च्छ्वोः शूडनुनासिके च

6-4-19 च्छ्वोः सूठ् अनुनासिके च क्वि झलोः क्ङिति

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

अनुनासिकादौ अथवा झलादौ किति/ङिति प्रत्यये परे, तथा च क्विप्-प्रत्यये परे अङ्गान्ते विद्यमानस्य 'त्छ्' इत्यस्य 'श्' इति आदेशः भवति, तथा च 'व्' इत्यस्य 'ऊठ्' इति आदेशः भवति ।

Neelesh English Brief

Up

The last 'त्छ्' of an अङ्ग is converted to 'श्', and the last 'व्' of an अङ्ग is converted to 'ऊठ्' when followed by an अनुनासिकादि or झलादि प्रत्यय that is either कित् or ङित् ।

Kashika

Up

छ इत्येतस्य सतुक्कस्य वकारस्य च स्थाने यथासंख्यं श् ऊठ् इत्येतावादेशौ भवतः, अनुनासिकादौ प्रत्यये परतः क्वौ झलादौ च क्ङिति। प्रश्नः। विश्नः। अन्तरङ्गत्वाच् <<छे च>> ६.१.७३ इति तुकि कृते सतुक्कस्य शादेशः। वकारस्य ऊठ् — स्योनः। सिवेरौणादिके नप्रत्यये (प० उ० ३.९) लघूपधगुणात् पूर्वमूठ् क्रियते। तत्र कृतेऽन्तरङ्गत्वाद् यणादेशो नानाश्रयत्वात् च न <<वार्णादाङ्गं बलीयः>> (परि० ५५) भवति। क्वौ छस्य — शब्दप्राट्। <<क्विब् वचि०>> (प०उ० २.५८) इत्यादिनौणादिकः क्विप् दीर्घश्च। गोविट्। वकारस्य — अक्षद्यूः। हिरण्यष्ठ्यूः। <<असिद्धं बहिरङ्गमन्तरङ्गे>> इति <<नाजानन्तर्ये०>> इति प्रतिषिध्यते। झलादौ छस्य — पृष्टः। पृष्टवान्। पृष्ट्वा। वकारस्य — द्यूतः। द्यूतवान्। द्यूत्वा। क्ङितीत्येव — द्युभ्याम्। द्युभिः। केचिदत्र क्ङितीति नानुवर्तयन्ति। कथं द्युभ्यां द्युभिरिति? ऊठि कृते, <<दिव उत्>> ६.१.१३१ इति तपरत्वाद् मात्राकालो भविष्यति। छशां षः ८.२.३६ इत्यत्र छग्रहणं न कर्तव्यम्, अनेनैव हि सर्वत्र शकारो विधीयते। ऊठष्ठित्करणम् <<एत्येधत्यूठ्सु>> ६.१.८९ इति विशेषणार्थम्। <<वाह ऊठ्>> ६.४.१३२ इत्ययमपि ठिदेव॥

Siddhanta Kaumudi

Up

सतुक्कस्य छस्य वस्य च क्रमाच्छ ऊठ् एतावादेशौ स्तोऽनुनासिके क्वौ झलादौ च क्ङिति । खौनाति । चखाव खविता । शानचः परत्वादूठि कृते हलन्तात्वाभावान्न शानच् । खौनीहि{$ {!1532 हेठ!} च$} । ष्टुत्वम् । हिठ्णाति ।{$ {!1533 ग्रह!} उपादाने$} । स्वरितेत् । ग्रहिज्या - <{SK2412}> । गृह्णाति । गृह्णीते ॥

Laghu Siddhanta Kaumudi

Up

सतुक्कस्य छस्य वस्य च क्रमात् श् ऊठ् इत्यादेशौ स्तोऽनुनासिके क्वौ झलादौ च क्ङिति। पृच्छतीति प्राट्। आयतं स्तौतीति आयतस्तूः। कटं प्रवते कटप्रूः। जूरुक्तः। श्रयति हरिं श्रीः॥

