7-1-91 णल् उत्तमः वा सर्वनामस्थाने णित्
णल्-उत्तमः णित् वा
लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य णल्-प्रत्ययः केवलं विकल्पेन णित् भवति ।
The णल्-प्रत्यय of लिट्लकार-परस्मैपद-उत्तमपुरुषैकवचन is only optionally णित्.
उत्तमो णल् वा णिद् भवति। णित्कार्यं तत्र वा भवतीत्यर्थः। अहं चकर, अहं चकार। अहं पपच, अहं पपाच॥
उत्तमो णल्वाणित्स्यात् । चखाद । चखद ॥
उत्तमो णल् वा णित्स्यात्। जगाद, जगद। जगदिव। जगदिम। गदिता। गदिष्यति। गदतु। अगदत्। गदेत्। गद्यात्॥
लिट्-लकारस्य विषये परस्मैपदस्य प्रत्ययानाम् <<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> 3.4.82 इत्यनेन भिन्नाः आदेशाः विधीयन्ते । अनेनैव सूत्रेण उत्तमपुरुष-एकवचनस्य मिप्-प्रत्ययस्य णल्-आदेशः भवति । अस्मिन् आदेशः णकारः इत्संज्ञकः अस्ति, अतः अयं आदेशः वस्तुतः 'णित्' अस्ति, परन्तु वर्तमानसूत्रेण अस्य णित्वम् केवलं विकल्पेन भवति । णित्वाभावात् <<अचो ञ्णिति>> 7.2.115 इत्यनेन अजन्तस्य अङ्गस्य वृद्धि-एकादेशः, तथा <<अतः उपधायाः>> 7.2.116 इत्यनेन अङ्गस्य उपधा-अकारस्य वृद्धि-एकादेशः - द्वावपि न विधीयेते । उदाहरणानि एतानि - 1. पच्-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया - पच् + लिट् [<<परोक्षे लिट्>> 3.2.115 इति लिट्] → पच् पच् + लिट् [<<लिटि धातोरनभ्यासस्य>> 6.1.8 इति द्वित्वम्] → प पच् + लिट् [<<हलादि शेषः>> 7.4.60 इति चकारलोपः] → प पच् + मिप् [<<तिप्तस्झि...>> 3.4.78 इति मिप्-प्रत्ययः] → प पच् णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> 3.4.82 इति मिप्-इत्यस्य णल्-आदेशः] → प पाच्/पच् + अ [<<णलुत्तमो वा>> 7.1.91 इति वैकल्पिकम् णित्वम् । णित्वे <<अतः उपधायाः>> 7.2.116 इति अङ्गस्य उपधा-अकारस्य वृद्धिः आकारः] → पपाच / पपच 2. नी-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया - नी + लिट् [<<परोक्षे लिट्>> 3.2.115 इति लिट्] → नी नी + लिट् [<<लिटि धातोरनभ्यासस्य>> 6.1.8 इति द्वित्वम्] → नि नी + लिट् [<<ह्रस्वः>> 7.4.59 इति अभ्यासस्य ह्रस्वः] → नि नी + मिप् [<<तिप्तस्झि...>> 3.4.78 इति मिप्-प्रत्ययः] → नि नी णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> 3.4.82 इति मिप्-इत्यस्य णल्-आदेशः] → नि नै अ / नि ने अ [<<णलुत्तमो वा>> 7.1.91 इति वैकल्पिकम् णित्वम् । णित्वे <<अचो ञ्णिति>> 7.2.116 इति इकारस्य वृद्धिः ऐकारः । णित्वाभावे <<सार्वधातुकार्धधातुकयोः>> 7.3.85 इति इकारस्य गुणः एकारः] → निनाय / निनय [<<एचोऽयवायावः>> 6.1.78 इति आय्/अय्-आदेशः] 3. पू-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया - पू + लिट् [<<परोक्षे लिट्>> 3.2.115 इति लिट्] → पू पू + लिट् [<<लिटि धातोरनभ्यासस्य>> 6.1.8 इति द्वित्वम्] → पु पू + लिट् [<<ह्रस्वः>> 7.4.59 इति अभ्यासस्य ह्रस्वः] → पु पू + मिप् [<<तिप्तस्झि...>> 3.4.78 इति मिप्-प्रत्ययः] → पु पू णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> 3.4.82 इति मिप्-इत्यस्य णल्-आदेशः] → पु पौ अ / पु पो अ [<<णलुत्तमो वा>> 7.1.91 इति वैकल्पिकम् णित्वम् । णित्वे <<अचो ञ्णिति>> 7.2.116 इति उकारस्य वृद्धिः औकारः । णित्वाभावे <<सार्वधातुकार्धधातुकयोः>> 7.3.85 इति उकारस्य गुणः ओकारः] → पुपाव / पुपव [<<एचोऽयवायावः>> 6.1.78 इति आव्/अव्-आदेशः] 4. कृ-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया - कृ + लिट् [<<परोक्षे लिट्>> 3.2.115 इति लिट्] → कृ कृ + लिट् [<<लिटि धातोरनभ्यासस्य>> 6.1.8 इति द्वित्वम्] → कर् कृ + लिट् [<<उरत्>> 7.4.66 इति ऋकारान्त-अभ्यासस्य ऋकारस्य अकारः । <<उरण् रपरः>> 1.1.51 इति सः रपरः] → क कृ + लिट् [<<हलादि शेषः>> 7.4.60 इति ककारलोपः] → च कृ + लिट् [<<कुहोश्चुः>> 7.4.62 इति ककारस्य चकारः] → च कृ + मिप् [<<तिप्तस्झि...>> 3.4.78 इति मिप्-प्रत्ययः] → च कृ णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> 3.4.82 इति मिप्-इत्यस्य णल्-आदेशः] → च कार् अ / च कर् अ [<<णलुत्तमो वा>> 7.1.91 इति वैकल्पिकम् णित्वम् । णित्वे <<अचो ञ्णिति>> 7.2.116 इति ऋकारस्य वृद्धिः कारः । णित्वाभावे <<सार्वधातुकार्धधातुकयोः>> 7.3.85 इति ऋकारस्य गुणः अकारः । उभयत्र <<उरण् रपरः>> 1.1.51 इति रेफः] ज्ञातव्यम् - अनेन सूत्रेण केवलं लिट्लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य णल्-प्रत्ययस्य वैकल्पिकं णित्वम् भवति, प्रथमपुरुषैकवचनस्य णल्-प्रत्ययस्य न ।
<<णलुत्तमो वा>> - णलुत्तमः । णित्स्यादिति ।गोतो णि॑त्यतस्तदनुवृत्तेरिति भावः । चखाद चखदेति । णित्त्वे उपधावृद्धिः । तदभावे न ।
णित्कार्यं वा तत्र भवतीत्यर्थं इति । एतेन पक्षे णित्कर्यस्याभावाद्वा णिद्ववतीत्युच्यते, न तु पक्षे णकारस्येत्संज्ञाप्रतिषेधादिति दर्शयति । एतच्च पूर्वत्र कार्यातिदेशाल्लभ्यते । चकारेति । णित्वपक्षे वृद्धिः, अन्यदा तदभावः ॥