एकाचो द्वे प्रथमस्य

6-1-1 एकाचः द्वे प्रथमस्य

Sampurna sutra

Up

index: 6.1.1 sutra: एकाचो द्वे प्रथमस्य


एकाचः द्वे प्रथमस्य

Neelesh Sanskrit Brief

Up

index: 6.1.1 sutra: एकाचो द्वे प्रथमस्य


अधिकारोऽयम् । इतः परम् दाश्वान् साह्वान् मीढ्वांश्च 6.1.12 इति यावत्सु सूत्रेषु यत् द्वित्वं विधीयते, तत् द्वित्वं धातोः प्रथमस्य एकाच्-अवयवस्य भवति ।

Neelesh English Brief

Up

index: 6.1.1 sutra: एकाचो द्वे प्रथमस्य


In this अधिकार the doubling happens for the first एकाच् entity of the verb

Kashika

Up

index: 6.1.1 sutra: एकाचो द्वे प्रथमस्य


अधिकारोऽयम्। एकाचः इति च, द्वे इति च, प्रथमस्य इति च त्रितयमधिकृतं वेदितव्यम्। इत उत्तरं यद् वक्ष्यामः प्राक् संप्रसारणविधानात् तत्र एकाचः प्रथमस्य द्वे भवतः इत्येवं तद् वेदितव्यम्। वक्ष्यति लिटि धातोरनभ्यासस्य 6.1.8 इति। तत्र धातोरवयवयस्य अनभ्यासस्य प्रथमस्य एकाचो द्वे भवतः। जजागार। पपाच। इयाय। आर। एकाचेति बहुव्रीहिनिर्देशः। एकोऽच् यस्य सोऽयम् एकाचित्यवयवेन विग्रहः। तत्र समुदायः समासार्थः। अभ्यन्तरश्च समुदायेऽवयवो भवतीति साच्कस्य एव द्विर्वचनं भवति। एवं च पचित्यत्र येन एव अचा समुदायः एकाच्, तेना एव तदवयवोऽच्छब्दः पशब्दश्च। तत्र पृथगवयवैकाच् न द्विरुच्यते, किं तर्हि, समुदायैकाजेव। तथा हि सकृच्छास्त्रप्रवृत्त्या सावयवः समुदायोऽनुगृह्यते। पपाच इत्यत्र प्रथमत्वं व्यपदेशिवद्भावात्। इयाय, आर इत्यत्र एकाच्त्वमपि व्यपदेशिभावादेव। द्विःप्रयोगश्च द्विर्वचनम् इदम्। आवृत्तिसङ्ख्या हि द्वे इति विधीयते। तेन स एव शब्दो द्विरुचार्यते, न च शब्दान्तरं तस्य स्थाने विधीयते।

Siddhanta Kaumudi

Up

index: 6.1.1 sutra: एकाचो द्वे प्रथमस्य


Neelesh Sanskrit Detailed

Up

index: 6.1.1 sutra: एकाचो द्वे प्रथमस्य


एतत् अधिकारसूत्रमस्ति । अस्य व्याप्तिः दाश्वान् साह्वान् मीढ्वांश्च 6.1.12 इति यावत् वर्तते । अस्मिन्अधिकारे यत्र कुत्रापि 'द्वित्वं स्यात्' इत्युक्तमस्ति, तत्र तत् द्वित्वम् 'प्रथम-एकाच्-अवयवस्य' भवतीति अस्य सूत्रस्य अर्थः अस्ति ।

किम् नाम प्रथम-एकाच्-अवयवः? अस्य शब्दस्य व्याख्यायाः विषये व्याकरणशास्त्रे महती चर्चा क्रियते । परन्तु संक्षेपेण एतत् वक्तुं शक्यते -

  1. यदि शब्दे एकः एव स्वरः अस्ति, तर्हि सः सम्पूर्णः शब्दः एव 'प्रथमः एकाच् अवयवः' नाम्ना ज्ञायते । यथा, 'पच्' इत्यस्य एकाच्-अवयवः अपि 'पच्' इत्येव ।

