1-1-5 क्क्ङिति च इकः गुणवृद्धी न
क्ङिति इकः गुणवृद्धी न
कित्/गित्/ङित्-प्रत्ययस्य उपस्थितौ इग्लक्षणम् गुणकार्यम् वृद्धिकार्यं च निषिध्यते ।
In presence of a कित्, गित् or a ङित् प्रत्यय, any गुण or वृद्धि that might happen on an इक्-letter of an अङ्ग is prohibited.
निमित्तसप्तम्येषा। क्ङिन्निमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवतः। चितः। चितवान्। स्तुतः। स्तुतवान्। भिन्नः। भिन्नवान्। मृष्टः। मृष्टवान्। ङिति खल्वपि — चिनुतः, चिन्वन्ति। मृष्टः, मृजन्ति। गकारोप्यत्र चर्त्वभूतो निर्दिश्यते। <<ग्लाजिस्थश्च क्स्नुः>> ३.२.१३९ — जिष्णुः। भूष्णुः। इक इत्येव — कामयते। लैगवायनः। मृजेरजादौ संक्रमे विभाषा वृद्धिरिष्यते। संक्रमो नाम गुणवृद्धिप्रतिषेधविषयः। परिमृजन्ति, परिमार्जन्ति। परिमृजन्तु, परिमार्जन्तु। लघूपधगुणस्याप्यत्र प्रतिषेधः। अचिनवमसुनवमित्यादौ लकारस्य सत्यपि ङित्वे यासुटो ङिद्ववचनं ज्ञापकं ङिति यत् कार्यं तल्लकारे ङिति न भवतीति॥
गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः । भूयात् । भूयास्ताम् । भूयासुः । भूयाः । भूयास्तम् । भूयास्त । भूयासम् । भूयास्व । भूयास्म ॥
गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः। भूयात्। भूयास्ताम्। भूयासुः। भूयाः। भूयास्तम्। भूयास्त। भूयासम्। भूयास्व। भूयास्म॥
यस्मिन् प्रत्यये ककारः, गकारः उत ङकारः इत्संज्ञकः अस्ति, तं प्रत्ययं निमित्तरूपेण स्वीकृत्य अङ्गस्य इक्-वर्णस्य गुणवृद्धी न भवतः — इति अस्य सूत्रस्य अर्थः ।
क्रमेण उदाहरणानि एतानि —
<<क्क्ङिति च>> - क्ङिति च । ग् क् ङ् एषां समाहारद्वन्द्वः, कात्पूर्वगकारस्य चर्त्वेन निर्देशात् । ग् क् ङ् च इत् यस्येति विग्रहः । द्वन्द्वान्ते श्रूयमाण इत्यर्थ । इक इत्युचार्य विहिते इति लभ्यते ।न धातुलोप आर्धधातुके॑ इत्यतो नेत्यनुवर्तते । तदाह — गित्किन्ङिन्नमित्ते इत्यादिना । गितीत्यनुक्तौ तुग्लाजिस्थश्च ग्स्नु॑रिति ग्स्नुप्रत्ययेजिष्णु॑रित्यत्र गुणनिषेधो न स्यात् । न च ग्स्नुप्रत्ययः किदेव क्रियतामिति वाच्यं, तथा सतिघुमास्थे॑ति किति विहितस्य ईत्वस्य प्रसङ्गात् । यदि तु गिति ङिति परतो गुणवृद्धी न स्त इति व्याख्यायेत, तदा च्छिन्नं भिन्नमित्यत्र क्तप्रत्यये परे लघुपधगुणनिषेधो न स्यात् । स्थानिभूतस्येको हला व्यवधानात् । न च येन नाव्यवधानन्यायः शङ्क्यः । चितं स्तुतमित्यादावव्यवहिते चरितार्थत्वात् । यदि च 'इको गुणवृद्धी' इत्येव व्याख्यायेत, न त्विग्लक्षणे इति, तदा लिगोरपत्यं लैगवायनः, नडादित्वात् फक्, इह आदिवृद्धेरोर्गुणस्य च वस्तुगत्या इक्स्थानिकत्वान्निषेधः स्यादित्यलम् । भूयादिति । इहार्धधातुकत्वाल्लिङ सलोप इत्यस्याऽप्रवृत्तेः स्कोरिति सलोप इत्युक्तं न विस्मर्तव्यम् । न चैवमपि संयोगादिलोपस्याऽसिद्धत्वाद्धल्ङ्यादिलोपः स्यादिति वाच्यं, सुटि यासुटि च सति ताभ्यां विशिष्टस्यैव प्रत्ययत्वेनाऽपृक्तत्वाऽभावादित्यलम् । भूयास्तामिति । आशिषि लिङस्तस्तामादेशे आर्धधातुकत्वाच्छभावे यासुडागमेऽतः परत्वाऽभावादियादेशाऽभावे सुटि झल्परसंयोगदित्वेन यासुटः सकारस्य लोपो, गुणनिषेधश्च । भूयासुरिति । झेर्जुसि यासुडागमे गुणनिषेधे रूपम् । भूया इति । आशीर्लिङः सिपि इतश्चेतीकारलोपः । यासुटःस्को॑रिति सलोपः, गुणनिषेधः, रुत्वविसर्गौ । भूयास्तमिति । थसस्तमादेशे यासुटि गुणनिषेधः । एवं थस्य तादेशेऽपि भूयास्तेति रूपम् । भूयासमिति । मिपोऽमादेशे यासुटि गुणनिषेधः । भूयास्वेति । लिङो वस् । 