1-1-60 अदर्शनं लोपः
स्थाने अदर्शनम् लोपः
वर्णस्य वर्णसमूहस्य वा अदर्शनम् 'लोपः' नाम्ना ज्ञायते ।
non-appearance of a letter or a group of letters is called लोप.
अदर्शनम्, अश्रवणम्, अनुच्चारणम्, अनुपलब्धिः, अभावः, वर्णविनाश इत्यनर्थान्तरम्। एतैः शब्दैर्योऽर्थोऽभिधीयते, तस्य लोप इतीयं संज्ञा भवति। अर्थस्येयं संज्ञा न शब्दस्य। प्रसक्तस्यादर्शनं लोपसंज्ञं भवति। <<गोधाया ढ्रक्>> ४.१.१२९ — गौधेरः। पचेरन्। <<जीवे रदानुक्>> (द०उ० १.१६३) — जीरदानुः। स्रिवेर्मनिन् — आस्रेमाणम्। यकारवकारयोरदर्शनमिहोदाहरणम्। अपरस्यानुबन्धादेः प्रसक्तस्य। लोपप्रदेशाः — <<लोपो व्योर्वलि>> ६.१.६६ इत्येवमादयः॥
प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात् ॥
प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात्॥
व्याकरणशास्त्रस्य संज्ञासु अन्यतमा अस्ति 'लोपः' इति संज्ञा । प्रक्रियायाम् वर्णस्य वर्णसमूहस्य वा जायमानम् अदर्शनम् अनया संज्ञया निर्दिश्यते । प्रक्रियायाः प्रारम्भिकसोपानेषु अयं वर्णः (समूहः वा) दृश्यते, परन्तु लोपे कृते तस्य दर्शनम् न भवति, इति अत्र आशयः ।
<<अदर्शनं लोपः>> - सुद् ध् य् इत्यत्र यकारस्य संयोगान्तलोपं शङ्कितुं लोपसंज्ञासूत्रमाह — अदर्शनं लोपः । शब्दानुशासनप्रस्तावाच्छब्दविषयकश्रवणंमिह दर्शनं विवक्षितम् । दर्शनस्याभावोऽदर्शनम् । अर्थाभावेऽव्ययीभावः । 'स्थानेऽन्तरतमः' इत्यतः स्थां इत्यनुवर्तते । स्थानं प्रसङ्ग इत्युक्तम् । शास्त्रतः शब्दस्य कस्यचिच्छ्रवणप्रसङ्गे सति यदश्रवणं तल्लोपसंज्ञं भवतीत्यर्थः ।
इह दर्शनं ज्ञानमुपलब्धिः । तच्च शब्दानुशासनप्रस्तावाच्छब्दविषयं सच्छ्रवणं भवतीत्याह-अश्रवणमिति । श्रवणं च श्रोतृव्यापारः, तन्निषेधे 'लोपो व्योर्वलि' इत्यस्य वकारयकारौ वल्परौ न श्रोतव्यावित्यर्थः स्यात् । ततश्च प्रयोक्तृव्यापार उच्चारणमनिषिद्धं स्यात् । असति श्रवणे उच्चारणमनर्थकमेव स्यादिति श्रवणनिषेधेन तद्धेतुभूतमुच्चारणमेव निषिद्धं भवतीत्याह-अनुच्चारणमिति । 'लोपो व्योर्वलि' इत्यस्य कोऽर्थः ? वकारयकारौ वल्परौ नोच्चारयितव्याविति । अनेनापि प्रकारेणास्मिन्विषये तयोरभाव एव व्याख्यापितो भवति, न हि विद्यमानयोरनुच्चारणमुपपद्यत इत्याह-अभाव इति । स्वाभाविक एवाभाव इत्यर्थः । विनाश इति । कार्यशब्ददर्शन एतत् । अनर्थान्तरमिति । शब्दविषयाणामेषामर्थो न भिद्यत इत्यर्थः । श्वं रूपम्' इति वचनाद् अदर्शनशब्दस्यैव संज्ञायां लोपप्रदेशेषु अदर्शनशब्द एवादेशः स्यादित्यत आह - एतैः शब्दैरिति । एतच्च ङवेति विभाषा' इत्यत इतिकरणानुवृतेर्लभ्यते । अथ वा-महती संज्ञा क्रियते, अन्वर्था यथा विज्ञायेत-लोपनं लोप इति । न चादर्शनशब्दो लोपनक्रिया भवति । यद्येवम्, प्रदेशेष्वेवार्थग्रहणमस्तु, किं संज्ञया ? तन्न; असति संज्ञाकरणे श्वं रूपम्' इति वचनात् प्रदेशेषु लोपशब्द एवादेशः स्यात् । सति त्वशब्दसंज्ञेति निषेधान्न स्वरूपग्रहणं भवति । न शब्दस्येति । अर्थसिद्धमप्येतद्विस्पष्टार्थ पुनरुक्तम् । ननु विधिप्रदेशेष्वितरेतराश्रयः प्राप्नोति-सतोऽदर्शनस्य संज्ञा, संज्ञया चादर्शनं भाव्यत इति, तन्न; न हि लोपविधानात्प्रगसदेवादर्शनं वचनेन भाव्यते, अनित्यत्वप्रसङ्गात्, किं तर्हि ? सदेवादर्शनं साधुत्वेनान्वारूयायते । यद्येवम्, सर्वस्य स्वविषयादन्यत्र स्वभावतोऽदर्शनमस्तीति लोपसंज्ञा स्यात् । ततश्च दधि, मध्विति णिचोऽदर्शनस्य लोपसंज्ञायां प्रत्ययलक्षणेन वृद्धिः स्यात् । अङ्गस्य वृद्धिः, अङ्गसंज्ञा च विधानप्रतिबद्धा । क्विपस्तर्ह्यदर्शनस्य लोपसंज्ञायां तुक् प्राप्नोति, तत्राह-प्रसक्तस्येति । एवं मन्यते-श्थाने' इति वर्तते; स्थानं च प्रसङ्गः; तेन प्रसङ्गे यददर्शनं तस्य लोपसंज्ञा, न च दधीत्यत्र क्विपः केनचित्प्रसङ्गोऽस्ति । एवमपि ग्रमणीरित्यत्र कर्मधातुकर्तृसन्निधानादस्ति अणः प्रसङ्ग इति तददर्शनस्य संज्ञायां वृद्धिः स्यात् । योऽत्राणः प्रसङ्गः, क्विपा सोऽपाह्रियते । सामान्यशास्त्रं हि विशेषसन्निधौ तद्व्यतिरिक्त एव विषये प्रतीतिं जनयति । तेन शत्सूद्विष' इत्यस्य सन्निधौ 'कर्मण्यण्' इत्यनेन नयतेरण् भवतीति बुद्धिरेव न जन्यते ॥