आटश्च

6-1-90 आटः च संहितायाम् अचि एकः पूर्वपरयोः आद् वृद्धिः

Sampurna sutra

Up

आटः अचि पूर्वपरयोः एकः वृद्धिः

Neelesh Sanskrit Brief

Up

आट्-आगमात् अच्-वर्णे परे उभयोः एकः वृद्धि-एकादेशः भवति ।

Neelesh English Brief

Up

When the आट्-आगम is followed by a अच्-letter, both of them are replaced by a single वृद्धि letter.

Kashika

Up

एचीति निवृत्तम्। अचीत्यनुवर्तते। आटः परो योऽच्, अचि च पूर्वो य आट्, तयोः पूर्वपरयोराडचोः स्थाने वृद्धिरेकादेशो भवति। ऐक्षिष्ट। ऐक्षत। ऐक्षिष्यत। औभीत्। आर्ध्नोत्। औब्जीत्। चकारोऽधिकविधानार्थः, <<उसि॰>>, <<ओमाङ ोश्च>>(६.१.९६,९५) इति पररूपबाधनार्थः। औस्रीयत्। औङ्कारीयत्। आ ऊ ढा ओढा, तामैच्छत् औढीयत्॥

Siddhanta Kaumudi

Up

आटोऽचि परे वृद्धिरेकादेशः स्यात् । बहुश्रेयस्यै । बहुश्रेयस्याः । नद्यन्तात्परत्वान्नुट् । बहुश्रेयसीनाम् ॥

Laghu Siddhanta Kaumudi

Up

आटोऽचि परे वृद्धिरेकादेशः। बहुश्रेयस्यै। बहुश्रेयस्याः। बहुश्रेयसीनाम्॥

Neelesh Sanskrit Detailed

Up

'आट्' इति अष्टाध्याय्याम् पाठितः कश्चन आगमः । अयम् आगमः त्रिषु स्थलेषु पाठितः अस्ति । एतेषु त्रिषु अपि स्थलेषु पाठितस्य अस्य आगमस्य आकारस्य तस्मात् परः विद्यमानेन स्वरेण सह प्रकृतसूत्रेण वृद्ध्येकादेशः विधीयते । एतानि त्रीणि स्थलानि सोदाहरणम् एतादृशानि —

