3-1-43 च्लि लुङि प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः
लुङि धातोः च्लि
लुङ्लकारे परे धातोः च्लि-प्रत्ययः भवति ।
In case of लुङ्लकार, धातु gets the च्लि विकरणप्रत्यय.
धातोश्च्लिः प्रत्ययो भवति लुङि परतः। इकार उच्चारणार्थः, चकारः स्वरार्थः। अस्य सिजादीनादेशान् वक्ष्यति। तत्रैवोदाहरिष्यामः॥
शबाद्यपवादः ॥
शबाद्यपवादः॥
लुङ्लकारस्य विषये धातोः 'च्लि' इति विकरणप्रत्ययः भवति । यथा - पठ् + लुङ् [<<लुङ्>> 3.2.110 इति लुङ्] → पठ् + च्लि + ल् [<<च्लि लुङि>> 3.1.43 इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि'] → ... [सम्पूर्णा प्रक्रिया <<च्लेः सिच्>> 3.1.44 इत्यत्र द्रष्टव्या ।] → अपठीत् / अपाठीत् यद्यपि अनेन सूत्रेण लुङ्-लकारस्य विषये प्रारम्भे 'च्लि' इति प्रत्ययः विधीयते, तथापि च्लि-प्रत्ययः स्वयम् किमपि कार्यम् न करोति, अपितु तस्य अग्रे भिन्नानाम् धातूनाम् विषये भिन्नाः आदेशाः विधीयन्ते । ते एतादृशाः - 1. <<च्लेः सिच्>> 3.1.44 इत्यनेन औत्सर्गिकरूपेण च्लि-प्रत्ययस्य सिच्-आदेशः भवति । 2. ये धातवः इगुपधाः शल्-वर्णान्ताः च सन्ति, तेषां विषये <<शल इगुपधादनिटः क्सः>> 3.1.45 इत्यनेन च्लि-प्रत्ययस्य 'क्स' आदेशः विधीयते । अन्यासु अपि कासुचित् स्थितिसु च्लि-प्रत्ययस्य 'क्स' आदेशः भवति । 3. <<णिश्रिद्रुस्रुभ्यः कर्तरि चङ्>> 3.1.48 इत्यनेन ण्यन्त-धातुभ्यः तथा श्रि-द्रु-स्रु-एतेभ्यः परस्य च्लि-प्रत्ययस्य चङ्-आदेशः भवति । अन्यैः अपि कैश्चन सूत्रैः भिन्नेभ्यः धातुभ्यः च्लि-इत्यस्य चङ्-आदेशः विधीयते । 4. अस् (क्षेपणे), ब्रू, ख्या - एतेषां विषये च्लि-प्रत्ययस्य <<अस्यतिवक्तिख्यातिभ्यः अङ्>> 3.1.52 इत्यनेन अङ्-आदेशः भवति । अन्येषां धातूनाम् विषये अपि भिन्नैः सूत्रैः अयमादेशः भवति । 5. पद्-धातोः <<चिण् ते पदः>> 3.1.60 इत्यनेन तशब्दे परे चिण्-आदेशः भवति । अन्येभ्यः धातुभ्यः अपि च्लि-विकरणस्य चिण्-आदेशः भवति । ज्ञातव्यम् - कौमुद्यां दीक्षितः वदति - च्लि-विकरणम् <<कर्तरि शप्>> 3.1.68 इत्यस्य अपवादरूपेण आगच्छति । एषः पक्षः स्वीक्रियते चेत् लकारस्य आदौ तिबादेशम् कृत्वा ततः विकरणप्रत्ययः आगच्छतीति स्मर्तव्यम् ।
<<च्लि लुङि>> - च्लि लुङि । च्लीति लुप्तप्रथमाकम् । लुङि परे धातोश्च्लिप्रत्ययः स्यादित्यर्थः । शबाद्यपवाद इति । आदिना श्यनादिविकरणसङ्ग्रहः ।