धातोः कर्मणः समानकर्तृकादिच्छायां वा

3-1-7 धातोः कर्मणः समानकर्तृकात् इच्छायां वा प्रत्ययः परः च आद्युदात्तः च सन्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

इषिकर्म यो धातुरिषिणैव समानकर्तृकः, तस्मादिच्छायामर्थे वा सन् प्रत्ययो भवति। कर्मत्वं समानकर्तृकत्वं च धातोरर्थद्वारकम्। कर्तुमिच्छति, चिकीर्षति। जिहीर्षति। धातुग्रहणं किम्? सोपसर्गादुत्पत्तिर्मा भूत् — प्रकर्तुमैच्छत्, प्राचिकीर्षत्। कर्मण इति किम्? करणान् मा भूत् — गमनेनेच्छति। समानकर्तृकादिति किम्? देवदत्तस्य भोजनमिच्छति यज्ञदत्तः। इच्छायामिति किम्? कर्तुं जानाति। वावचनाद् वाक्यमपि भवति। धातोरिति विधानादत्र सन आर्धधातुकसंज्ञा भवति, न पूर्वत्र॥ आशङ्कायामुपसंख्यानम्॥ आशङ्के पतिष्यति कूलम्। पिपतिषति कूलम्। श्वा मुमूर्षति॥ इच्छासन्नन्तात् प्रतिषेधो वक्तव्यः॥ चिकीर्षितुमिच्छति। विशेषणं किम्? जुगुप्सिषते। मीमांसिषते॥

शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः।

सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते॥

Siddhanta Kaumudi

Up

इषिकर्मणः इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम् । धातोर्विहितत्वादिह सन आर्धधातुकत्वम् । इट् । द्वित्वम् । सन्यतः <{SK2317}> । पठितुमिच्छति पिपठिषति । कर्मणः किम् । गमनेनेच्छतीति करणान्मा भूत् । समानकर्तृकात्किम् । शिष्याः पठन्त्वितीच्छति गुरुः । वाग्रहणात्पक्षे वाक्यमपि । लुङ्सनोर्घसॢ <{SK2427}> एकाच उपदेशे - <{SK2246}> इति नेट् । सस्य तत्वम् । अत्तुमिच्छति जिघत्सति ॥ ईर्ष्यतेस्तृतीयस्येति यिसनोर्द्वित्वम् । ईर्ष्यियिषति । ईर्ष्यिषिषति ॥

