7-4-66 उः अत् अभ्यासस्य
index: 7.4.66 sutra: उरत्
अभ्यासस्य उः अत्
index: 7.4.66 sutra: उरत्
अभ्यासे विद्यमानस्य ऋवर्णस्य अकारादेशः भवति ।
index: 7.4.66 sutra: उरत्
A ऋ letter present in an अभ्यास is converted to अकार.
index: 7.4.66 sutra: उरत्
ऋवर्णान्तस्य अभ्यासस्य अकारादेशो भवति। ववृते। ववृधे। शशृधे। नर्नर्ति, नरिनर्ति, नरीनर्ति इत्येवमादौ अभ्यासविकारेषु अपवादो न उत्सर्गान् विधीन् बाधते इति उः अदत्वे कृते रुगादय आगमाः क्रियन्ते।
index: 7.4.66 sutra: उरत्
अभ्यासऋवर्णस्य अत्स्यात्प्रत्यये परे । रपरत्वम् । हलादिः शेषः <{SK2179}> प्रत्यये किम् । वव्रश्च ॥
index: 7.4.66 sutra: उरत्
अभ्यासऋवर्णस्यात् प्रत्यये। रपरः। हलादिः शेषः। वृद्धिः। गोपायाञ्चकार। द्वित्वात्परत्वाद्यणि प्राप्ते -
index: 7.4.66 sutra: उरत्
द्वित्वप्रकरणे द्वित्वे कृते द्वयोः यः प्रथमः तस्य पूर्वोभ्यासः 6.1.4 इत्यनेन 'अभ्यास' संज्ञा भवति । अस्मिन् अभ्यासे विद्यमानः यः ऋ-वर्णः, तस्य अनेन सूत्रेण अकारादेशः भवति । ('उः' इति 'ऋ' इत्यस्य षष्ठी-एकवचनम्) । अयमकारः उरण् रपरः 1.1.51 इत्यनेन नित्यं रपरः एव भवति । यथा -
कृ + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ कृ कृ + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ कर् कृ + लिट् [उरत् 7.4.66 इति ऋवर्णान्त-अभ्यासस्य ऋकारस्य अकारः । उरण् रपरः 1.1.51 इति सः रपरः]
→ क कृ + लिट् [हलादि शेषः 7.4.60 इति रेफस्य लोपः]
→ च कृ + लिट् [कुहोश्चुः 7.4.62 इति ककारस्य चकारः]
→ च कृ + तिप् [तिप्तस्झि... 3.4.78 इति तिप्-प्रत्ययः]
→ च कृ णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति तिप्-इत्यस्य णल्-आदेशः]
→ च कार् अ [अचो ञ्णिति 7.2.115 इति ऋकारस्य वृद्धिः आकारः । उरण् रपरः 1.1.51 इति रेफः]
→ चकार
तॄ + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ तॄ तॄ + ल् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ तृ तॄ + ल् [ह्रस्वः 6.4.59 इति अभ्यासस्य ह्रस्वादेशः]
→ तर् तॄ + ल् [उरत् 7.4.66 इति ऋवर्णान्त-अभ्यासस्य ऋकारस्य अकारः । उरण् रपरः 1.1.51 इति सः रपरः]
→ त तॄ + ल् [हलादि शेषः 7.4.60 इति रेफस्य लोपः]
→ त तॄ कृ + तिप् [तिप्तस्झि... 3.4.78 इति तिप्-प्रत्ययः]
→ त तॄ णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति तिप्-इत्यस्य णल्-आदेशः]
→ त तार् अ [अचो ञ्णिति 7.2.115 इति ऋकारस्य गुणः अकारः । उरण् रपरः 1.1.51 इति रेफः]
→ ततार
index: 7.4.66 sutra: उरत्
उरत् - उरत् । उः — अदिति छेदः ।ऋ॑इत्यस्य उरिति षष्ठएकवचनम् ।अत्र लोपोऽभ्यासस्ये॑त्यस्मादभ्यासस्येत्यनुवर्तते । अङ्गस्येत्यधिकृतं । तद्वशात्प्रत्यये परत इति लभ्यते । प्रत्यये परत एव अङ्गसंज्ञाविधानात् । तदाह — अभ्यासऋवर्णस्येत्यादिना । रपरत्वमिति । अभ्यासऋवर्णादेशस्याऽकारस्योरण्रपर इति रपरत्वमित्यर्थः । तथा च कर् कृ ए इति स्थिते । हलादिः शेष इति । रेफस्य निवृत्तिरिति भावः । प्रत्यये किमिति । अङ्गेनैव प्रत्ययस्याक्षिप्तत्वात्प्रत्यये परत इति किमर्थमित्यर्थः । वव्रश्चेति । 'ओ व्रश्चू च्छेदने' , लिटि णल् द्वित्वं । लिटभ्यासस्येत्यभ्यासरेफस्य सम्प्रसारणमृकारः । उरत् । रपरत्वम् । हलादिः । शेषः । वव्रश्चेति रूपम् । अत्र अभ्यासऋवर्णस्य रेफस्थानिकस्य सम्प्रसारणस्य य उरदत्वसम्पन्नोऽकारस्तस्य अचः परस्मिन्निति स्थानिवत्त्वेन सम्प्रसारणतया तस्मिन्परे वकारस्यन सम्प्रसारणे सम्प्रसारण॑मिति निषेधान्न सम्प्रसारममिति स्थितिः । उरदित्यत्र 'प्रत्यये परत' इत्यनुक्तौ तु सम्प्रसारणभूतऋकारस्थानिकस्य अकारस्य परनिमित्तकत्वाऽभावेन स्थानिवत्त्वाऽप्रसक्तेः सम्प्रसारणत्वाऽभावात्तस्मिन् परतोन सम्प्रसारणे सम्प्रसारण॑मिति निषेधो न स्यादिति भावः ।
index: 7.4.66 sutra: उरत्
ववृते इत्यादौ हलादिशेषे कृते ऋकारान्ततायामुपजातायामद्भावः, रपरत्वे पुनः'हलादिः शेषः' । नर्नर्तीत्यादौ रुगादिषु कृतेषु ऋकारान्तत्वाभावादत्वं न स्यादित्याशङ्क्याह - नर्नर्तीत्यादाविति । यथा चाभ्यासविकारेषु बाधका न बाधन्ते, तथा'दीर्घो' कितःऽ इत्यत्रैव वक्ष्यते ॥