7-2-116 अतः उपधायाः वृद्धिः अचः ञ्णिति
index: 7.2.116 sutra: अत उपधायाः
अङ्गस्य उपधायाः अतः ञ्णिति वृद्धिः
index: 7.2.116 sutra: अत उपधायाः
अङ्गस्य उपधा-अकारस्य णित् ञित् प्रत्यये परे च वृद्धिः भवति ।
index: 7.2.116 sutra: अत उपधायाः
The उपधा-अकार of an अङ्ग undergoes a वृद्धिः when followed by a णित् or a ञित् प्रत्यय.
index: 7.2.116 sutra: अत उपधायाः
अङ्गोपधाया अकारस्य स्थाने ञिति णिति च प्रत्यये वृद्धिर्भवति। पाकः। त्यागः। यागः। पाचयति। पाचकः। पाठयति। पाठकः। अतः इति किम्? भेदयति। भेदकः। उपधायाः इति किम्? चकासयति तक्षकः।
index: 7.2.116 sutra: अत उपधायाः
उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे । चखाद ।
index: 7.2.116 sutra: अत उपधायाः
उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे। जगाद। जगदतुः। जगदुः। जगदिथ। जगदथुः। जगद॥
index: 7.2.116 sutra: अत उपधायाः
यदि कस्मिंश्चित् अङ्गे अकारः उपधास्थाने अस्ति, तर्हि तस्य अकारस्य णित्-प्रत्यये परे / ञित्-प्रत्यये परे च वृद्धि-आदेशः (= आकारः) भवति । यथा -
→ पाठ [अत उपधायाः 7.2.116 इति ञित्-प्रत्यये परे उपधा-अकारस्य वृद्धिः आकारः]
→ पाठ् + वु [अत उपधायाः 7.2.116 इति णित्-प्रत्यये परे उपधा-अकारस्य वृद्धिः आकारः]
→ पाठ् + अक [युवोरनाकौ 7.1.1 इति वु-इत्यस्य अक-आदेशः]
→ पाठक
क्षल् + णिच् [सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25 इति स्वार्थे णिच्]
→ क्षल् + इ [इत्संज्ञालोपः । सनाद्यन्ताः धातवः 3.1.32 इति धातुसंज्ञा]
→ क्षालि [अत उपधायाः 7.2.116 इति णित्-प्रत्यये परे उपधा-अकारस्य वृद्धिः आकारः]
→ क्षालि+ लट् [वर्तमाने लट् इति लट्]
→ क्षालि + तिप् [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ क्षालि+ शप् + तिप् [कर्तरि शप् 3.1.68 इति शप्]
→ क्षाले + अ + ति [सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणः]
→ क्षालय् + अ + ति [एचोऽयवायावः 6.1.78 इति अयादेशः]
→ क्षालयति
ज्ञातव्यम् - अस्मिन् सूत्रे 'अतः' इत्यनेन 'अकारस्य वृद्धिः भवति' इति निर्दिष्टमस्ति, अतः इको गुणवृद्धी 1.1.3 इत्यस्य प्रयोगः अत्र न भवति ।
index: 7.2.116 sutra: अत उपधायाः
अत उपधायाः - णलि अजन्तत्वाऽभावादचो ञ्णितीति वृद्धेरप्राप्तौ — अत उपधायाः । वृद्धिः स्यादिति ।मृजेर्वृद्धि॑रित्यतस्तदनुवृत्तेरिति भावः । चखादेति । एत्वाभ्यासलोपौ तु नात्र भवतः, पित्त्वेऽकित्त्वात्, आदेशादित्वात्, तदपेक्षया वृद्धेः परत्वाच्च ।