Laghu Siddhanta Kaumudi

Up

इषिकर्मण इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम्॥ {$ {! 1 पठ !} व्यक्तायां वाचि $} (धातुपाठे <{01.0381}>) ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<धातोः कर्मणः समानकर्तृकादिच्छायां वा>> - धातोः कर्मणः । 'गुप्तिज्किद्भ्यः' इत्यतः सन्नित्यनुवर्तते । इच्छायाः श्रुतत्वात्तां प्रत्येव कर्मत्वं विवक्षितम् । तथा समानकर्तृकत्वमपि इच्छानिरूपितमेव विवक्षितम् । कर्मेति स्ववाचकशब्दद्वारा धातौ सा मानाधिकरण्येनान्वेति । एवं च इच्छासमानकर्तृकत्वे सति इच्छाकर्मीभूतो यो व्यापारस्तद्वाचकाद्धातोरिच्छायां सन् वा स्यादिति फलति । तदाह — इषिकर्मण इत्यादि । इषिरिच्छा । इषिणा एककर्तृकतत्वादिषैकर्मीभूतव्यापारवाचकाद्धातोरित्यर्थः । ननु समानकर्तृकादित्युक्त्यैव धातोरिति लब्धम्, धात्वर्थव्यापाराश्रयस्यैव कर्तृत्वादित्यत आह — धातोरिति । धातोरिति विहितस्यैव प्रत्ययस्यार्धधातुकत्वं, नतु धातोः परस्य । अन्यथा जुगुप्सते इत्यत्र आर्धधातुकत्वे फलमाह — इडिति । द्वित्वमिति ।सन्यङो॑रित्यनेनेति भावः । अभ्यासस्य इत्त्वविधिं स्मारयति — सन्यत इति । पठितुमिच्छतीति । भावस्तुमुनर्थः । 'अव्ययकृतो भावे' इत्युक्तेः । धात्वर्थ एव भाव इत्युच्यते । तथा च पठितुमित्यस्य पठनक्रियैऽवार्थः । तस्मिन् पठने #इच्छाकर्मत्वम्, इच्छासमानकर्तृकत्वं च सना गम्यते । तथा च स्वकर्तृकं फटनमिच्छतीत्यर्थे पिपठिषतीति शब्दो वर्तत इत्युक्तं भवति । अथ 'अद भक्षणे' इति धातोः सनि घस्लृभावं स्मारयति — लुङ्सनोर्घस्लृ इति । घस् स इति स्थिते इटमाशङ्क्य आह — एकाचेति नेडिति । घस् स इति स्थिते आह — सस्य तत्वमिति ।सः स्यार्धधातुके॑ इत्यनेनेति भावः । जिघत्सतीति । द्वित्वे अभ्यासजश्त्वचुत्वे इति भावः । य्सनोर्द्वित्वमिति ।तृतीयस्य व्यञ्जनस्ये॑ ति पक्षे ईर्ष्य् इस इत्यत्र यकारमात्रस्य द्वित्वे, सनः षत्वेसं युक्तद्वियकारं रूपमिति भावः । तदाह — ईष्र्ययिषतीति । तथा च सन्नन्ते ईकाररेफषकारयकारद्वित्वेकारषकाराः । 'तृतीयस्यैकाच' इति पक्षे ईष्र्य इ स इत्यत्र स इत्यस्य द्वित्वे अभ्यासेत्तवे सकारद्वयस्यापि षत्वे रूपं मत्वा आह — ईर्ष्यिषिषतीति । अत्र तु सन्नन्ते ईकाररेफषकारयकारेकारषकारेकारषकाराऽकाराः ।