Neelesh Sanskrit Detailed

Up

यदि अनुनासिकादिः कित् / ङित् प्रत्ययः, अथवा झलादिः कित्/ङित् प्रत्ययः, अथवा क्विप्-प्रत्ययः अङ्गात् परः विद्यते, तर्हि - 1) अङ्गस्य अन्ते विद्यमानस्य 'त्छ्' इति समूहस्य 'श्' इति आदेशः भवति । 2) अङ्गस्य अन्ते विद्यमानस्य 'व्' इत्यस्य 'ऊठ्' इति आदेशः भवति । उदाहरणानि एतानि - 1. अङ्गान्ते विद्यमानस्य 'त्छ्' इत्यस्य अनुनासिकादि-ङित्-प्रत्यये परे शकारादेशः - प्रछँ (ज्ञीप्सायाम्, तुदादिः, <{6.149}>) --> प्रछ् + नङ् [<<यजयाचयतविच्छप्रच्छरक्षो नङ्>> 3.3.90 इति भावे नङ्-प्रत्ययः] --> प्र तुक् छ् + न [<<छे च>> 6.1.73 इति तुगागमः] --> प्रत् छ् + न [ककारस्य इत्संज्ञा, लोपः । तुगागमस्य उकारः उच्चारणार्थः अस्ति, तस्यापि लोपः भवति ] --> प्रश् + न [अङ्गान्ते विद्यमानस्य 'त्छ्' इत्यस्य अनुनासिकादि-ङित्-प्रत्यये परे <<च्छ्वोः शूडनुनासिके च>> 6.4.19 इति शकारादेशः । अत्र प्रकियायाम् वस्तुतः <<ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च>> 6.1.16 इति सम्प्रसारणम् अपि प्राप्नोति । परन्तु एतादृशं सम्प्रसारणं क्रियते चेत् 'प्रश्न' इति अन्तिमः शब्दः नैव सिद्ध्यति । परन्तु अयम् अवश्यं साधुशब्दः, यतः पाणिनिना सः शब्दः स्वयमेव <<प्रश्ने चासन्नकाले>> 3.2.117 इत्यत्र प्रयुक्तः अस्ति । अतः इदमेव सूत्रं अस्य शब्दस्य साधुत्वार्थं ज्ञापकरूपेण स्वीकृत्य अत्र सम्प्रसारणम् निषिध्यते ] --> प्रश्न [<<स्तोः श्चुना श्चुः>> 8.4.40 इति नकारस्य श्चुत्वे प्राप्ते <<शात्>> 8.4.44 इति निषिध्यते] 2. अङ्गान्ते विद्यमानस्य 'त्छ्' इत्यस्य झलादि-कित्-प्रत्यये परे शकारादेशः - प्रछँ (ज्ञीप्सायाम्, तुदादिः, <{6.149}>) --> प्रछ् + क्त [<<निष्ठा>> 3.2.102 इति क्त-प्रत्ययः] --> प्र तुक् छ् + त [<<छे च>> 6.1.73 इति तुगागमः] --> प्रत् छ् + त [ककारस्य इत्संज्ञा, लोपः । तुगागमस्य उकारः उच्चारणार्थः अस्ति, तस्यापि लोपः भवति ] --> पृ त् छ् + त [<<ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च>> 6.1.16 इति सम्प्रसारणम् । रेफस्य सम्प्रसारणे <<इग्यणः सम्प्रसारणम्>> 1.1.45 इति ऋकारः] --> पृश् + त [अङ्गान्ते विद्यमानस्य 'त्छ्' इत्यस्य झलादि-कित्-प्रत्यये परे <<च्छ्वोः शूडनुनासिके च>> 6.4.19 इति शकारादेशः] --> पृष् + त [<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> 8.2.36 इति षत्वम्] --> पृष् + ट [<<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वम्] --> पृष्ट 3. अङ्गान्ते विद्यमानस्य 'त्छ्' इत्यस्य क्विप्-प्रत्यये परे शकारादेशः - प्रछँ (ज्ञीप्सायाम्, तुदादिः, <{6.149}>) --> प्रछ् + क्विप् [<<क्विप् च>> 