  2. यदि शब्दे द्वौ वा अधिकाः स्वराः सन्ति, तर्हि शब्दस्य प्रथमवर्णात् आरभ्य शब्दस्य 'द्वितीय'स्वरपर्यन्तम्, परन्तु द्वितीयस्वरं विहाय यः वर्णसमुदायः जायते, सः 'प्रथमः एकाच् अवयवः' भवति । यथा, 'जागृ' इत्यस्य एकाच् अवयवः 'जाग्' इति ।

अयमधिकारः 'षाष्ठद्वित्वप्रकरणम्' नाम्ना अपि ज्ञायते । षष्ठाध्याये अस्ति अतः 'षाष्ठ' इति नाम ।

Balamanorama

Up

index: 6.1.1 sutra: एकाचो द्वे प्रथमस्य


एकाचो द्वे प्रथमस्य - भूव्-अ इति स्थिते । एकाचः । अजादेः इत्यधिकृत्येति । षष्ठाध्यायारम्भे द्वे इमे सूत्रोते च न विधायके, अतिप्रसङ्गात्, किन्तुष्यङः संप्रसारण॑मित्यतः प्रागनुवर्तेते एवेति भावः ।

Padamanjari

Up

index: 6.1.1 sutra: एकाचो द्वे प्रथमस्य


इह यद्यपि स्वार्थत्वे सम्भवति पारार्थ्यमयुक्त्म्, विधेयकार्यिणोर्द्वयोर्निर्देअ शात् सम्भवति च स्वार्थत्वम्, तथापि'लिटि धातोः' इत्यादौ विधेयानिर्द्देसेन वैयर्थ्यप्रसङ्गान्नायम् ठण्कुटिलिकायाःऽ इत्यादिवत्केवलो विधिः, नापि'शेषे' इत्यादिवल्लक्षणं चाधिकारश्च। तथा हि सति सर्वेषामेव शब्दानां प्रथमस्यैकाचोऽनेन द्विर्वचने सिद्धे'लिटि धातोः' इत्याहि व्यर्थं स्यात्। धातोर्लिठ।लेव, लिटि दातोरेव-इति नियमान्न वैयर्थ्यमिति चेत् ? न; विधिनियमसम्भवे विधेरेव ज्यायस्त्वात्। अस्च हि पारार्थ्येमिति चेत्? न; विधिनियमसम्भवे विधेरेव ज्यायस्तावात्। अस्य हि पारार्थ्योऽवम्भाविनि सति यथा तेषां विधित्वं तथास्य वर्णनं युक्तमतः परार्थ एवायम्। तत्रापि न परिभाषा-द्विर्वचनं विधीयमानं प्रथमस्यैकाचो वेदितव्यमिति; एवं हि सति'सर्वस्य द्वे' इत्यत्रैवास्य व्यापार इति तत्रैवैकाचः प्रथमस्येति वाच्यं स्यात्।'लिटि धातोः' इत्यादिकं च विधेयानिर्द्देशाद्व्यर्थ स्यात्। अतः पारिशेप्यात्स्वरितत्वाच्चाधिकार एवायमिति निश्चित्याह - एकाच इतदि चेति। अधिकारोऽयमिति वक्तव्ये पृथक् स्वरितत्वप्रदर्शनार्थमेवमुक्तम्। एतत्रितयमिति। तस्य प्रयोजनम् - यत्र यदपेक्षितं तत्र तस्य सम्बन्धः, यथा - ठजादेर्द्वितीयस्यऽ इत्यत्र ठेकाचो द्वेऽ इति, ठभे अभ्यस्तम्ऽ इत्यत्र'द्वे' इति, लिटि धातोरित्यादौ सर्व सम्बध्यते। इत उतरमित्यादि। अनन्तरोक्तस्यैव विवरणम्। प्राक् सम्प्रसारणविदानादिति। तत आरभ्य तु नास्य सम्बन्धः; विधेयान्तरनिर्देशात्स्वरिते कृते नाधिकार इति वा