Padamanjari

Up

धातोः कर्मणः समानकर्तृकादिच्छायां वा॥ कर्मत्वसमानकर्तृकत्वयोः क्रियापेक्षत्वादिच्छायायश्च प्रत्ययार्थत्वेनापि तावच्छुतत्वातदपेक्षे एव ते विज्ञायेते इत्याह - इषिकर्म यो धातुरिषिणैव समानकर्तृक इति। अर्थद्धारकमिति। धात्वर्थस्य कर्मत्वात्समानकर्तृकत्वाच्च धातुस्तथा व्यपदिश्यते न स्वरूपेणेत्यर्थः, किं कारणम्? असम्भवात्। यद्यपि करोतिमिच्छतीत्यादौ धातोः स्वरूपेणापि कर्मत्वसम्भवः, तथापि न तस्य स्वरूपेणार्थद्वारेण वा समानकर्तृकत्वं सम्भवति। किं चात्र श्तिपा निर्देशात्स्वरूपपरत्वम्, सन्प्रकृतेस्तु लोकव्युत्पत्यनुसारेणार्थपरत्वमेव, अतः सुष्ठूअक्तम् - धातोरर्थद्वारकं विशेषणमिति। इच्छायाः क्रियायाः कर्मभूत इच्छयैव समानकर्तृकोऽर्थो यस्य धातोस्तस्मात्सन् भवतीत्यर्थः। चिकीर्षति, जिहीर्षतीति। कृहृञ्भ्यां सन्, ठिको झल्ऽ इति कित्वम्, ठज्झनगमां सनिऽइति दीर्घः, ठृत इद्वातोःऽ'हलि च' इति दीर्घ;, सनः षत्वम्, द्विर्वचनम्, हलादिशेषः, ह्रस्वः,'कुहोश्चुः' इति चुत्वम् - ककारस्य चकारः, हकारस्य झकारः, ठभ्यासे चर्चऽ इति जश्त्वम् - जकारः,'सनाद्यन्ता धातवः' इति धातुसंज्ञायां लडादिः। धातुग्रहणं किमिति।'कर्मणः समानकर्तृकात्' इति वचनाद्वाक्यान्न भविष्यति। न ह्यएतदुभयं वाक्यार्थस्य सम्भवति, सुबन्तादपि - पुत्रमिच्छतीत्यादौ असमानकर्तृकत्वान्न भविष्यति, यत्रापि समानकर्तृकत्वम् - गमनमिच्छति, आसनमिच्छतीत्यादौ, तत्रापि क्यज्बाधको भविष्यति। यद्यपि पुत्रमिच्छतीत्यादौ असमानकर्तृके क्यच् सावकाशः तथापि चिकीर्षतीत्यादावसुबन्ते सावकाशं सनं सुबन्तेषु समानकर्तृकेषु परत्वाद्वाधिष्यते। यत्रापि क्यच् प्रतिषिध्यते क्यचि मान्ताव्ययप्रतिषेध इति - कर्तुमिच्छतीति, तत्रापि काम्यज्बाधकः।ङ्याप्प्रातिपदिकेष्वपि खट्वाकुमारीपुत्रादिषु न समानकर्तृकत्वम्। आसनशयनादौ त्वकर्मत्वम्, न हि ङ्याप्प्रतिपदिकं कर्माभिधायि, विभक्त्यभिधेयत्वात्कर्मादीनाम्। धातोरपि तर्हि न स्यात्? अथ तत्र वस्तुतो धात्वर्थस्येच्छया व्याप्यमानत्वात्कर्मत्वम्, प्रातिपदिकादपि स्यात्, अथात्र कर्मरूपानभिधानान्न स्यात्, धातोरपि न स्यादिति समानं वचः? एवं तर्ह्यसमानकर्तृकत्वादेवात्र न भविष्यति। शयनासनादौ हि प्रकृत्यर्थस्यैव समानकर्तृकत्वक्रियारूपत्वाद्, न प्रत्ययार्थस्याक्रियारूपस्य,'क्रियारूपस्य सिद्धता नाम यो धर्मस्तत्र घञादयः' इति स्मरणात्। तिङ्न्तादपि यत एव हेतोः पाकमिच्छतीत्यत्रार्थे पचतीच्छतीति न भवति, तत एव हेतोः सन्नपि न भविष्यति। तदेवं न धातुमपहाय क्वचिदपि प्रसङ्ग इति प्रश्नः। सोपसर्गादुत्पत्तिर्मा भूदिति। अन्यथा सङ्घातस्य विशिष्टक्रियावचनत्वातत एव सन्स्यात्, ततश्च सन्नन्तत्वेन तस्यैव धातुत्वातत एव लङ्युपसर्गात्पूर्वोऽडागमः