3.2.76 इति क्विप्-प्रत्ययः] --> प्र छ् + व् [<<लशक्तवतद्धिते>> 1.3.8 इति ककारस्य इत्संज्ञा । <<हलन्त्यम्>> 1.3.3 इति पकारस्य इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः ।] --> प्र तुक् छ् + व् <<छे च>> 6.1.73 इति तुगागमः] --> प्रत् छ् + व् [ककारपकारयोः इत्संज्ञा, लोपः । तुगागमस्य उकारः उच्चारणार्थः अस्ति, तस्यापि लोपः भवति ] --> प्रश् + व् [अङ्गान्ते विद्यमानस्य 'त्छ्' इत्यस्य क्विप्-प्रत्यये परे <<च्छ्वोः शूडनुनासिके च>> 6.4.19 इति शकारादेशः । अत्र वस्तुतः <<ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च>> 6.1.16 इति सम्प्रसारणम् प्राप्नोति, परन्तु <!किब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च!> इति वार्त्तिकेन (3.2.128) अत्र सम्प्रसारणं निषिध्यते] --> प्राश् + व् [<!किब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च!> इति वार्त्तिकेन (3.2.128) अत्र उपधादीर्घः भवति ।] --> प्राश् [<<वेरपृक्तस्य>> 6.1.67 इति अपृक्तवकारलोपः] --> प्राष् [<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> 8.2.36 इति षत्वम्] --> प्राड् [<<झलां जशोऽन्ते>> 8.2.39 इति ष्टुत्वम्] --> प्राट् / प्राड् [<<वाऽवसाने>> 8.4.56 इति वैकल्पिकं चर्त्वम्] 4. अङ्गान्ते विद्यमानस्य 'व्' इत्यस्य अनुनासिकादि-ङित्-प्रत्यये परे 'ऊठ्' आदेशः - खवँ (भूतप्रादुर्भावे, क्र्यादिः, <{9.68}>) --> खव् + लट् [<<वर्तमाने लट्>> 3.1.123 इति लट्-प्रत्ययः] --> खव् + तिप् [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] --> खव् + श्ना + ति [<<क्र्यादिभ्यः श्ना>> 3.1.81 इति श्ना-प्रत्ययः । अयं <<सार्वधातुकमपित्>> 1.2.4 इति ङिद्वत् भवति ।] --> खव् + ना + ति [शकारस्य <<लशक्वतद्धिते>> 1.3.8 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः] --> ख ऊठ् + ना + ति [अनुनासिकादि-ङित्-प्रत्यये परे <<च्छ्वोः शूडनुनासिके च>> 6.4.19 इति वकारस्य 'ऊठ्' इदेशः] --> ख ऊ + ना + ति [ठकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः] --> खौनाति [<<एत्येधत्यूठ्सु>> 6.1.89 इति वृद्ध्येकादेशः] 5. अङ्गान्ते विद्यमानस्य 'व्' इत्यस्य झलादि-ङित्-प्रत्यये परे 'ऊठ्' आदेशः - दिवुँ (क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु, दिवादिः, <{4.1}>) --> दिव् + क्त [<<निष्ठा>> 3.2.102 इति क्त-प्रत्ययः] --> दि ऊठ् + त [झलादि-कित्-प्रत्यये परे <<च्छ्वोः शूडनुनासिके च>> 6.4.19 इति वकारस्य 'ऊठ्' इदेशः] --> दि ऊ + त [ठकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः] --> द्यूत [<<इको यणचि>> 