व्याख्यानात्। सामान्येनोक्तमुदाहरणनिष्ठ्ंअ दर्शयति - वक्ष्यतीति। अत्र यदि'धातोरेरेकाचः' इति सामानाधिकरण्येन सम्बन्धः स्यात्, पचिप्रभृतीनामेव स्यात्, न जागर्त्यादीनाम्। प्रथमग्रहणं चानर्थकं स्यात्, न ह्यएकाचां धातूनां द्वितीयादिरेकाजस्ति। न च प्रथमस्य धातोरिति सम्बन्धः। तथा हि सति धातुपाठे प्रथमपठितस्य भवतेरेव स्यात्, ततश्च भवतिग्रहणमेव कर्तव्यं स्यात्। अथैकाचो धातोः प्रथमस्य वर्णस्येति सम्बन्धः ? तदयुक्तम्; सहनिर्द्दिष्टयोः सामानाधिकरण्यस्य स्वतः प्राप्तस्य त्यागायोगात्। अतो वैयधिकरण्येन सम्बन्ध इत्याह-दातोरवयवस्येति। द्वितीयस्य चेति। यद्यप्यत्र द्वितीयग्रहणं नास्ति, तथापि'लिटि धातोः' इत्यत्र त्वधिकृतमस्ति, तस्य चार्थः प्रदर्श्यते इति नासङ्गतं किञ्चित। जजागार-इत्यादीनि मुख्यगौणतया क्रमेणोदाहरणानि। एकाचेति यद्ययं तत्पुरुषः स्यातदा'धातोः' इत्यनेन सामानाधिकरण्यं चेत्? इयाय आरेत्यादावेव स्याद्, वैयधिकरण्ये तु पपाचेत्यादिषु भवदपि द्विर्वचनमज्मात्रस्यैव स्यात्, ततश्च'हलादिः शेषः' ,'शर्पूर्वाः खयः' ,'लिट।ल्ब्यासस्योभ्येषाम्' इत्याद्यनुपपन्नं स्यात्। एकग्रहणं चानर्थकम, प्रथमस्याचेति विशेषणादेकस्य च धातोरनेकप्रथमाजसम्भवादच इत्येकत्वं वा विवक्षिष्यते, किमेकग्रहणेन ? तस्माद् बहुव्रीहिरयम्। तदाह - एकाचेति बहुव्रीहिनिर्देश इति। बहुव्रीहिणा विवक्षितस्यार्थस्य प्रतिपादनं बहुव्रीहेर्वा उच्चारणं बहुव्रीहिनिर्द्देषः। विग्रहप्रदर्शनं विस्पष्टप्रतिपत्यर्थम्। यदि बहुव्रीहिनिर्द्देशस्ततो बहुव्रीहेरन्यपदार्थप्रधानत्वाद्यथा'चित्रगुरानीयताम्' इत्युक्ते यस्य ता गावः स एवानयते न चित्रा गावः, तद्वदत्रोपलक्षितं तदुभयपार्श्ववति व्यञ्जनद्वयमेव द्विरुच्येत, न तूपलक्षणभूतोऽजित्यत आह - तत्रेति। भवति वै बहुव्रीहावपि क्वचिद्वर्तिपदार्थस्यापि कार्ययोगः, तद्यथा - शुक्लवाससमानयेति मत्वर्थे बहुव्रीहिः, तत्र यथा दण्डी, विषाणीति संसर्गे मत्वर्थीय उत्पन्ने तस्य द्विष्ठत्वाद् गुणस्यापि कार्ययोगः; तद्वद् बहुव्रीहावपि यत्र संसर्गो वाच्यस्तत्राविरुद्धो गुमस्यापि कार्ययोगः। अभ्यन्तरश्चेति। अन्तर्भूत इत्यर्थः। आन्यन्तरमिति पाठे अभ्यन्तरमुमध्यम्, तत्र भवमाभ्यन्तरम्। साच्कस्यैव द्विर्वचनं भवतीति। यथा तत्सन्निहितमवयवान्तरं द्विरुच्यते, तथोपलक्षणीभूतोऽप्यजित्यर्थः। अत्र च ज्ञापकम्'दीर्घो' कितःऽ इत्यादि। चोदयति - एवं च पचित्यत्रेति। तेनैव तदवयवोच्छब्दः पशब्दश्चेति। चकारादकारश्च व्यपदेशिवद्भावादेकाजेव, यथैवाङ्गुल्या देवदतोऽङ्गुलिमांस्तथा हस्तोऽपि, तद्वदत्रापि। ततश्च सर्वेषामेव तेषां द्विर्वचनप्रसङ्ग इति शेषः। नन्वर्थवद्घहणे नानर्थकस्येति समुदायस्यैव भविष्यति, नावयवानाम्, नन्वेवं जागत्र्यादीनां न स्यात्, किञ्च यत्र'शे' इत्यादौ विशिष्ट्ंअ शब्दस्वरूपं गृह्यते तत्रैवेयं परिभाषा, अत्र तु'धातोरवयवस्यैकाचः' इति तटस्थेनोपलक्षणेन जाग्, पच्-इत्येवमादिकं गृह्यते, न तु स्वरूपेणेति नेह तस्याः प्रवृत्तिः? परिहरति - तत्रेति। तेषु समुदायादिष्वेकाक्षु मध्येऽवयवैकाचः प्रथमा न द्विरुच्यन्ते, कुतः ? इत्याह - तथा हीत्यादि। अयमभिप्रायः - किमेकस्मिन्नेव प्रयोगे युगपच्च सर्वप्रयोगश्चोद्यते? पर्यायेण वा ? किं वा प्रयोगभेदेन कस्यचित् क्वचनेति ? न तावदाद्य कल्पः, प्रमित्यनुष्ठानयोर्द्वयोरप्यसम्भवात्। तथा हि - एकाच्त्वेन निरुपितं द्विर्वचनं प्रमातव्यम्, न चैकोऽवयवो युगपदनेकावयवत्वेन शक्योनिरूपयितुम्, तत्कथं युगपत्प्रमीयताम्, प्रमितं वा कथमनुष्ठीयताम्! न ह्यएकस्मिन्नेकाचि द्विरुच्यमाने तदैवान्य एकाच्छक्यो द्विर्वक्तुम्; वाचः क्रमभावित्वात्। नापि द्वितीयः; ठनभ्यासस्यऽ इति प्रतिषेधादनवस्थापाताच्च। तस्मात्प्रयोगभेदेन सर्वप्रसङ्ग इत्येष एव पक्षः सम्भवति। तत्र'णिजिर् शौचपोषणयोः' इत्यस्य श्लौ यदा निशब्दस्य द्विर्वचनम्, तदा नेनेक्ति, नेनिक्त इत्यत्र न कश्चिद्दोषः। नेनिजति, अनेजिजुः, नेनिजदित्यत्र ठदभ्यस्तात्ऽ,'सिजब्यस्तविदिभ्यश्च' ,'नाभ्यस्ताच्छतुः' इत्यद्भावजुसभावनुम्प्रतिषेधा न स्युः; जकारेण व्यवधानात्, इकारस्येच्छब्दस्य च द्विर्वचने रुपमेव न सिध्यतीत्येष एव दोषः ? तस्य परिहारः -'शास्त्रहानिप्रसङ्गात्' इति। अवयवे हि द्विरुच्यमानेऽवयवान्तरविषयसमुदाविषयं च शास्त्रं हीयते। ननु शास्त्रेण प्रमितमेव यदि नानुष्ठीयेत स्याच्छास्त्रहानिः, अत्र तु पर्यायेण प्रतीयत इत्युक्तम्, तच्चानुष्ठितमेव कथं सास्त्रहानिः? अङ्ग तु भवानाचष्टाम् - पशब्दे द्विरुच्यमाने चकारः किमिति न द्विरुच्यते, तदा तद्द्विर्वचनस्याप्रतीतत्वादिति चेत्किमिति न प्रतीयते, तेन सहैकाच्त्वेनानिरूपितत्वादितिचेत्किमिति न निरूप्यते? मौनमत्रोतरम्, तस्माद्यस्मिन् प्रयोगे यच्च यावच्च प्रथमैकाच्त्वेन शक्यते निरूपयितुम्, तस्य