1) लुङ्/लङ्/लृङ्लकारप्रक्रियायाम् आडागमः, तस्य वृद्ध्येकादेशः — लुङ्-लङ्-लृङ्-लकाराणाम् प्रक्रियासु अजादिधातून<<आडजादीनाम्>> 6.4.72 इत्यनेन सूत्रेण आट्-आगमः भवति । अस्य आट्-आगमस्य आकारस्य धातोः आदिस्थस्वरेण सह प्रकृतसूत्रेण वृद्ध्येकादेशः विधीयते । द्वे उदाहरणे एतादृशे — 1. 'ईक्ष्' धातोः लङ्-लकारस्य प्रथमपुरुषैकवचनस्य सिद्धिः इयम् — ईक्षँ (दर्शने, भ्वादिः, <{1.694}>) → ईक्ष् + लङ् [<<अनद्यतने लङ्>> 3.2.111 → आट् + ईक्ष् + लङ् [<<आडजादीनाम्>> 6.4.72 इति आडागमः] → आ + ईक्ष् + त [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् त-आदेशः] → आ + ईक्ष् + शप् + त [<<कर्तरि शप्>> 3.1.68 इति शप्] → आ + ईक्ष् + अ + त [इत्संज्ञालोपः] → ऐक्षत [<<आद्गुणः>> 6.1.87 इत्यनेन गुणैकादेशे प्राप्ते, तद्बाधित्वा <<आटश्च>> 6.1.90 इति वृद्ध्येकादेशः] 2. उब्ज्-धातोः लुङ्-लकारस्य प्रथमपुरुषैकवचनस्य सिद्धिः इयम् - उब्जँ (आर्जवे, तुदादिः, <{6.23}>) → उब्ज् + लुङ् [<<लुङ्>> 3.2.101 इति लुङ्-लकारः] → आट् + उब्ज् + लुङ् [<<आडजादीनाम्>> 6.4.72 इति आडागमः] → आ + उब्ज् + तिप् [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-आदेशः] → आ + उब्ज् + च्लि + ति [<<च्लि लुङि>> 3.1.43 इति च्लि-विकरणम्] → आ + उब्ज् + सिच् + ति [<<च्लेः सिच्>> 3.1.44 इति सिच्-आदेशः] → आ + उब्ज् + स् + त् [<<इतश्च>> 3.4.100 इति ति-प्रत्ययस्य इकारस्य लोपः] → आ + उब्ज् + इट् + स् + ति [<<आर्धधातुकस्येड् वलादेः>> 7.2.35 इति इडागमः] → आ + उब्ज् + इ + स् + ई + त् [<<अस्तिसिचोऽपृक्ते>> 7.3.96 इति ईट्-आगमः] → आ + उब्ज् + इ + ई + त् [<<इट ईटि>> 8.2.28 इति सकारलोपः] → आ + उब्ज् + ई + त् [<<अकः सवर्णे दीर्घः>> 6.1.101 इति इकार-ईकारयोः सवर्णदीर्घः ईकारः] → औब्ज् + ई + त् [आकार-उकारयोः <<आद्गुणः>> 6.1.87 इत्यनेन गुणैकादेशे प्राप्ते, तद्बाधित्वा <<आटश्च>> 6.1.90 इति वृद्ध्येकादेशः] → औब्जीत् 2) लोट्लकारस्य उत्तमपुरुषैकवचनस्य रूपे आडागमः, तस्य वृद्ध्येकादेशः — <<आडुत्तमस्य पिच्च>>3.4.92 इत्यनेन लोट्लकारस्य उत्तमपुरुषस्य प्रत्ययानाम् 'आट्' इति आगमः भवति । तत्र आत्मनेपदस्य उत्तमपुरुषैकवचनस्य 'इ' इति अजादिप्रत्ययस्य अनेन आकारेण सह प्रकृतसूत्रेण वृद्ध्येकादेशः विधीयते । यथा, 'चक्ष्' धातोः लोट्लकारस्य उत्तमपुरुषैकवचनस्य प्रक्रिया इयम् — चक्षिङ् (व्यक्तायां वाचि, अदादिः, <{2.7}> → चक्ष् [<<हलन्त्यम्>> 1.3.3 इति ङकारस्य इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः । इकारः उच्चारणार्थः, सोऽपि लुप्यते ।] → चक्ष् + लोट् [<<लोट् च>> 3.3.162 इति लोट्लकारः] → चक्ष् + इट् [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> 3.4.78 इति आत्मनेपदस्य उत्तमपुरुषैकवचनस्य इट्-प्रत्ययः] → चक्ष् + शप् + इ [<<कर्तरि शप्>> 3.1.68 इति शप्-विकरणम्] → चक्ष् + इ [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शपः लुक्] → चक्ष् + आट् + इ [<<आडुत्तमस्य पिच्च>> 3.4.92 इति आडागमः] → चक्ष् + ऐ [<<आटश्च>> 6.1.90 इति वृद्ध्येकादेशः] → चक्षै 3) नदीसंज्ञकशब्देभ्यः विहितस्य ङित्-विभक्तिप्रत्ययस्य आडागमः, तस्य वृद्ध्येकादेशः — नदीसंज्ञकशब्देभ्यः विहितस्य ङित्-प्रत्ययस्य <<आण्नद्याः>> 7.3.112 इत्यनेन आट्-आगमः भवति । वस्तुतः अत्र आट्-आगमे कृते, <<आटश्च>> 6.1.90 इति सूत्रं विना अपि, सवर्णदीर्घेण उत <<वृद्धिरेचि>> 6.1.88 इति वृद्ध्येकादेशेन उचितम् रूपम् अवश्यम् सम्भवति, परन्तु <<पर्जन्यवल्लक्षणप्रवृत्तिः>> इति परिभाषया अत्रापि <<आटश्च>> इत्यस्य अवश्यं प्रयोगः क्रियते । यथा, नदी-शब्दस्य चतुर्थ्येकवचनस्य प्रक्रियायाम् — नदी + ङे [चतुर्थी-एकवचनस्य प्रत्ययः] → नदी + आट् + ए [ <<आण्नद्याः>> 7.3.112 इति आट्-आगमः] → नदी + ऐ [<<आटश्च>> 6.1.90 इति वृद्धि-एकादेशः । अत्र <<वृद्धिरेचि>> 6.1.88 इत्यनेनैव वृद्ध्येकादेशे प्राप्ते परत्वात् <<आटश्च>> 6.1.90 इति वृद्ध्येकादेशः एव भवति ।] → नद्यै [<<इको यणचि>> 6.1.77 इति यणादेशः।]

Balamanorama

Up

<<आटश्च>> - टित्त्वादाद्यवयवः । बहुश्रेयसी आ ए इति स्थिते-आटश्चा ।इकोयणची॑त्यतः अचीति 'वृद्धिरेचि' इत्यतो वृद्धिरिति चानुवर्तते ।एकः पूर्वपरयो॑रिति चाधिकृतम् । तदाह-आटोऽचीत्यादिना । बहुश्रेयस्यै इति । 'बहुश्रेयसी आ ए' इति स्थितेआटश्चे॑ति वृद्धौ यणादेशे च रूपमिति भावः । यद्यपिवृद्धिरेची॑त्येव सिद्धं तथापि ऐक्षतेत्याद्यर्थ॒माटश्चे॑ति सूत्रमिहापि न्याय्यत्वादुपन्यस्तम् । बहुश्रेयस्या इति । ङसि ङसोर्बहुश्रेयसी आ अस् इति स्थितेआटश्चे॑ति वृद्धावाकारे यणि रूपमिति भावः । अत्रापि सवर्णदीर्घेण सिद्धम् । न्याय्यत्वादाटश्चेति वृद्धिः । नद्यन्तात्परत्वादिति । श्रेयसीशब्दस्य ईकारान्तनित्यस्त्रीलिङ्गतया नदीत्वेन बहुश्रेयत्वात् । सवर्णदीर्घे प्राप्ते- ।

Padamanjari

Up

ठीक्ष दर्शनेऽ, ठुभ उम्भ पूरणेऽ, ठुब्ज आर्जवेऽ,ठृधु वृद्धौऽ - इत्येतेषामुदाहरणानि। चकारोऽधिकविधानार्थ इति। अस्यैव विवरणम् - उस्योमाङेश्चेति। पररूपबाधनार्थं इति। उसि, ओमि, आङ् चि यत्पररूपं प्राप्नोति तद्बाधनार्थ इत्यर्थः; अन्यथा परत्वातदेव पररूपं स्यात्। औस्रीयदिति। अनर्थकेऽप्युसि पररूपविधानादत्र प्रसङ्गः ॥