6.1.77 इति यणादेशः] 6. अङ्गान्ते विद्यमानस्य 'व्' इत्यस्य क्विप्-प्रत्यये परे 'ऊठ्' आदेशः - दिवुँ (क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु, दिवादिः, <{4.1}>) --> दिव् + क्विप् [<<क्विप् च>> 3.2.76 इति क्विप्-प्रत्ययः] --> दिव् + व् [ककारपकारयोः इत्संज्ञा, लोपः । तुगागमस्य उकारः उच्चारणार्थः अस्ति, तस्यापि लोपः भवति ] --> दि ऊठ् + व् [क्विप्-प्रत्यये परे <<च्छ्वोः शूडनुनासिके च>> 6.4.19 इति वकारस्य 'ऊठ्' इदेशः] --> दि ऊ + व् [ठकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः] --> दि ऊ [<<वेरपृक्तस्य>> 6.1.67 इति अपृक्तवकारलोपः] --> द्यू [<<इको यणचि>> 6.1.77 इति यणादेशः] सूत्ररचनाविशेषाः 1. अस्मिन् सूत्रे 'च्छ्वोः' इत्यत्र 'च्छ्' इति निर्देशः वस्तुतः 'त्छ्' इत्यस्य निर्देशः अस्ति । 'त्छ्' इत्यत्र तकारस्य <<स्तोः श्चुना श्चुः>> 8.4.40 इति त्रिपादीसूत्रेण श्चुत्वे कृते यः चकारादेशः विधीयते, तेन सह अत्र सूत्रनिर्देशः कृतः अस्ति ।परन्तु अत्र सूत्रप्रयोगसमये सपादसप्ताध्याय्यां तु तस्य असिद्धत्वात् 'त्छ्' इत्येव स्वीक्रियते । 2. उपरिनिर्दिष्टायाम् 'पृष्ट' शब्दस्य प्रक्रियायाम् <<च्छ्वोः शूडनुनासिके च>> 6.4.19 इति शकारादेशस्य तादृशं न किञ्चन प्रयोजनम्, यतः अस्य शकारादेशस्य अनुपस्थितौ अपि <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> 8.2.36 इति षत्वे कृते इष्टरूपम् अवश्यं सिद्ध्येत् । वस्तुतस्तु 'झलादिः' इति अनुवृत्तिः अस्मिन् सूत्रे केवलम् वकारार्थम् आवश्यकी, न हि 'त्छ्' इत्यर्थम्, यतः त्छ्-इत्यस्य झलादि-प्रत्यये परे शकारादेशे कृतेऽपि, अकृतेऽपि च <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> 8.2.36 इति षत्वम् अवश्यमेव सिद्ध्यति । परन्तु एकवारम् अनुवृत्तिः क्रियते चेत् <<पर्जन्यवत् लक्षणप्रवृत्तिः>> इति न्यायेन सूत्रस्य प्रयोगः अवश्यं करणीयः, अतः झलादौ क्ङिति प्रत्यये परे 'त्छ्' इत्यस्य शकारादेशः अत्र अवश्यं क्रियते । 3. अस्मिन् सूत्रे 'क्ङिति' इति पदस्य अनुवृत्तिः नैव करणीया - इति कश्चन गौणपक्षः अस्य सूत्रस्य महाभाष्यव्याख्याने उपस्थापितः अस्ति । अस्मिन् पक्षे सर्वेषु झलादिप्रत्ययेषु 'त्छ्' इत्यस्य 'श्' इत्यादेशः भवति इति अर्थे कृते, अग्रे <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> 8.2.36 इत्यत्र सतुक्-छकारस्य ग्रहणम् अनावश्यकं भवति इति निर्णयः सिद्ध्यति । अपि च, अस्मिन् पक्षे <<दिव उत्>> 6.1.131 इत्यत्र विद्यमानस्य तकारस्य प्रयोजनम् 'तपरकरणम्' अस्ति इति स्वीक्रियते । अस्मिन् विषये अधिकं ज्ञातुं जिज्ञासवः काशिकां भाष्यं वा पश्येयुः ।