'नित्यं ङित' इति सकारलोपः । यासुट् । गुणनिषेधः । एवं मसि भूयास्मेति रूपम् । इत्याशीर्लिङ्प्रक्रिया ।
क्ङिद्ग्रहणं यदि विधीयमानस्य प्रतिषेधस्य विशेषणं स्याद् - गुणवृद्धी क्ङिति न भवत इति, ततो विधिसंस्पर्शात् ' तस्मिन्निति निर्दिष्टे पूर्वस्य' इत्यस्योपस्थानात् क्ङित्यनन्तर एव प्रतिषेधः स्यात् । यद्यपि प्रतिषेधस्य विधानदशायां पौर्वापर्यं न संभवति, तथा निषेध्यमानयोर्गुणवृद्ध्योरपि; तथापि स्थानिन इकोऽनन्तरे क्ङिति प्रतिषेधः स्यात् । एवं हि विधानोतरकालमपि तावद् गुणवृद्ध्यभावरूपस्य प्रतिषेधस्य क्ङिदनन्तरः सम्भवति, 'इको यणचि' इत्यादावप्येतावदेव पौर्वापर्यं यद्विधानदशायां तु स्थानिनः, उतरकालं तु विधेयस्य । यदा त्वनूद्यमानयोर्गुणवृद्ध्योर्विशेषणम्-क्ङिति सति ये गुणवृद्धी प्राप्नुतस्ते न भवत इति, तदाऽनुवादकत्वातस्मिन्नित्यादिकायाः परिभाषाया अनुपस्थानम् । न हि 'क्ङिति सति ये गुणवृद्धी' इत्युक्ते विधिव्यापारेण क्ङितः कश्चित् संस्पर्शः । विध्यङ्गभूताश्च परिभाषास्तत्रैवोपतिष्ठन्ते नानुवादे, तस्यापि परार्थत्वाद्,द्वयोश्च परार्थयोः परस्परं सबन्धाभावात्; अन्यथा 'वृद्धिर्यस्याचामादिस्तद्वृद्धम्' इत्यत्रेक्परिभाषोपस्थाने शालीय इति वृद्धसंज्ञाया अभावातल्लक्षणश्छाए न स्यात् । तथा च 'उदीचामातः स्थाने' इति स्थानेग्रहणं कृतम्-आतः स्थाने योऽकार इत्यनुवादकत्वात् 'षष्ठी स्थानेयोगा' इति स्थानेयोगो न लभ्येतेति । अतोऽस्मिन् पक्षे क्ङितीति सति सप्तमी 'यस्य च भावेन' इति । किङितोर्हि सतालक्षणेन भावेन गुणवृद्ध्योः प्राप्तलक्षणो भावो लक्ष्यते, निमितस्य च सतया निमितिनः प्राप्तिर्लक्ष्यत इति 'क्ङिति सति ये गुणवृद्धी प्राप्नुतः ' इत्यस्य 'क्ङिन्निमिते ये गुणवृद्धी प्राप्नुतस्ते न भवत' इत्यर्थो भवति । भिन्नः, मृष्ट इत्यादौ चोपधाया अपि प्राप्नुवन्त्यौ गुणवृद्धी क्ङितं निमितमाश्रित्य प्राप्नुत इत्येतत्सर्वमालोच्याह - निमितसप्तम्येषेति । निमितात्सप्तमी निमितसप्तमी, पञ्चम्यर्थे शेषत्वेन विवक्षिते पष्ठीसमासः । क्ङिन्निमिते इति । एतेन गुणवृद्धिविशेषणं क्ङिद्ग्रहणमिति दर्शयति । ननु च विधीयमानतया प्राधान्यात् प्रतिषेधस्यैवैतद्विशेषणं युक्तम्, नैतदस्ति; यत्र हि गुणः कृतात्मसंस्कारः प्रधानोपकाराय महते प्रभवति, तत्रात्मनोऽपि संस्कारमनुभूय प्रधानेन सम्बध्यते, यथा-पानीयमेलादिसंस्कृतं पुरुषेण । उक्तं च- 'गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते । प्रधानस्योपकारे हि तथा भूयसि वर्तते ॥' इति । इह च गुणवृद्ध्योः क्ङिद्ग्रहणेन विशेषितयोर्महान् प्रधानप्रतिषेधस्योपकारो भवति; व्यवहितस्यापि तत्सिद्धेः । ऽभिन्नऽ इति-'रदाभ्याम्' इति