णेरनिटि

6-4-51 णेः अनिटि असिद्धवत् अत्र आभात् नलोपः आर्धधातुके लोपः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अनिडादावार्धधातुके णेर्लोपो भवति। इयङ्यण्गुणवृद्धिदीर्घाणामपवादः। अततक्षत्। अररक्षत्। आशिशत्। आटिटत्। कारणा। हारणा। कारकः। हारकः। कार्यते। हार्यते। ज्ञीप्सति। अनिटीति किम्? कारयिता। हारयिता॥

Siddhanta Kaumudi

Up

अनिडादावार्धधातुकेपरे णेर्लोपः स्यात् । परत्वात् एरनेकाचः -<{SK272}> इति यणि प्राप्ते ॥<!ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेनेति वार्तिकम् !> (वार्तिकम्) ॥ णिलेपस्य तु पाचयतेः पाक्तिरित्यादि क्तिजन्तमवकाश इति भावः । वस्तुतस्त्वनिटीति वचनसामर्थ्यादार्धधातुकमात्रमस्य विषयः । तथा चेयङादेरपवाद एवायम् । इयङ् । अततक्षत् । यण् । अटिटत् । गुणः । कारणा । वृद्धिः । कारकः । दीर्घः । कार्यते ॥

Laghu Siddhanta Kaumudi

Up

अनिडादावार्धधातुके परे णेर्लोपः स्यात्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<णेरनिटि>> - णेरनिटि । आर्धधातुक इत्यधिकृतम् । 'अतो लोप' इत्यस्माल्लोप इत्यनुवर्तते ।अनिटी॑त्यस्य आर्धधातुकविशेषणत्वात्तदादिविधिः ।तदाह — अनिडादाविति । तथा च णिलोपे काम त इति स्थिते — परत्वादिति । 'एरनेकाच' इत्यस्यणेरनिटी॑त्यपेक्षया परत्वाण्णिलोपं बाधित्वा यणि प्राप्ते सतीत्यर्थः । कृते तु यणि लोपे दुर्लभः, णेरभावात् । स्थानिवत्त्वेऽपि यणा बाधितस्य पुनरुन्मेषो दुर्लभः । वस्तुतस्तु स्थानिवत्त्वमेवेह दुर्लभम्, यण्स्थानिनमिकारमलं णित्वरूपेणाश्रित्य प्रवर्तमानस्य णिलोपस्याऽल्विधित्वेन तत्र स्तानिवत्त्वाऽसंभवात् । स्पष्टा चेयं रीतिर्भोभगो इति सूत्रभाष्ये इति शब्देन्दुशेखरे विस्तरः । ण्यल्लोपाविति । णिलोप इयङ्यण्गुणवृद्धिदीर्घेभ्यः, अल्लोपस्तु वृद्धिदीर्घाभ्यां पूर्वविप्रतिषेधेनेति विवेकः । तथाच पूर्वविप्रतिषेधादिह यणं बाधित्वा णिलोपो भवतीति स्थितम् । ननु अततक्षत्, आटिटत्, कारणा, कारकः,कार्यते इति वक्ष्यमाणेषु वार्तिकोदाहरणेषु क्रमेण इयडण्गुणवृद्धिदीर्घाणामवस्यं प्राप्ेतर्णिलोपस्य निरवकाशत्वादेव इयङादिबाधकत्वसंभवादिदं वार्तिकं व्यर्थम्, सुधियौ, प्रध्यौ, कर्ता, चिकाय, सूयादित्यादौ इयङ्यण्गुणवृद्धिदीर्घाणां सावकासत्वादित्यत आह — णिलोपस्य त्विति । पच्धातोर्णिचि उपधावृद्धौ पाचीति ण्यन्तात्स्त्रियां क्ति॑न्निति क्तिनि,तितुत्रतथसिसुसकरसकेषु चे॑तीण्निषेधे,णेरनिटी॑ति णिलोपे, कुत्वे पाक्तिरिति स्थितिः ।क्तिजन्त॑मिति पाठे तुक्तिच्क्तौ च संज्ञाया॑ मिति क्तिज्बोध्यः ।पाक्ति॑रिति कस्यचित्संज्ञा । अत्र इयङादीनामप्रसक्तेर्णिलोपस्यापि सावकाशत्वं तुल्यम् । तत्र अततक्षदित्यादौ परत्वादियङादिप्राप्तौ तन्निवृत्त्यर्थं वार्तिकमिदमारम्भणीयमिति भावः । वार्तिकं व्यर्थमेवेत्याह — वस्तुस्त्विति । आर्धधातुकमात्रमिति । कृत्स्नमनिडाद्यार्धधातुकमस्य णिलोपस्य विषय इत्यर्थः । तथा च अततक्षदित्यादौ परानपि इयङादीन् णिलोपोऽपवादत्वाद्बाधते । परापेक्षयाऽपवादस्य प्रबलत्वात् । परत्वादियङादीनां णिलोपबाधकत्वाभ्युपगमे हि णेरनिटीत्यत्र अनिटीति व्यर्थम् । कारयितेत्यादाविडाद्यार्धधातुके गुणेनैव णिलोपस्य बाधसिद्धेः । ततस्च अनिटीति वचनसामर्थ्यादिनिडादावार्धधातुके सर्वस्मिन्परे णिलोप इति विज्ञायते । एवं च अततक्षदित्यादावियङादिप्रवृत्तियोग्येऽप्यार्धधातुके सर्वत्र णिलोपैति, — अस्य निरवकाशत्वादपवादत्वादेव णिलोपेन इयङादिबाधसिद्धेर्वार्तिकमिदं व्यर्थमित भावः । अपवाद एवायमिति । णिलोप इत्यर्थः । अतो लोपस्तु 'चिकीर्षक' इत्यत्र वृदिंध,चिकीष्र्या॑दित्यत्रअकृत्सार्वधातुकयो॑रिति दीर्घं च बाधित्वा पूर्वविप्रतिषेधाद्भवति । नह्रतो लोपोवृद्धिदीर्घयोरपवादः, गोपायितेत्यादौ वृद्दिदीर्घयोरप्राप्तयोरप्यतो लोपस्यारम्भादित्यलम् । इयङिति । उदाहरणसूचनमिदम् । अततक्षिदिति । तक्षदातोण्र्यन्ताल्लुङस्तिपि इकारलोपे चङि द्वित्वे संयोगपूर्वक्तवादेरनेकाचेति यणभावे इयङि प्राप्ते पूर्वविप्रतिषेधाण्णिलोपे हलादिशेषेऽडागमेऽततक्षदिति रूपम् । यणिति । उदाहरणसूचनम् । आटिटदिति । अटधातोण्र्यन्तादाटीत्यस्माल्लुङि तिपि इकारलोपे चङि 'टी' त्यस्य द्वित्वे 'एरनेकाच' इति यणं बाधितवा पूर्वविप्रतिषेधाण्णिलोपे आटि वृद्धौ रूपम् । गुण इति । उदाहरणसूचनम् । कारणेति ।स्त्रिया॑मत्यधिकारे कृञ्धातोण्र्यन्तात्कारीत्यस्माण्ण्वुलि अकादेशे वृदिंध बाधित्वा पूर्वविप्रतिषेधाण्णिलोपे रूपम् । दीर्घ इति । उदाहरणसूचनम् । कार्यत इति । कृञ्धातोर्ण्न्तात्कारीत्यस्मात्कर्मण लटि यकिअकृत्सार्वधातुकयो॑रिति दीर्घं बाधित्वा पूर्वविप्रतिषेधाण्णिलोपः । तथा च प्रकृते काम् इ अ त इत्यत्र 'एरनेकाच' ति यणं बाधित्वा णिलोपे काम त इति स्थितम् ।

