6-4-22 असिद्धवत् अत्र आभात्
असिद्धवत् अत्र आभात्
अग्रिमसूत्रात् आरभ्य, अस्य पादस्य समाप्तिपर्यन्तम् पाठितानि सूत्राणि समानाश्रये कर्तव्ये परस्पराणां सन्दर्भे असिद्धानि भवन्ति ।
All the sutras present from here onward till the the end of this पाद should be considered as असिद्ध towards each other when they are invoked in such a way that their आश्रयs are exactly the same.
असिद्धवदित्ययमधिकारः। यदित ऊर्ध्वमनुक्रमिष्याम आ अध्यायपरिसमाप्तेस्तद् असिद्धवद् भवतीत्येवं वेदितव्यम्। आ भादिति विषयनिर्देशः। आ भसंशब्दनाद् यदुच्यते तत्र कर्तव्ये। अत्रेति समानाश्रयत्वप्रतिपत्त्यर्थम्। तच्चेदत्र भवति, यत्र तदाभाच्छास्त्रीयं विधीयते तदाश्रयमेव भवति। व्याश्रयं तु नासिद्धवद् भवतीत्यर्थः। असिद्धवचनमुत्सर्गलक्षणभावार्थम्, आदेशलक्षणप्रतिषेधार्थं च। एधि, शाधीत्यत्र एत्वशाभावयोः कृतयोर्झल्लक्षणं धित्वं न प्राप्नोति, असिद्धत्वाद् भवति। आगहि, जहीत्यत्रानुनासिकलोपे जभावे च <<अतो हेः>> ६.४.१०५ इति लुक् प्राप्नोति, असिद्धत्वाद् न भवति। आ भादिति किम्? अभाजि। रागः। <<अत उपधायाः>> ७.२.११६ इति वृद्धौ कर्तव्यायां नलोपो नासिद्धो भवति। अत्रग्रहणं किम् ? पपुषः पश्य। चिच्युषः पश्य। लुलुवुषः पश्य। वसुसंप्रसारणमाल्लोपे यणादेश उवङादेशे च कर्तव्ये नासिद्धं भवति। आल्लोपादीनि वसौ, वस्वन्तस्य विभक्तौ संप्रसारणमिति समानाश्रयत्वं नास्ति। <<असिद्धं बहिरङ्गमन्तरङ्गे>> इत्येतदप्यत्र न भवति। किं कारणम्? एषा हि परिभाषा आभाच्छास्त्रीया। तस्यां प्रवर्तमानायां वसुसंप्रसारणादीनामाभाच्छास्त्रीयाणामेवासिद्धत्वादन्तरङ्गबहिरङ्गयोर्युगपत् समुपस्थानं नास्तीति परिभाषा न प्रवर्तते॥ वुग्युटावुवङ्यणोः सिद्धौ भवत इति वक्तव्यम्॥ वुग् उवङादेशे — बभूव, बभूवतुः, बभुवुः। युट् यणादेशे — उपदिदीये, उपदिदीयाते, उपदिदीयिरे। आ भादित्ययमभिविधावाङ्। तेन भाधिकारेऽप्यसिद्धवद् भवति॥
इत ऊर्ध्वमापादपरिसमाप्तेराभीयम् । समानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्यात् । इति वुकोऽसिद्धत्वादुवङि प्राप्ते ।<!वुग्युटावुवङयणोः सिद्धौ वक्तव्यौ !> (वार्तिकम्) ॥ बभूव । बभूवतु । बभूवुः ॥
इत उर्ध्वमापादसमाप्तेराभीयम्, समानाश्रये तस्मिन्कर्तव्ये तदसिद्धम्। इति जस्यासिद्धत्वान्न हेर्लुक्। जहि, हतात्। हतम्। हत। हनानि। हनाव। हनाम। अहन्। अहताम्। अघ्नन्। अहन्। अहतम्। अहत। अहनम्। अहन्व। अहन्म। हन्यात्। हन्याताम्। हन्युः॥
एतत् अधिकारसूत्रम् अस्ति । अस्य अधिकारस्य व्याप्तिः षष्ठाध्यायस्य चतुर्थपादस्य अन्तिमसूत्रपर्यन्तम् (6.4.175 इति यावत्) प्रचलति ।
'असिद्धवदत्राभात्' इत्यत्र 'असिद्धवत् + अत्र + आभात्' इति पदविग्रहः । प्रत्येकं पदार्थस्य अर्थः एतादृशः —