Balamanorama

Up

<<च्छ्वोः शूडनुनासिके च>> - च्छ्वोः शूडनुनासिके च । च्छ् व् अनयोद्र्वन्द्वात्षष्ठीद्विवचनम् । छकारात्प्राक्तुकः श्चुत्वेन चकारस्य निर्देशः । 'शूठ' इति छेदः । श् ऊठ् अनयोः समाहारद्वन्द्वात्प्रथमा । चकारेण क्विझलोः क्ङितीत्यनुवर्तते । तदाह — सतुक्कस्येत्यादि । यथा विश्नः प्रश्नः । विच्छधातोः प्रच्छधातोश्च औणादिके नङ्प्रत्यये अन्तरङ्गत्वात्छे चे॑ति तुकि कृते सति सतुक्कस्य छस्य शकार आदेशः । वकारस्य ऊठमुदाहरति — खौनातीति । खव् ना तीति स्थिते वकारस्य ऊठ, ठकार इत् 'एत्येधत्यूठ्सु' इति वृद्धिरिति भावः । खौनीतः खौनन्तीत्यादि । खव् ना हि इति स्थितेहलः श्नश्शानज्झौ॑इतिशानजादेशमाशङ्क्याअह — शानचः परत्वादिति । हेठ चेति । हेठधातुरपि भूतप्रादुर्भावे वर्तते इत्यर्थः । ग्रह उपादाने इति । अदुपधः । स्वरितेत्त्वादुभयपदी । किति ङिति च संप्रसारणं स्मारयति — ग्रहिज्येति । गृह्णाति गृह्णीते इति । श्नाप्रत्ययस्य ङित्त्वाद्रेफस्य संप्रसारणे पूर्वरूपमिति भावः । णलि द्वित्वे कृतेलिटभ्यासस्ये॑ति संप्रसारणे उरदत्त्वे रपरत्वे हलादिशेषे अभ्यासचुत्वे उपधावृद्धिः । जग्राह.अतुसादौ क्ङति परत्वात्ग्रहिज्ये॑ति संप्रसारणे कृते द्वित्वादि । जगृहतुः जगृहुः । जग्रहिथ । जगृहुथुः जगृह । जग्राह-जग्रह जगृहिव जगृहिम । जगृहे जगृहाते जगृहिरे । जगृहिषे जगृहाथे जगृहिढ्वे-जगृहिध्वे । जगृहे जगृहिवहे जगृहिमहे ।