प्राप्नोति। ननु लिङ्यप्युपसर्गस्य द्विर्वचनप्रसङ्गो दोषः शक्यो दर्शयितुम्? सत्यम्; अट्प्रसङ्गमप्यपरं दोषं दर्शयितुं लणुदाहृतः। ननु धातुरेव विशिष्टक्रियावाची, उपसर्गस्तु सन्निधिमात्रेणोपकारको न तु कस्यचिदर्थस्याभिधानेन, यथा - भुङ्क्ते इत्यत्र भुजिरेवाभ्यवहारे वर्तते, आत्मनेपदं तु कर्तरि, अथ चान्तरेणात्मनेपदं नाभ्यवहारो गम्यते; तद्वदुपपसर्गसन्निधाने धातुरेव विशिष्टां क्रियामाह, ततश्चार्थद्वारके कर्मत्वसमानकर्तृकत्वे अपि धातोरेव, न सङ्घातस्य, अवश्यं चैतदेवं विज्ञेयम् - धातुरेव च क्रियावची, कथम्? यो हि मन्यते सङ्घातः क्रियावाचीति, क्रियमाणेऽति, क्रियमाणेऽपि तस्य धातुग्रहणे योऽत्र धातुर्न तस्मादुत्पत्तिः प्राप्नोति, अकर्मत्वादसमानकर्तृत्वाच्च? एवं मन्यते - प्रशब्दसन्निधौ तावत्प्रकर्षाख्यो विशेषो गम्यते, न च प्रकर्षमपि धातुरेवाचष्टे; प्रशब्दस्य वैयर्थ्यप्रसङ्गात्; सति चैवं समुदायस्यैव कर्मत्वम्। न ह्यसौ करोत्यर्थमात्रेण सन्तुष्यति, नापि प्रकर्षमात्रेण। न चैवं योऽत्र धातुस्तस्मादनुत्पत्तिप्रसङ्गः, तस्यापि कर्मत्वात्। तथा च कट्ंअ करोति, भीष्ममुदारं दर्शनीयमिति समुदायचिकीर्षायामपि भीष्मादिभ्यो द्वितीया भवति; तेषामपि कर्मत्वात्। नन्वेवमपि यथा जनपदसमुदायो जनपदग्रहणेन न गृह्यते, तथा कर्मसमुदायस्याकर्मत्वात्समुदायादुत्पत्तिर्न भविष्यति। यत्र तर्हि समुदायस्यैव कर्मत्वं तत्र कथम्, यथा - प्रस्थातुमिच्छति प्रतिष्ठासत इति, अत्र हि तिष्ठतीति गतिनिवृत्तिः प्रतीयते, प्रशब्दासन्निधौ तु गतिः, तत्र यथा जिगमिषतीत्येकमेव कर्म तद्वदत्रापि ततश्च समुदायादेव स्यात्? यद्येवम्, योऽत्र धातुः कथं ततः सन्, न ह्यसौ कर्म, कर्मण इति नैषा धातुसमानाधिकरणा पञ्चमी, किं तर्हि? षष्ठी - कर्मणोऽवयवाद्धातोरिति? चिकीर्षतीत्यादावपि केवलस्यापि व्यपदेशिवद्भावेन कर्मावयवत्वम्। एवमप्यसमानकर्तृत्वान्न प्राप्नोति, धातुमात्रस्याक्रियावाचित्वात्। अतः समानकर्तृकादित्यपि षष्ठ।ल्र्थे पञ्चमीति व्याख्येयम्। तदेवं सङ्घातनिवृत्यर्थ धातुग्रहणमिति स्थितम्। कर्मम इति किमिति। जिगमिषतीत्यादौ प्रयोगे प्रत्ययवाच्याया इच्छायाः कर्मापेक्षायां प्रत्यासत्या प्रकृत्यर्थ एव कर्म प्रत्येष्यते। यद्यपि क्रिया करणमप्यपेक्षते, स्फुटतरा त्विच्छायाः कर्मापेक्षेति सैव प्रकृत्यर्थेन पूरयिष्यते, नार्थः कर्मग्रहणेनेति प्रश्नः। गमनेनेच्छतीति। अस्यां विवक्षायां गमेर्मा भूदित्यर्थः। असति हि कर्मग्रहणे सत्यापरीच्छायाः कर्मापेक्षायां यथैतद्वाक्यं भवति - गमनेनेच्छतीति, तथा सन्नपि स्यादिति भावः। इच्छायामिति किमिति। शब्दवैरादिसूत्रे यत्'करणे' इति तदिहैवास्तु, अभिधानशक्तिस्वाभाव्याच्च करणविशेष इच्छायामेव सन् भविष्यति, नमस्प्रभृतिभ्यः क्यजिति