1) आभात् = <<भस्य>> 6.4.129 इति अधिकारस्य परिसमाप्तिपर्यन्तम् (इत्युक्ते, षष्ठाध्यायस्य चतुर्थपादस्य परिसमाप्तिपर्यन्तम्) ।
2) अत्र = समानाश्रये कर्तव्ये ।
3) असिद्धवत् = असिद्धत्वं स्यात्।
वर्तमानसूत्रात् आरभ्य षष्ठाध्यायस्य चतुर्थपादस्य परिसमाप्तिपर्यन्तम् विद्यमानानि सूत्राणि (आभीयसूत्राणि इत्यपि तेषाम् अन्यत् नाम) परस्पराणां विषये समानाश्रये कर्त्तव्ये असिद्धानि ज्ञेयानि - इत्याशयः ।
किं नाम समानाश्रयः ? नागेशः लघुशब्देन्दुशेखरे ब्रूते -
(a) <<श्नसोरल्लोपः>> 6.4.111 इत्यनेन सूत्रेण 'अस्' धातोः हि-प्रत्यये परे अकारलोपः विधीयते । अतः अस्य सूत्रस्य आश्रयौ 'अस्, हि' एतौ स्तः ।
(b) <<घ्वसोरेद्धावभ्यासलोपश्च>> 6.4.119 इत्यनेन तु अस्यैव अस्-धातोः अस्मिन्नेव हि-प्रत्यये परे 'ए' इति अन्त्यादेशः विधीयते । अतः अस्य सूत्रस्य आश्रयौ अपि 'अस्, हि' एतौ एव स्तः ।
अनेन प्रकारेण अत्र <<श्नसोरल्लोपः>> 6.4.111 तथा च <<घ्वसोरेद्धावभ्यासलोपश्च>> 6.4.119 इति सूत्रयो: आश्रयौ समानौ स्तः, अतः एतयोर्मध्ये अत्र समानाश्रयः अस्ति इति उच्यते ।
(2) हन्-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रियायाम् 'हन् + हि' इति स्थिते —
(a) <<हन्तेर्जः>> 6.4.36 इति सूत्रेण 'हन्'-धातोः 'हि'-प्रत्यये परे 'ज' इति आदेशः भवति । अतः अत्र <<हन्तेर्जः>> 6.4.36 इति सूत्रस्य 'हन्, हि' इति आश्रयौ ।
(b) अग्रे, एतम् 'ज' इति अकारान्तम् आदेशम् एव निमित्तरूपेण स्वीकृत्य <<अतो हेः>> 6.4.105 इति सूत्रेण अदन्तात् अङ्गात् परस्य 'हि'-प्रत्ययस्य लुक् प्रवर्तते । अत्र <<अतो हेः>> 6.4.105 इति सूत्रस्य स्थानी अस्ति 'हि' इति प्रत्ययः, तथा च मूलनिमित्तम् अस्ति 'हन्' इति धातुः । यद्यपि अत्र प्रत्यक्षं निमित्तम् 'ज' इति दृश्यते, तथापि स्थानिवद्भावेन 'हन्' इत्यस्यैव परिगणनम् अत्र कर्तव्यम् । अतएव उपरि दत्तायां व्याख्यायाम् 'मूलस्थानी' तथा 'मूलनिमित्तम्' इति शब्दौ प्रयुक्तौ स्तः । अतः, अत्रापि 'हन्, हि' इत्येव द्वौ आश्रयौ स्तः ।
अतः अत्रापि एतयोः द्वयोः सूत्रयोः मध्ये समानाश्रयः अस्ति इति उच्यते ।
एतादृशः समानाश्रयः यदा द्वयोः सूत्रयोः मध्ये विद्यते तदा ते सूत्रे परस्परयोः विषये असिद्धे भवतः। इत्युक्ते, प्रक्रियायां ताभ्याम् एकेन सूत्रेण कृतं कार्यम् अपरस्य सूत्रस्य कृते असिद्धम् मन्तव्यम् - इति वर्तमानसूत्रस्य आशयः । अस्मिन्नेव सन्दर्भे भाष्ये - असिद्धवचनम् आदेशलक्षणप्रतिषेधार्थम् उत्सर्गलक्षणभावार्थम् - इति विधानं कृतम् अस्ति । अत्र भाष्यकारेण 'समानाश्रये जाते असिद्धत्वं कथं प्रवर्तते' इत्यस्य द्वौ नियमौ उक्तौ स्तः । एते द्वौ नियमौ, तथा च तयोः कानिचन उदाहरणानि अधः स्पष्टीक्रियन्ते ।
