6-1-11 चङि एकाचः द्वे प्रथमस्य अजादेः द्वितीयस्य धातोः अनभ्यासस्य
चङि धातोः अनभ्यासस्य द्वे
चङ्-प्रत्यये परे यस्य धातोः द्वित्वम् न कृतमस्ति तस्य द्वित्वं भवति ।
When followed by the चङ्-प्रत्यय, a verb root that have not yet undergone द्वित्वम् undergoes द्वित्वम्.
चङि परतोऽनभ्यासस्य धातोरवयवस्य प्रथमस्यैकाचो द्वितीयस्य वा यथायोगं द्वे भवतः। अपीपचत्। अपीपठत्। आटिटत्। आशिशत्। आर्दिदत्। पचादीनां ण्यन्तानां चङि कृते णिलोप उपधाह्रस्वत्वं द्विर्वचनमित्येषां कार्याणां प्रवृत्तिक्रमः। तथा च <<सन्वल्लघुनि चङ्परे०>> ७.४.९३ इति सन्वद्भावो विधीयमानो ह्रस्वस्य स्थानिवद्भावाद् न प्रतिषिध्यते। यो ह्यनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावो भवति। न चास्मिन् कार्याणां क्रमेणानादिष्टादचः पूर्वोऽभ्यासो भवतीति। आटिटदिति <<द्विर्वचनेऽचि>> १.१.५९ इति स्थानिवद्भावाद् द्वितीयस्यैकाचो द्विर्वचनं भवति॥
चङि परे अनभ्यासधात्वयवस्यैकाचः प्रथमस्य द्वे स्तोऽजादेस्तु द्वितीयस्य ॥
चङि परे अनभ्यासस्य धात्ववयवस्यैकाचः प्रथमस्य द्वे स्तोऽजादेर्द्वितीयस्य॥
'चङ्' इति कश्चन प्रत्ययः । लुङ्-लकारस्य विषये <<च्लि लुङि>> 3.1.43 इत्यनेन च्लि-विकरणे कृते अस्य विकरणस्य <<णिश्रिद्रुस्रुभ्यः कर्तरि चङ्>> 3.1.48 इत्यनेन ण्यन्त-धातूनाम् विषये, तथा च श्रि, द्रु, स्रु, इत्येतेषाम् विषये चङ्-आदेशः भवति । अस्मिन् आदेशे परे अङ्गस्य द्वित्वं कृतम् नास्ति चेत् अनेन सूत्रेण द्वित्वं विधीयते । यथा, कृ धातोः णिच्-प्रत्यये परे 'कारि' इति आतिदेशिकः धातुः सिद्ध्यति । अस्य धातोः लुङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् जायते - कारि + लुङ् [<<लुङ्>>3.2.110 इति लुङ्] → कारि च्लि ल् [<<च्लि लुङि>> 3.1.43 इति विकरणप्रत्ययः च्लि] → कारि चङ् ल् [<<णिश्रिद्रुस्रुभ्यः कर्तरि चङ्>> 3.1.48 इत्यनेन ण्यन्त-धातूनाम् विषये च्लि-इत्यस्य चङ्-आदेशः] → कारि अ ल् [इत्संज्ञालोपः] → कार् कारि अ ल् [चङ्-आदेशे परे <<चङि>> 6.1.11 इत्यनेन धातोः द्वित्वम् । <<एकाचो द्वे प्रथमस्य>> 6.1.1 इत्यनेन 'कार्' इति प्रथम-एकाच्-अवयवस्य द्वित्वम् भवति ।] → का कारि अ ल् [<<हलादि शेषः>> 7.4.60 इति अभ्यासस्य रेफलोपः] → क कारि अ ल् [<<ह्रस्वः>> 7.4.59 इति ह्रस्वः] → कि कारि अ ल् [<<सन्यतः>> 7.4.79 इति अभ्यासस्य इकारः] → की कारि अ ल् [<<दीर्घो लघोः>> 7.4.94 इति अभ्यासस्य लघुवर्णस्य दीर्घः] → ची कारि अ ल् [<<कुहोश्चुः>> 7.4.62 इति अभ्यासस्य ककारस्य चकारः] → अट् ची कारि अ ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ ची करि अ ल् [<<णौ चङ्युपधायाः ह्रस्वः>> 7.4.1 इति उपधाह्रस्वः] → अ ची कर् अ ल् [<<णेरनिटि>> 6.4.51 इति इकारलोपः] → अ ची कर् अ तिप् [<<तिप्तस्..>> 3.4.78 इति तिप्] → अ ची कर् अ त् [<<इतश्च>> 3.4.100 इति इकारलोपः] → अचीकरत् ज्ञातव्यम् - ण्यन्ताः धातवः इत्युक्ते ते धातवः येषामन्ते 'णि' प्रत्ययः अस्ति । 'णि' इत्यनेन णिङ् तथा णिच् एतौ द्वौ प्रत्ययौ स्वीक्रियेते ।
<<श्लौ>> - शेषं पूरयति — धातोद्र्वे स्त इति ।एकाचो द्वे॑इत्यतोलिटि धातो॑इत्यतश्च तदनुवृत्तेरिति भावः । द्वित्वे कृते अभ्यासकार्यमभिप्रेत्य आह — जुहोतीति । यणिति । उवङपवाद इत्यर्थः ।
एषां कार्याणां प्रवृत्तिक्रम इति। एतच्च ठचः परस्मिन्ऽ इत्यत्रोपपादितम्, तत एवावधातव्यम्। न केवलं न्याप्यत्वादयं क्रम आश्रीयते, किन्तु प्रयोजनमप्यनन्यथासिद्धमस्तीत्याह - यथा हीति। ह्रस्वस्य स्थानिवद्भावान्न प्रतिषिध्यत इति।'ह्रस्वस्य स्थानिवद्भावात्प्रतिषिध्यते' इति यतन्म भवति, स्थानिवद्भावाभावादित्यर्थः। कथं पुनरस्मिन् कार्यक्रमे सति सथानिवद्भावो न भवति? इत्यत आह - अनादिष्टाचेति। [करणे हेतौ?ट्। ठचः परस्मिन्ऽ इत्यत्र योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावो भवतीति सिद्धान्तः स्थापितः। न चास्मिन् क्रमे सत्यनादिष्टादचः पूर्वोऽभ्यासो भवति, किं तर्हि? आदिष्टादेव; ह्रस्वत्वे कृतेऽभ्यासोपजननात्। तेन तस्य विधौ कर्तव्ये ह्रस्वस्त स्थानिवद्भावो न भवतीति लघुत्वानिवृतेः सन्वद्भावो न व्याहन्येत। यदि तु द्विर्वचने कृते ह्रस्वः क्रियते, तर्ह्यनादिष्टादचः पूर्वोऽभ्यासः स्यात्, ततश्च तस्य स्थावनिवद्भावः स्यादेव विधौ, ततश्च दीर्घत्वाल्लघुसंज्ञाया अभावात्सन्वद्भावो न स्यात्। क्व तर्हि स्याद्? अशीशमदित्यादौ। अत्र हि णावेव णितां ह्रस्वो विधीयते। यदि तर्ह्ययं कार्यक्रमः, आटिटदित्यादऐ द्वितीयस्यैकाचष्टिशब्दस्य द्विर्वचनं न प्राप्नोति ? अत्राह - आटिटदित्यादि।'श्लुचङेः' इत्येकयोग एव कर्तव्ये योगविभागो वैचित्र्यार्थः ॥