सर्वस्य द्विर्वचनं प्रमातव्यमनुष्टातव्यं च; अन्यथा तु क्रियमाणं प्रतीत्यनुष्ठानयोरुभयोरपि शास्त्रहानिमावहति। तस्मात्समुदायस्य द्विर्वचनमिति। न चात्रापि पक्षेऽवयवविषये शास्त्रहानिः; अवयवात्मकत्वात्समुदायस्य न खल्ववयवानां द्विर्वचनमकृत्वा समुदायः शक्यो द्विर्वक्तुम्, तद्यथा-वृक्षः प्रचलन्सहावयवैः प्रचलति। अथ कथं पपाचेति द्विर्वचनम्, यावता धातुरेवायं न धात्ववयवः, नापि प्रथमः, द्वितायादिषु हि सत्सु यस्मात्पूर्वो नास्ति स प्रथमः? कथन्तरां चेयायेत्यादौ यत्रैकोऽजस्येति व्यतिरिक्तोऽन्यपदार्थो नास्ति? तत्राह - पपाचेत्यत्रेति। एकाच्त्वमपीति। अपिशब्दात्प्रथमत्वमपि, उभयत्रापि धातुं प्रत्यवयवत्वम्। व्यपदेशिवद्भावादिति। मुख्य एकाज्व्यपदेशः, अवयवव्यपदेशश्च येषामस्ति ते व्यपदेशिनो जाग्रादिषु जागित्येवमादयः, तेषामिवैषामपि कार्य भवतीत्यर्थः। न चेदं वचनम्, लोकिकोऽयं न्यायः, लोके हि'शिलापुत्रकस्य शरीरम्' इति बहिर्वस्तुभेदेऽसत्यपि बेदव्यवहारोऽवस्थाबेदाश्रयो दृश्यते। शिलापुत्रकः क्रीयमाणविक्रीयमाणत्वाद्यवस्थायुक्तो यो दृष्टस्तस्येदं शरीरमिति परिदृश्यमानावस्थाभेदेन व्यपदिश्यते। पपाचेत्यत्रापि पचेरनन्तप्रयोगविषयस्य सम्प्रति प्रयुज्यमानं लिट्परं रूपमवयव इति शक्यं व्यपदेष्टुअम्, प्रथमशब्दोऽपि प्रथमगर्बेण हतेत्यादावसतोऽपि द्वितीयादीन् बुद्ध्या परिकल्प्य मुख्यप्रथमसाधर्म्याद्यथा लोके एकस्मिन्नपि प्रथम इति प्रयुज्यते, तद्वदत्रापि। इयायेत्यत्रापि इतः, यन्ति, आयन्, आगात्, जिगमिषतीत्यनन्तप्रयोगस्थेनैकोऽयमिकअर इत्यन्यपदार्थोऽपि कल्पितः। प्रसिद्ध्यप्रसिद्धिकृतश्च गौणमुख्यविवेकः। एवं विधस्तु व्यवहारो मुख्यादपि प्रसिद्ध इति न गौणत्वदोषः। एवं च कृत्वा -'व्यथो लिटि' 'भवतेरः' 'लिट।ल्भ्यास्सयोभयेषाम्' ,'दीर्घ इणः किति' इत्यादिकमुपपद्यते। अत्र'द्वे' इत्यस्य संख्येयापेक्षायां शब्दानुशासनप्रस्तावाच्छब्दरूपे सख्येये'षष्ठी स्थानेयोगा' इति वचनादेकाचः प्रथमस्येति स्थानषष्ठ।लं सत्यामेकस्य स्थाने द्वे शब्दरुपे इत्यर्थो भवति, यथा - ठस्तेर्भूःऽ इत्यादौ, तदा'स्थाने द्विर्वचनम्' इत्ययं पक्षो भवति। यदा शब्दसम्बन्धिनी उच्चारणे संख्येये क्रियारूपस्य शब्दस्य च स्थान्यादेशसम्बन्धायोगादध्याहृतोच्चारणक्रियापेक्षयैकाचेति कर्मषष्ठी - एकाचो द्वे उच्चारणे भवतः, एकाचं द्विरुच्यारयेदित्यर्थः, तदा'द्विःप्रयोगो