1) आदेशलक्षणप्रतिषेधार्थम् असिद्धत्त्वम्
<<असिद्धवदत्राभात्>> - तथा च प्रकृतेऽभ्यासस्य बकारे सति बभूव् अ इति स्थितेअचि श्नुधात्वि॑त्युवङादेशमाशङ्कितुमाह — असिद्धवदत्रा । षष्ठस्य चतुर्थपादे इदं सूत्रं 'श्नान्नलोप' इति सूत्रात्पूर्वं पठितम् । आ भादित्यभिविधावाङ् । भस्येत्यधिकारमभिव्याप्येत्यर्थः । भाधिकारश्च आ पादपरिसमाप्तेरिति सिद्धान्तः । तथा च आ पादपरिसमाप्तेरिति लभ्यते ।विहितं कार्य॑मिति शेषः । किमारभ्येत्याकाङ्क्षायामुपस्थित्वादस्मादेव सूत्रादूध्र्वमिति लभ्यते । ततश्चा 'श्नान्नलोप' इत्यारभ्या पादसमाप्तेर्विहितं यदाभीयं कार्यं तदसिद्धवद्भवति । प्रवृत्तमप्यप्रवृत्तवद्भवतीत्यर्थः । अधिकारसूत्रमिदमुत्तरत्र 'श्नान्नलोप' इत्यादौ प्रतिसूत्रमुपतिष्ठते । तथा च यद्यत्सूत्रे इदमनुवर्तते तत्तदाभीयकार्ये कर्तव्येऽसिद्धमिति लभ्यते । एवं च 'श्नान्नलोप' इत्यादि तत्तदाभीयं कार्यं 'श्नान्नलोप' इत्याद्याभीये कार्ये कर्तव्येऽसिद्धवदित्यर्थः पर्यवस्यति । अत्रेत्यनेन निमित्तसप्तम्यन्तेन त्वसिद्धीभवतः कार्यस्य यन्निमित्तं तन्निमित्तके कार्ये कर्तव्ये सतीत्यर्थलाभात्समानाश्रये कार्ये कर्तव्ये सती॑ति लभ्यते । एतत्सर्वं भाष्ये स्थितम् । तदाह — इत ऊध्र्वमित्यादिना । तस्मिन्निति । आभीये कर्तव्ये सतीत्यर्थः । एधि शाधीत्युदाहरणम् । अत्रध्वसोरेद्धावभ्यासलोपश्चे॑त्यस्तेरेत्वस्यशाहा॑विति शास्तेः शाभावस्य चाभीयत्वेनाऽसिद्धत्वात्हुझल्भ्यो हेर्धि॑रिति हेर्धित्वमाभीयं प्रवर्तते । तथाजङ्घही॑त्याद्यप्युदाहरणम् । हन धातोर्यङ्लुगन्ताल्लोण्मध्यमपुरषैकवचने सिपो हिभावेअनुदात्तोपदेशे॑ति नलोपस्याभीयस्यासिद्धत्वादतो हेरित्याभीयोलुङ् न भवति । समानाश्रय इति किम् । 'पपुष' इत्यत्र पाधातोर्लिटः क्वसौलिटि धातो॑रिति द्वित्वेऽभ्यासह्रस्वे क्वस्वन्ताद्द्वितीयाबहुवचने सि वसोः संप्रसारणमाभीयम् ।आतो लोप इटि चे॑त्याल्लोपे आभीये कर्तव्ये असिद्धं न भञ्जेश्चिणि, रञ्जेर्घञि च कृते,भञ्जेश्च चिणि॑,घञि च भावकरणयो॑रिति नलोपस्याभीयस्याऽनाभीयायामुपधावृद्धौ कर्तव्यायां नाऽसिद्धत्वात् । आभादित्यभिविधिः किम् । भाधिकारात् प्रागित्युक्ते भूयानित्यत्रबहोर्लोपो भूच बहो॑रिति बहोर्भूभावस्य ओर्गुणे कर्तव्ये असिद्धत्वं न स्यात्, भस्येति सूत्रादूध्र्वभावित्यादित्यलम् । इति वुकोऽसिद्धत्वादिति । वुक आभीयस्य अचि श्नुधात्वित्युवङि आभीये कर्तव्येऽसिद्धतया ऊकारस्योवङि लघूपधगुणे बभोवेति प्राप्ते सतीत्यर्थः । वुग्विधिस्तु गुणवृद्धिबाधकत्वेन चरितार्थ इति भावः । वुग्युटावुवडणोरिति । यथासङ्ख्यमन्वयः । बभूवेति । णलो णित्त्वं तु जगादेत्यादौ वृद्ध्यर्थम् । बभूवतुरिति । तसोऽतुसादेशे वुगादि पूर्ववत् । सकारस्य रुत्वविसर्गौ । बभूवुरिति । जेरुसादेशे वुगादि पूर्ववत् ।
