7-3-55 अभ्यासात् च चजोः कु हः हन्तेः
अभ्यासादुत्तरस्य हन्तिहकारस्य कवर्गादेशो भवति। जिघांसति। जङ्घन्यते। अहं जघन। अभ्यासनिमित्ते प्रत्यये हन्तेरङ्गस्य योऽभ्यासस्तस्मादेवैतत् कुत्वम्। इह न भवति — हननीयितुमिच्छति जिहननीयिषति॥
अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात् । जघनिथ-जघन्थ । हन्ता । ऋद्धनोः - <{SK2366}> इतीट् । हनिष्यति । हन्तु । हतात् । घ्नन्तु ॥
अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात्। जघनिथ, जघन्थ। जघ्नथुः। जघ्न। जघान, जघन । जघ्निव। जघ्निम। हन्ता। हनिष्यति। हन्तु, हतात्। हताम्। घ्नन्तु॥
<<अभ्यासाच्च>> - अभ्यासाच्च ।हो हन्ते॑रित्यनुवर्तते ।चजोः कु घिण्ण्यतो॑रित्यतः कुग्रहणं च । तदाह — अभ्यासात्परस्येत्यादिना । जघनिथ जघन्थेति । इडभावे नस्याऽनुस्वारपरसवर्णौ । जघ्नथुः । जघ्न । जघान — जघन, जघ्निव जघ्निम । लृटि स्ये इण्निषेधमाशङ्क्याह — ऋद्धनोरिति । हन् हि इति स्थिते 'हुझल्भ्यः' इति धित्वे प्राप्ते — ।
अहं जघनेति । णित्वाभावे उदाहरणम् । णित्वपक्षे पूर्वेणैव सिद्धम् । एवं जघनिथ, जघन्थ, जघन्वानित्युदाहरणम् । अभ्यासनिमिते प्रत्यय इत्यादि । अङ्गाधिकारेणाभ्यासेन च प्रत्ययस्याक्षेपादयमर्थो लभ्यते । जिहननीयिषतीति । अत्र यस्मिन्हनिरङ्गं ल्युटि न तस्याभ्यासनिमितत्वम्, यश्चाभ्यासस्य निमितं सन् न तस्मिन् हन्तिरङ्गम् ॥