द्विर्वचनम्' इत्ययं पक्षो भवति। तत्राद्ये पक्षे'स्थाने' न्तरतमःऽ इति वचनाच्छब्दतश्चान्तरतमयोर्द्वयोविधानाद् यद्यपि ये केचन प्राप्नुत इति दोषनवतारः। चिचीषतीत्यत्र तु'सन्यङेः' इति षष्ठयाः स्थापयिष्यमाणत्वाच्चिस् इत्यस्य स्ताने चिस्चिस् इति शब्दान्तर आदेशे सति तत्स्थस्य सकारस्य सन्त्वे प्रमाणाभावात् ठज्ज्ञनगमां सनिऽ इति दीर्घत्वं न स्यात्; आदेशस्य स्थानिवद्भाव उच्यते नादेशावयवस्य स्यान्यवयववद्भाव इति स्थानिवद्भावेनापि सन्त्वं नास्ति। तस्य तु यत्र सन्मात्रस्य द्विर्वचने स्थानिवद्भावेन सन्त्वं सोऽवकाशः, यथा - इणः सन्, ईषिषतीति। ननु शब्दान्तरप्राप्त्या द्विर्वचनमनित्यम्, अप्राप्त्या तु दीर्घत्वमित्युभयोः परत्वाद्दीर्घत्वे कृते द्विर्वक्ष्यते? इह तर्हि ह्वयतेः सनि ह्नास् इत्यस्य द्विर्वचनम्, समुदायस्य समुदाय आदेशस्तत्र आदोश एतन्नास्ति - इयं प्रकृतिरयं प्रत्यय इति, ततश्च'ह्वो' भ्यस्तस्यऽ इति संप्रसारणं न स्यात्, जुहाव जुहुवतुरित्यादावेव तु स्याद् - यत्र ह्वामात्रस्य द्विर्वचनात्स्थानिवत्वम्? नैष दोषः;'ह्वो' भ्यस्तस्यऽ इति व्यधिकरणे षष्ठयौ, ह्वयतेरभ्यस्तस्य भविष्यतः प्रागेव संप्रसारणं परपूर्वत्वम्,'हलः' इति ठज्ज्ञनगमाम्ऽ इति वा दीर्घत्वम्,'ह्वास्' इत्यस्य द्विर्वचनम्। इह च पिपक्षति, उद्विवक्षतीत्यत्र'पूर्वत्रासिद्धमद्विर्वचने' इति तर्हि आटिटद्, आशिशद् इति णिलोपे कृतेऽपि'द्विर्वचने' चिऽ इति रूपस्थानिवद्बावाच्छब्दान्तरप्राप्त्यभावेन नित्यत्वात्पूर्वं द्विर्वचने सति समुदायस्य समुदाय आदेशस्तत्र सम्प्रभुग्धत्वात्प्रकृतिप्रत्ययत्वं नष्टम्, स णिज्न भवतीति णिलोपो न स्यात्, तस्य तु कारणेत्यादिरवकाशः। इह च जिघांसतीति समुदायस्य समुदाय आदेशे कृते हन्तेरभावाद् ठभ्यासाच्चऽ इति हन्तेरिति कुत्वं न स्यात्। तस्य तु जघनथि, जघन्थ, अहं किल जघन, जघन्वानित्यादिरवकाशः, यत्रहन्तिमात्रस्य द्विर्वचनात्स्थानिवद्भावः। तदेवमाद्यपक्षस्य दुष्टत्वाद् द्वितीयं पक्षमाश्रित्याह-द्विःप्रयोगे द्विर्वचनमिति। चशब्दोऽवधारणे। कथं पुनः'षष्ठी स्थानेयोगा' इति परिभाषायां सत्यां द्विःप्रयोगपक्षः शक्य आश्रयितुम्? तत्राह - आवृत्तिसंख्या हीति। यद्यावृतेः संख्या विधीयते, एवं सति त्रिर्वचनं प्राप्नोति। न ह्याद्यमुच्चारणमावृत्तिः, अतस्तदेकम्, आवृती च द्वे इति त्रिर्वचनप्रसङ्गः। तस्मादावृत्तिकृता