Padamanjari

Up

यद्यत्र केवलस्य च्छस्य ग्रहणं स्यात्, तदा पृच्छेरुप देशानन्तरं तुकि कृते क्तप्रत्यये परतश्च्छकारमात्रस्य शादेशे षत्वे तुकः ष्टुअत्वे षृट्ष्ट इत्यनिष्ट्ंअ रुपं स्यात् । न च निमिताभावे नैमितिकस्याप्यभावः इति तुको निवृत्तिः, न हीदं वचनं नापि न्यायः, न हि कृतस्य निवृतौ कश्चिन्न्यायः । कथं तर्हि स्थातेत्यत्र सत्वे कृते ष्टुअत्वस्य निवृत्तिः, नात्र कृतमेव ष्टुअत्वं निवर्तते, किं तहि तस्यासिद्धत्वात्पूर्वमेव सत्वम्, तत्र ष्टुअतवस्य प्राप्त्यभावः तदेवं वितुक्कस्य ग्रहणे दोषं दृष्ट्वाऽऽह - च्छ इत्येतस्य सतुक्कस्येति । कथं पुनर्ज्ञायते - छेत्यस्य सतुक्कस्य ग्रहणमिति यजयाचेति नङे ङ्त्किरणात् । तद्धि विश्न इत्यत्र गुणो मा भूदिति, सतुक्कस्यैव शादेशे लघूपधत्वाद् गुणप्रसङ्गः । वितुक्कस्य तु शादेशे तकार उपधा, नेकारः, संयोगे गुरु इति गुरुसंज्ञश्च । पृच्छेस्तु क्ङिति सम्प्रसारणार्थ नङे ङ्त्विं न भवति प्रश्ने चासन्नकाले इति निपातनात् । तस्मात्सतुक्कस्य ग्रहणम् । एवं च कृत्वा षृष्टप्रतिवचने इति निर्द्देशोपपतिः । ननु सतुक्कस्य ग्रहणेऽपि अलोऽन्त्यस्य इति च्छमात्रस्य प्रसङ्गः न ह्यनर्थकेऽलोन्त्यविधिरस्ति । अथ सतुक्केन च्छेनाङ्गस्य विशेषणातदन्तस्याङ्गस्यालोऽन्त्यस्य प्रसङ्गः तदापि निर्द्दिश्यमानस्यादेशा भवन्तीति सह तुका भविष्यति । एअन्तरङ्गत्वादिति । उपदेशान्तरं प्रसङ्गादन्तरङ्गत्वम्, शस्तु बहिरङ्गः, कथमुत्पन्ने प्रत्ययेऽङ्गसंज्ञा, अङ्गस्य च शादेशः । न च वार्णादाङ्गं बलीयः, भिन्नकालत्वात् । औणादिके नप्रत्यय इति । साक्षात्सिवेरविहितोऽपि बाहुलकान्नप्रत्ययः । पुगन्तलघूपधगुणात्पूर्वमूठ क्रियते इति । अन्तरङ्गत्वादिति वक्ष्यमाणो हेतुरिहाव्यपक्रष्टव्यः, गुणो हि बह्वहेक्षो बहिर्भूतप्रत्ययाप्रेक्षश्च, ऊठ तु विपर्ययादन्तरङ्गः, तेन स एव पूर्व क्रियते । तत्र कृतेऽन्तरङ्गत्वाद्यणादेश इति । अन्तर्भूताजपेक्षत्वाद्यणोऽन्तरङ्गत्वम्, गुणस्तु पूर्ववदेव बहिरङ्गः । नानाश्रयत्वाच्चेति । यत्रैकमेव निमितीकृत्याङ्गवर्णयोर्युगपत्प्राप्तिस्तत्र वार्णादाङ्गं बलीयः, तथा अचो ञ्णितीति वृद्धेरवकाशः - गौरिति, यणोऽवकाशः - दध्यत्रेति चकारेत्यत्र कृ - अ इति स्थिते उभयप्रसङ्गे परामपि वृद्धिं बाधित्वान्तरङ्गत्वाद्यणि एप्राप्ते वार्णादाङ्गं बलीयः इति वृद्धिर्भवति । शब्दप्राडिति । व्रश्चादिषत्वम्, जश्त्वजत्वे । गोविडिति । विच्छ गतौ, गां विच्छायतीति विगृह्य आयादय आर्धधातुके वा इत्यायप्रत्ययाभावपक्षे क्विप् । अक्षद्यूः, हिरण्यष्ठ।