7-4-82 गुणह् यङ्लुकोः अभ्यासस्य
index: 7.4.82 sutra: गुणो यङ्लुकोः
यङि यङ्लुकि च इगन्तस्य अभ्यासस्य गुणो भवति। चेचीयते। लोलूयते। यङ्लुकि जोहवीति। यगो वा इति इड्विकल्पः। चोक्रुशीति।
index: 7.4.82 sutra: गुणो यङ्लुकोः
अभ्यासस्य गुणः स्याद्यङि यङ्लुकि च । सनाद्यन्ताः - <{SK2304}> इति धातुत्वाल्लडादयः । ङिदसन्तात्वादात्मनेपदम् । पुनः पुनरतिशयेन वा भवति बोभूयते । बोभूयांचक्रे । अबोभूयिष्ट । धातोः किम् । आर्धधातुकत्वं यथा स्यात् । तेन ब्रुवो वचिः - <{SK2453}> इत्यादि । एकाचः किम् । पुनः पुनर्जागर्ति । हलादेः किम् । भृशमीक्षते । भृशं रोचते शोभते इत्यत्र यङ्गेति भाष्यम् । पौनः पुन्ये तु स्यादेव । रोरुच्यते । शोशुभ्यते ॥<!सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतिभ्यो यङ् वाच्यः !> (वार्तिकम्) ॥ आद्यास्त्रयश्चुरादावदन्ताः । सोसूच्यते । सोसूत्र्यते । अनेकात्त्त्वेनाषोपदेशत्वात्षत्वं न । मोमूत्र्यते ॥
index: 7.4.82 sutra: गुणो यङ्लुकोः
अभ्यासस्य गुणो यङि यङ्लुकि च परतः। ङिदन्तत्वादात्मनेपदम्। पुनः पुनरतिशयेन वा भवति बोभूयते। बोभूयाञ्चक्रे। अबोभूयिष्ट॥
index: 7.4.82 sutra: गुणो यङ्लुकोः
लुक्शब्देनात्र यङ्लुगेव गृह्यते; सन्निधानात् । किञ्च - अभ्यासस्यायं गुणो विधीयते, न च लुगन्तरेऽभ्यासः सम्भवति । चोक्रुशीतिति । क्रुशेर्यङ्लुगन्तातिप्,'यङे वा' इतीट्,'नाभ्यस्तस्याचि पिति' इति लघूपधगुणप्रतिषेधः ॥