संख्या। आवृत्तिसंख्या कस्य? उच्चारणस्य, आवृतमुच्चारणं विधीयत इत्यर्थः। तत्र च स्थान्यादेशभावो न सम्भवतीत्युक्तम्। अत्र पक्षे यथाटिटदित्यादौ दोषौ न भवति तथा दर्शयति - तेनेत्यादिना । नन्वत्रापि पक्षे नेमतुः, सेहे इत्यादौ नत्वसत्वयोः कृतयोर्धातोरादेशादित्वस्य द्विःप्रयोगेऽप्यनिवृतेरेत्वाभ्यासलोपौ न स्याताम्, पक्षान्तरे तु नादेशादिव्यपदेशः? अलाश्रयत्वेन स्थानिवत्वाभावात्समुदायादेशत्वेनादेशादित्वाभावाच्च न दोष)ः;'लिटि आदेशः' इति विशेषणाअन्नत्वसत्वयोरनैमितिकत्वाद्। इह तर्हि वेभिदितेति वेभिद्यशब्दातृचि अल्लोपयलोपयोः कृतयोरुपदेषे य एकाजनुदातः स एवायमितीट्प्रतिषेधः स्यात्, पक्षान्तरे त्वेकाज्व्यमपदेशस्यालाश्रयत्वाद् बेभिद्येत्यस्य द्व्यचकत्वान्निषेधाभावः? द्विःप्रयोगेऽपि न दोषः; पूर्वस्मादपि विधौ अल्लोपस्य स्थानिवद्भावात्। इह तर्हि जरीगृहितेति ग्रहेर्वलिटि दीर्घत्वं स्यात्, न ह्यत्र स्थानिवत्वम्, दीर्घविधौ निषेधात्? नैष दोषः; ठेकाच उपदेशेऽ इत्यत ठेकाचऽ इत्यनुवर्तयिष्यते। यद्वा - ग्रहेर्विहितं यदार्द्धधातुकं तस्य य इट् तस्य दीर्घ इति जरीगृह्यशब्दाद्विहितस्य न भविष्यति। इच च सिषेचति, यद्यपि सिचेर्लिड्विहितः; तथापि द्विर्वचने कृते समुदायस्यैका पदसंज्ञा न तदवयवस्य, सेचशब्दस्य पदसंज्ञायां तदादिग्रहणानिवृतेरभ्यासस्य वर्जनायोगादिति'सात्पदाद्योः' इति षत्वनिषेधाभावः। इह तर्हि विभिद्वानित्यादौ शतकृत्वोऽप्युच्चारणे एकाच्त्वं न याति, किं पुनर्द्विरुच्चारण इति'वस्वेकाजाद्धसाम्' इतीट्प्रसङ्गः? तन्न; उच्चारणभेदाद्विरुद्धसंख्याप्रादुर्भावे पूर्वसंख्याकृतव्यपदेशनिवर्तनात्। अत एवाद्ग्रहंणं कृतं पपिवानित्यादाविडर्यम्। इह तर्हि विशुष्वापेति, तस्यैवार्थवतो द्विरुक्तिभावमात्रमित्यभ्यासस्यार्थवत्वात्सुपेः षत्वमित्यत्रानर्थको विसुषुपुरिति वक्ष्यमाणं विहन्येत? नैष दोषः; अन्वयव्यतिरेकाभ्यां शब्दस्याशेषार्थावसायः, न चात्राभ्यासोपजनने कश्चिदर्थ उपजायते, अपाये चापयाति। ननु स एव चेद् द्विरुच्यते, अर्थप्रत्ययेनाप्यावतितव्यम्, यथा - अहिरहिर्बुध्यस्वबुध्यस्वेति? किमत्रोपालभ्येमहि, न तावदर्थप्रत्यया आवर्तन्ते! तदेतदेवं दृश्यताम्-यथा स्वप्नः, सुप्तः, अस्वपदित्यादौ क्वचिदविकृतः, क्वचिद्विकृतः, क्विचिदडागमापेक्षोऽर्थं प्रतिपादयति, तथा सुष्वापेत्यादावावृत एव प्रतिपादयतीति ॥