Padamanjari

Up

इयङदिभिरेव सर्वस्य विषयस्यावष्टब्धत्वादनवकाशो णिलोपस्तेषां बाधक इत्याह - इयङ्यणित्यादि । एननु पाचयतेः पाक्तिः, याजयतेर्याष्टिरित्युदारहिष्यति, ण्यासश्रन्थो युच् इति युचि प्राप्ते क्तिन्नजादिभ्यः इति क्तिन्प्रत्ययः क्तिज्वा पुनरयं द्रष्टव्यः, तत्कथमनवकाशः उच्यते, यद्येतावत् प्रयोजनं स्यात्, अनिटीति न वक्तव्यंस्यत्, अतोऽनिटीति वचनादीर्घधातुकमात्रविषयतास्यावसीयते, ततश्च युक्तमियङदीन्प्रत्यपवादत्वम् । वार्तिककारेण तु पूर्वविप्रतिषेधः पठितः - ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन इति । अततक्षदिति । अत्र चङे ङित्वाद् गुणिस्याप्रसङ्गः, संयोगपूर्वत्वाद् एरनेकाचः इति यणोऽप्यप्रसङ्गः । इयङ् एएवायं विषयः, संयोगपूर्वत्वाद् एरनेकाचः इति यणोऽप्यप्रसङ्गः । इयङ् एवायं विषयः, अत्रेयङ् सिति पुनः प्रसङ्गविज्ञानात् भवन्नपि लोपोऽन्त्यस्य स्यात् । । आशिशदिति । एरनेकाचः इति यणोऽत्र प्रसङ्गः । अत्र सत्यपि यणि असिद्धत्वात्पुनःप्रसङ्गविज्ञानेन वा णिलोपे सति सिद्धमिष्टम् । एवं गुणवृद्धिदीर्घविषयेऽपि द्रष्टव्यम् । च न गुणवृद्ध्योरयादेशप्रसङ्गः, वार्णादाङ्गं बलीयः इति णिलोपः । ज्ञीप्सतीति । आप्ज्ञप्यृधामीत् अज्झनगमां सनि इति दीर्घप्रसङ्गः । अनिटीति शक्यमकर्तुम् । कथं कारयिता निष्ठायां सेटि इत्येतन्नियमार्थं भविष्यति - सेटि यदि भवति निष्ठायामेवेति । विपरीतस्तु नियमो न भवति - निष्ठायां सेट।लेवेति अनिटो निष्ठाया असम्भवात् । असम्भावश्चोतरसूत्रे वक्ष्यते । अथ वा - अयामन्ताल्वाय्येन्विष्णुषु इत्यत्र णेरिति योगविभागः क्रियते, सेट।लर्द्धधातुके णेरयादेशो भवति लोपस्यापवादः ॥