एश्-आदेशः तथा झ-प्रत्ययस्य इरेच्-आदेशः भवति ।

Neelesh English Brief

Up

In case of आत्मनेपद of लिट्-लकार, the त-प्रत्यय is converted to एश् and झ प्रत्यय is converted to इरेच्.

Kashika

Up

लिडादेशयोस्तझयोर्यथासंख्यमेश् इरेच् इत्येतावादेशौ भवतः। शकारः सर्वादेशार्थः। चकारः स्वरार्थः। पेचे, पेचाते, पेचिरे। लेभे, लेभाते, लेभिरे॥

Siddhanta Kaumudi

Up

लिडादेशयोस्तझयोरेश् इरेच् एतौ स्तः । एकारोच्चारणं ज्ञापकं, तङादेशानां टेरेत्वं नेति । तेन डारौरसां न । कृ ए इति स्थिते ॥

Laghu Siddhanta Kaumudi

Up

लिडादेशयोस्तझयोरेश् इरेजेतौ स्तः। एधाञ्चक्रे। एधाञ्चक्राते। एधाञ्चक्रिरे। एधाञ्चकृषे। एधाञ्चक्राथे॥

Neelesh Sanskrit Detailed

Up

अनेन सूत्रेण लिट्-लकारस्य आत्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययस्य 'एश्' आदेशः तथा बहुवचनस्य 'झ' प्रत्ययस्य 'इरेच्' आदेशः दीयते । उभावपि आदेशौ <<अनेकाल्शित्सर्वस्य>> 1.1.55 इत्यनेन सर्वादेशौ भवतः । यथा - 1. पच्-धातोः लिट्-लकारस्य प्रथमपुरुषएकवचनस्य रूपसिद्धिः इयम् - पच् + लिट् [<<परोक्षे लिट्>>3.2.115 इति लिट्] → पच् पच् + लिट् [<<लिटि धातोरनभ्यासस्य>> 6.1.8 इति द्वित्वम्] → प पच् + लिट् [<<हलादि शेषः>> 7.4.60 इति चकारस्य लोपः] → प पच् + त [<<तिप्तस्झि..>> 3.4.78 इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' प्रत्ययः] → प पच् + एश् [<<लिटस्तझयोरेशिरेच्>> 3.4.81 इत्यनेन त-प्रत्ययस्य एश्-आदेशः ।] → पेच् + ए [<<अत एकहल्मध्येऽनादेशादेर्लिटि>> 6.4.120 इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः] → पेचे 2. वन्द्-धातोः लिट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपसिद्धिः इयम् - वन्द् + लिट् [<<परोक्षे लिट्>>3.2.115 इति लिट्] → वन्द् वन्द् + लिट् [<<लिटि धातोरनभ्यासस्य>> 6.1.8 इति द्वित्वम्] → व वन्द् + लिट् [<<हलादि शेषः>> 7.4.60 इति चकारस्य लोपः] → व वन्द् + झ [<<तिप्तस्झि..>> 3.4.78 इत्यनेन आत्मनेपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् 'झ' प्रत्ययः] → व वन्द् + इरेच् [<<लिटस्तझयोरेशिरेच्>> 3.4.81 इत्यनेन झ-प्रत्ययस्य इरेच्-आदेशः ।] → ववन्दिरे

Balamanorama

Up

<<लिटस्तझयोरेशिरेच्>> - लिटस्तझयो । ननु लिटस्तझयोरिशिरिजित्येवास्तु, आदेशयोरेकारोच्चारणं व्यर्थं, टित आत्मनेपदानामित्येत्वेनैन सिद्धेरित्यत आत — एकारोच्चारणमिति । ज्ञापनस्य फलमाह — तन डारौरसां नेति डा रौ रस् — एषां लुडादेशभूतात्मनेपदादेशानां टेरेत्वं नेत्यर्थः । वस्तुतस्तु परत्वादेत्वे कृते पुनः प्रसङ्गविज्ञानेन डादिषु कृतेषु लक्ष्ये लक्षणस्येति न्यायादेत्वं नेति लुटः प्रथमस्येति सूत्रभाष्ये स्पष्टम् । कृ ए इति स्थित इति । तकाराऽकारसङ्घातस्य एकारः शित्त्वात्सर्वादेश इति भावः ।

Padamanjari

Up

पूर्वसूत्रे ज्ञापितम् - आत्मनेपदादेशानां टेरेत्वं न भवतीति, तेन इशिरच् इत्येतावादेशौ न विहितौ । शकारः सर्वादेशार्थ इति । अन्यथा धातोरित्यधिकाराद् ठादेः परस्यऽइति तकारस्य प्रसज्येत । अथ'शे' इत्येव कस्मान्नोक्तम्, शैरेजिति ह्युक्ते मात्रालाघवं भवति ? नैवं शक्यम् ;'शे' इति प्रगृह्यसंज्ञा स्यात् । इह च पपे सोममिति पिबादेशः प्राप्नोति, जग्ले मम्ले इत्यादौ चात्वं न स्यात् । एशि तु न दोषः,'वर्णे यत्स्यातच्च विध्यातदादौ' इति न्यायात् ॥