लूरिति । दिविष्ठिविभ्यां क्विप्, सुब्धातुष्ठिबुष्वष्कतीतनां प्रतिषेधः इति सत्वाभावः । ननु चान्तरङ्गे यणि बहिरङ्गस्योठोऽसिद्धत्वाद्यणादेशेन नात्र भवितव्यमत आह - असिद्धं बहिरङ्गमन्तरङ्ग इति । नाजान्तर्य इति । अस्यायमर्थः - यत्रान्तरङ्गे बहिरङ्गे वाऽचोरानन्तर्यमाश्रीयते तत्र बहिरङ्गपरिभाषा न प्रवर्तत इति । एतच्च षत्वतुकोरसिद्धः इत्यत्र ज्ञापितम् । द्यौम्यामिति । ऊठोऽवकाशः द्यौउतः, द्यौउतवान्, उत्वस्यावकाशः - अहर्विमलद्यौः द्यौभ्यामित्यादावुभयप्रसङ्गः । तस्मात् क्ङ्तीत्यित्रानुवर्तयितव्यमिति भावः । केचिदित्यादि ।तेषां मते हि दिविप्रभृतीनां यङ्लुगन्तानां तिप्सिपोरीडभावपक्षे ऊठि सति देदिवीति देद्योति, देदिवीषि, देद्योषीति । पूर्वत्र तु पक्षे वलिलोपे- देदेति, देदेवीति । कथं द्यौभ्यां द्यौभिरिति ऊठि कृत इति । क्ङ्तीत्यास्यानिनुवृतत्वात् अत्रापि परत्वादूठा भाव्यम्, ऊठि च कृते द्यौउभ्यां द्यौउभिरिति भवितव्यमिति प्रश्नः । दिव उदिति तपरकरणादित्यादि । अत्र हि तपरकरणं न कर्तव्यम्, यतोऽर्द्धमात्राकालस्य व्यञ्जनस्य मात्राकालो ह्रस्व एव सिद्धः, तत्क्रियते लक्षणान्तरेणापि दीर्घो मा भूदिति । तेन परमप्यूठ्ंअ बाधित्वा दिव उत् इत्यनेन मात्राकालो भविष्यतीत्यर्थः । अथ वा - ऊठि कृते इत्यस्य परेण परिहरग्रन्थेन सम्बन्धः । तत्रायमर्थः - क्रियतां सामान्येन क्ङिति चान्यत्र च ऊठ, कृते तु तस्मिन्नेकदेशविकृतस्यानन्यत्वातस्यैवोठः स्थाने तपरत्वान्मात्राकालो भविष्यति । तेषामित्यादि । क्ङिद्ग्रहणे हि निवृते सति तृजादावपि शास्यानेन विधानाद् व्रश्चादिसूत्रे च्छग्रहणं न कर्तव्यम्, शकारस्य षत्वविधानेनैव सर्वस्य सिद्धत्वात् । ये तु क्ङिद्ग्रहणमनुवर्तयन्ति, तेषां तृजादौ शत्वस्याभावाच्छस्येव षत्वं विधातव्यम् । तत्रापि सतुक्कस्य ग्रहणम् । ऊडयं यदि दित्स्याद् आद्यन्तौ टकितौ इत्यादिः प्रसज्येत, अस्तु वकारस्य, वलि लोपे सति अक्षद्यौउरित्यादि सिद्धम् । न च नाप्राप्ते वलिलोपे आरभ्यमाण ऊङ्वलोपस्य बाधकः स्यादिति शङ्कनीयम्, भिन्नजानीयत्वात् - ऊडागमः, लोप आदेशः, न च भिन्नजातीयं बाधकं भवति । न हि दधि ब्राह्मणेभ्यो दीयतां कम्बलः कौण्डिन्यायेति दध्नः कम्बलो बाधको भवति सत्यम्, उतरसूत्रे त्वागमिभेदाद् द्वावूठौ स्याताम् - एको वकारात्पूर्वः, अपर उपधायाः, तस्मादूठष्टित्वमवश्याङ्गीकर्तव्यमिति मन्यमानस्तदङ्गीकरणे प्रयोजनमाह - ऊठष्ठित्करणमिति । एवं ब्रुवता एत्येधत्यूठसु इति ठकारस्य चर्त्वेन निर्द्देश इत्युक्तं भवति । यत्र ठकारो न क्रियते ततो वृद्धिविधावपि नोपादीयेत, ततश्च प्र - ऊहते पोहत इत्यत्रापि स्यात् । वाह ऊडित्ययमपि ठिदेवेति । अन्यथा तस्य वृद्धिविधौ ग्रहणं न स्यात्, अत्रापि ठकारस्याश्रवणं जश्चत्वचर्त्वाभ्याम् ॥