प्रश्नः। कर्तुजानातीति। लक्षणैकशरणो नैवं प्रतिपाद्येतेति भावः। वावचनाद्वाक्यमपि भवतीति। ननु'समानकर्तृकेषु तुमुन्' इति तुमुन्विधानसामर्थ्यादेव वाक्यं भविष्यति, अस्ति तस्यावकाशः - चिकीर्षितुमिच्छतीति। न ह्यत्र सनः प्रसङ्गः;'सनन्तान्न सनिष्यते' इति वक्ष्यमाणत्वात्। धातोरिति विधानादित्यादिना धातुग्रहणस्य प्रयोजनान्तरं दर्शयति। न पूर्वत्रेति। तथा च जुगुप्सते इत्यादाविडभावः। आशङ्कायामिति। आशङ्काउसम्भावना, प्रयोक्तृधर्मः, तद्विशिष्टक्रियावचनात्स्वार्थे प्रत्ययः। कूलं पिपतिषतीति। कूलस्याचेतनत्वादिच्छाया असम्भवः। श्वामुमूर्षतीति। शुनश्चेतनत्वेऽपि जीवितस्य प्रियत्वाद्व्याध्याद्यभिभवेऽपि तिर्यक्त्वान्मर्तुमिच्छा न भवतीति, शङ्के पतिष्यति कूलम्, शङ्के मरिष्यति श्वेत्यत्रार्थः। प्रत्याख्यानं तु - यो यदिच्छति स तस्य पूर्वरूपाणि करोति, यथा - देवदतः कट्ंअ चिकीर्षुः सन्नह्यति रज्जुकीलपूलादिकं चादते; कूलस्यापि च पूर्वरूपाणि द्दश्यन्ते - लोष्टाः शीर्यन्ते, भिदा जायन्ते। श्वानः खल्वपि मुमूर्षव एकान्तशीलाः स्थूलाक्षाश्च भवन्ति, तदिह पूर्वरूपदर्शनादिच्छाध्यारोप्यते - इच्छत्येवायं य एवमिच्छाविनाभूतानि पूर्वरूपाणि करोति। गौणमुख्यन्यायश्च क्वचिल्लक्ष्यापेक्षया नाश्रीयते, ततश्चाध्यारोपितेच्छाश्रयः प्रत्यय इति। विशेषणं किमिति। इच्छाग्रहणं किमित्यर्थः। शेषिकादिति। सन्प्रसङ्गादन्योऽनिष्टः प्रत्ययो वार्यते। शेषाधिकारविहितः शैषिकः मतुर्बन्थे भवो मतुबर्थीयः, गहादेराकृतिगमत्वाच्छः, मतुपोऽर्थो मतुबर्थः, सोऽस्यास्तीति मतुबर्थिकः। ठत इनिठनौऽ। शैषिकप्रत्ययान्ताच्छ्èअषिकः सरूपप्रत्ययो नेष्टः, तद्यथा - शालायां भवो घटः शालीयः, तत्र भवमुदकम्, पुनश्छाए न भवति; विरूपस्तु भवत्येव - अहिच्छत्रे भवमाहिच्छत्रम्, तत्र भवमाहिच्छत्रीयम्, अणन्ताच्छाए भवति। तथा दण्डोऽस्यास्तीति दण्डिकः, ठत इनिठनौऽ सोऽस्यास्तीति पुनष्ठन्न भवति; विरूपस्तु भवत्येव - दण्डिमती सेनेति। सननन्तान्न सनिष्यते इति। सरूप इत्येव। सारूप्येण चात्र साद्दश्यं लक्ष्यते, तच्चार्थद्वारकमिति इच्छासनन्तादिति पूर्वोक्त एवार्थो भवति, एतच्च न्यायसिद्धम्। तथा हि - जातौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्तते, ततश्च तत्प्रवृतेः प्राक् तत्प्रत्ययान्तप्रकृत्यसम्भवातदन्तान्नास्ति तत्प्रत्ययप्रसङ्गः। इह यो ग्रामं गन्तुमिच्छति तस्य यद्यपि ग्रामो न स्वरूपेणेष्टः - ग्रामो मे स्यादिति, तथापि गम्यमानतारूपेण सोऽपीष्ट एव। ग्रामो जिगंस्यते, जिगमिषितः, जिगमिषितव्यः, सुजिगमिष इति इच्छा वाचिनः सनन्तात् ग्रामे कर्मणि लादयो भवन्ति। गमिं प्रति कर्मत्वं ग्रामस्य स्पष्टमेव। अत एव ग्रामं जिगमिषति, ग्रामाय जिगमिषतीति'गत्यर्थकर्मणि' इति द्वितीयाचतुर्थ्यौ भवतः॥