यङोऽचि च

2-4-74 यङः अचि च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

यङो लुग् भवत्यचि प्रत्यये परतः। चकारेण बहुलग्रहणमनुकृष्यते, न तु छन्दसीति। तेन छन्दसि भाषायां च यङो लुग् भवति। लोलुवः। पोपुवः। सनीस्रंसः। दनीध्वंसः। बहुलग्रहणादनच्यपि भवति। शाकुनिको लालपीति। दुन्दुभिर्वावदीति॥

Siddhanta Kaumudi

Up

यङोऽच्प्रत्यये लुक् स्याच्चकारात्तं विनापि बहुलं लुक् स्यात् । अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवति । ततः प्रत्ययलक्षणेन यङन्तत्वाद्द्वित्वम् । अभ्यासकार्यम् । धातुत्वाल्लडादयः । शेषात्कर्तरि - <{SK2149}> इति परस्मैपदम् । अनुदात्तङित - <{SK2157}> इति तु न । ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः । यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत् । अत एव सुदृषत्प्रासाद इत्यत्र अत्वसन्तस्य - <{SK425}> इति दीर्घो न । येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योपि न । अनुदात्तङित - <{SK2157}> । इत्यनुबन्धनिर्देशात् । तत्र च [(परिभाषा - ) श्तिपा शपा...] इति निषेधात् । अत एव श्यन्नादयो न । गणेन निर्देशात् । किंतु शबेव । चर्करीतं चेत्यादादौ पाठाच्छपो लुक् ॥

Laghu Siddhanta Kaumudi

Up

यङोऽचि प्रत्यये लुक् स्यात्, चकारात्तं विनापि क्वचित्। अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवति। ततः प्रत्ययलक्षणेन यङन्तत्वाद्द्वित्वम्। अभ्यासकार्यम्। धातुत्वाल्लडादयः। शेषात्कर्तरीति परस्मैपदम्। चर्करीतं चेत्यदादौ पाठाच्छपो लुक्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

यङेऽचि च॥ अचि प्रत्यये परत इति। पचाद्यचीत्यर्थः। एतदेव ज्ञापकम् - सर्वधातुभ्यः पचाद्यच् भवतीति। प्रत्याहारग्रहणं तु न भवति, तथा हि सति - अणीत्येव वक्तव्यम्; अन्याजादेः प्रत्ययस्यासंभवात्। न तु च्छन्दसीति।'हुश्नुवोः सार्वधातुके' इत्यत्र वार्तिकम् -'हुश्नुग्रहणमनर्थकमन्यस्याभावात्' । यान्ति वातीत्यत्र क्ङ्तीत्यिधिकारान्न भविष्यति, यातः वातः, अचीत्यनुवर्तते। यान्ति वान्ति, ओरिति। युवन्ति रुवन्ति, अनेकाचेति वर्तते। अयुवन्, अरुवन्, अडागमोऽसिद्धः। प्रोर्णवन्ति, असंयोगपूर्वस्येति वर्तते। यङ्लुङ्निवृत्यर्थ तर्हि हुश्नुग्रहणम् - योयुवति, रोरुवति। यङ्लुगर्थमिति चेदार्धधातुकत्वास्तिद्धम्, छान्दसो यङ्लुक्, तत्र'च्छन्दस्युभयथा' इत्यार्धधातुकत्वादेव न भविष्यति। तदेवं यङ्लुकश्छान्दसत्वमभ्युपगम्य हुश्नुग्रहणं प्रत्याख्यातं वार्तिककारेण। स मन्यते - चकारेणात्र'बहुलं च्छन्दसि' इति सर्वमनुवर्तिष्यते, तेनाचि प्रत्यये परतः च्छन्दसि भाषायां यङे लुग् भवतीत्येकं वाक्यम्, च्छन्दसि बहुलमनैमितिको लुगिति द्वितीयम्, प्रसिद्धश्च तथा छान्दसो यङ्लुगिति। प्रयोगश्च चिरन्तनः पद्ये गद्ये च काव्याख्यायिकादौ विकटपदएपन्यासप्रधानैरपि कविभिर्न कृतो द्दश्यते। भाष्यकारस्तु'हुश्नुवोरिति वक्ष्यन्ति, एवं तर्ह्येतज्ज्ञापयति - भाषायामपि यङ्लुक्' इति, तेन चेचिदीति, चेच्छिदीति, योयवीतीत्यादि सिद्धं भवति। वृत्तिकारस्तु मन्यते -'यदि ज्ञापकेनापि तावद्भाषायामपि यङ्लुकः प्रयोगे भवति, हन्तैवमत्रैव च्छन्दोग्रहणं मानुवृतत्! प्रयेगस्तु ज्ञापकाश्रयेणैव यथाभिधानं व्यवस्थास्यते' इति, अतो न भाष्यवार्तिकविरोधो वृतेः शङ्कनीयः॥