नत्वम् । ऽमृष्टऽ इति - व्रश्चादिना षत्वम् । ऽचिन्वन्तीऽति-'सार्वधातुकमपित्' 'हुश्नुवोः सार्वधातुके' । यद्येषा निमितसप्तमी, शचङन्ते दोषः; 'धि धारणे' 'रि गतौ'तुदादी ताभ्यां तिपि 'तुदादिभ्यः शः' 'णिश्रिद्रुस्रुभ्यः कर्तरि चङ्' धि अ ति, रि अ ति, श्रि अ त्, द्रु अ त्, इति स्थिते शचङ्न्तस्याङ्गस्य तिपि लघूपधलक्षणश्च गुणः प्राप्नोति, शचङेः परतः पूर्वस्य सार्वधातुकलक्षणश्च, तत्र शचङ्निमितस्यैव प्रतिषेधः स्याद्, न तिङ्निमितस्य । पक्षान्तरे तु तिङ्निमितस्यापि गुणस्य शचङेः परतः प्रतिषेधो लभ्यते । न वा बहिरङ्गलक्षणत्वाद्वहिर्भूततिबाश्रयो गुणो बहिरङ्गोऽन्तर्भूतशचङ्निमिताभ्यामियणुवङ्भ्यां बाधिष्यते । 'ग्लाजिस्थश्च ग्स्नुः' इत्यत्र वक्ष्यति - 'गिच्चायं प्रत्ययो न कित्, तेन स्थ ईकारो न भवति' इति,'ग्स्नोर्गित्वान्न स्थ ईकारः' इति च । ततश्च भूष्णुरित्यत्र प्रतिषेधो न स्यादित्यत आह - ऽगकारोऽप्यत्रेऽत्यादि । ऽचर्त्वे भूतःऽ-चर्त्वं प्राप्तः । अत एव गकरप्रश्लेषात् संख्यातानुदेशो न भवति; अन्यथा क्ङितौ द्वौ, गुणवृद्धी अपि द्वे इति संख्यातानुदेशः प्राप्नोति-किति गुणस्य, ङिति वृद्धेरिति । ज्ञापकाद्वा, यदयं 'मिदेर्गुणः' इति श्यनि ङिति गुणं शास्ति, तज्ज्ञापयत्याचार्यः-ङात्र संख्यातानुदेशो भवति' इति । यदि तर्हि क्स्नुप्रत्ययो गिद्, भूष्णुरितीट् प्राप्नोति, नैष दोषः; 'र्श्युकः किति' इत्यत्रापि गकारश्चर्त्वभूतो निर्दिश्यते, सौत्रत्वाच्च निर्देशस्य चर्त्वस्यासिद्धत्वात्प्राप्तमपि 'हशि च' इत्युत्वं न भवति, 'कुप्वोः' इति विसर्जनीयश्च भवति । ऽकामयतेऽ इति-'कमेर्णिङ्' । ऽलैगवायनऽ इति-लिगुशब्दात्ङडादिभ्यः फक्' इति फक् । 'ओर्गुणः' इति गुणस्य प्रतिषेधः कथं न भवति यावतोकार इगेव ? नैतदस्ति; अत्र हि चकारः क्रियते, स इत्यर्थो विज्ञायते, तेनेक इतीमं शब्दमुच्चार्य विधीयमानयोर्गुणवृद्ध्योः प्रतिषेधः, न चैवमोर्गुणः । मृजेरित्यादि । इह त्रिमुनि व्याकरणम्, यथोतरं च मुनीनां प्रामाण्यमिति दर्शनस्थितिस्तेन सूत्रकारेणानुक्तं वार्तिककार आह,तदुक्तं च दूषयति, एवं भाष्यकारो वार्तिककारेण । व्याख्यातृत्वमपि द्वयोश्चास्तीत्येतावत्,? 'यस्मिन्विधिस्तदादावल्ग्रहण' इत्यनेन तदादिविधौ सिद्धेऽप्यादिग्रहणं मुख्येऽजादौ यथा स्याद् व्यपदेशिवद्भावेनाजादौ मा भूत् । तुन्दपरिमृजः, यूयं ममृज, त्वया ममृजे । ऽसंक्रमो नामेऽत्यादि । संक्रामतोऽपक्रामतो गुणवृद्धी अस्मादिति कृत्वा । ऽलघूपधगुणस्याप्यत्र प्रतिषेधऽ इति। अत्र सूत्रे लघूपधगुणस्यापि प्रतिषेधः, न तु 'सार्वधातुकार्द्धधातुकयोः' इत्येतस्यैवेत्यर्थः । अनेन निमितसप्तम्याः फलं दर्शितम् । अत्र इत्यनेन सूत्रं निर्दिश्यते । इह अचिनोदिति ङितो लिङस्तिबादेशः, स्थानिवद्भावाद् ङिदिति गुणप्रतिषेधः प्राप्नोति, इह 'अचिनवम्' इति ङितो लिङे मिपि तस्यापि स्थानिवद्भावपरम्परया ङित्वाद् गुणिप्रतिषेधः स्यादित्यत आह-ऽअचिनवमिऽत्यादि । यदि ङिति यत्कार्यं तद् इङितो लकारस्यादेशे स्थानिवद्भावात्स्यात्, यासुटो चनमनर्थकं स्याद्; लिङे ङित्वादेवि तदादेशेषु ङित्कार्यस्य सिद्धत्वात् ॥