आ भादितिनिर्द्दशः आ कडारात् इत्यनेन व्याख्यातः । सिद्धशब्दो निष्पन्नवचनः, न सिद्धोऽसिद्धः - यः पुनः सिद्धोऽपि सिद्धकार्य न करोति, स तेन तुल्यं वर्तत इति असिद्धवत् । किं पुनस्तत् प्राधान्यात्कार्य मिति प्राप्तम्, शास्त्रं हि कार्यार्थत्वादप्रधानम् । कार्यस्य चासिद्धत्वे आदेशलक्षणप्रतिषेध एव सिध्द्येत् - आगहि, जहीति न तूत्सगलक्षणस्य भावः - एधि, शाधीति । कार्यस्यासिद्धत्वे ह्ययमर्थः - आ भाच्छास्त्रीयं कार्य प्रवृतमपि प्रवृतकार्यं न क्रोतीति, अतः प्रवृतकार्यनिबन्धनस्यैव कार्यस्य प्रतिषेधः स्यात् । न च एधि, शाधीत्यत्र एत्वशाभावनिबन्धनं किञ्चित्कार्य प्राप्तं यस्य प्रतिषेधो विज्ञायेत । आभीयं तु शास्त्रं स्वकार्य कुर्यादेव । अत एत्वशाभावशास्त्राभ्यां स्वकार्ययोरेत्वशाभावयोः प्रवर्तितयोः स्थानिनोरभावातन्निबन्धनं धित्वं न स्यादेव । शास्त्रासिद्धत्वे त्वयमर्थः - आभीयं शास्त्रं निष्पन्नमपि स्वकार्य न करोतीति । अत एत्वशाभावशास्त्राभ्यां स्वकार्ययोरेत्वशाभावयोरप्रवृतत्वादनिवर्तितत्वाच्चैत्वधिभावशास्त्रस्य स्थानिबुद्धिरेव वर्तते इति तन्निबन्धनं कार्यसिध्यति । अतो व्यापकत्वाच्छास्त्रस्यैवासिद्धत्वम्, आ भादिति शास्त्रस्यैव विषयत्वेन निर्द्देशाच्च । यद्ययं स्वतन्त्रविधिः स्यात्, तदा भाद्ग्रहणं विषयनिर्द्देशार्य वा स्यात् - आ भाच्छास्त्रे।थत्र कर्तव्येऽसिद्धवदिति, असिद्धवद्भवतो वा निर्द्देशार्थम्, अत्रग्रहणं तु विषयार्थम् - आ भाद्यच्छास्त्रं तदसिद्धवद्भवति अत्रैवाभीये शास्त्रे कर्तव्य इति तत्राद्ये पक्षे असिद्धवद्भवतो निर्द्देशाभावाद्यत्किञ्चनाष्टाध्याय्यां कार्य तत्सर्वमाभीये कर्तव्ये असिद्धवत्, ततश्च चधिन्विकृण्व्योर च इत्यस्यासिद्धत्वद्धिनुते, कृणुत त्येतो लोपो नि स्य्त । अत्रग्रहणं चानर्थकं स्यात्, अपरिपूर्णत्वादध्याहारेणौवा भाद्यतत्र कर्तव्य इत्यर्थलाभात् । द्धितीये तु पक्षे समानाश्रयत्वं विशेषो न लभ्येत, ततश्च प्रशमय्येति मितो ह्रस्वस्यासिद्धत्वाल्लघुपूर्वो मकारो न भवतीति ल्यपि लघुपूर्अत् इत्ययादेशो न स्यात् प्रबेभिदय्येति, भिदर्यङ्न्ताद् णचि यस्य हलः इति यलोपस्यासिद्धत्वाल्लघुपूर्वादुतरो णज्न भवति, यकारेण व्यवधानादित्ययादेशो न स्यात् प्रस्तन्य्येति, अदन्तात्स्तनशब्द इत्यस्माद् णिच्यल्लोपस्यासिद्धत्वाल्लघोरेव परो णिच्, न तु लघुपूर्वादित्ययादेशाप्रप्तिः, पशुं सनोतीति जनसनखन इति विट्, विड्वनोः इत्यात्वम्, सनोतेरेनः इति शत्वम् - पशुषाः, ततः शसि पशुषो नवाजानित्यादावात्वस्यसिद्धत्वात् आतो धातोः इत्यालोपो न स्यात् चाखायितेति, खनेर्यङ् इद्विर्वचनात्परत्वात् ये विभाषा इत्यात्वे द्विर्वचने तृचि आत्वस्यासिद्धत्वात् यस्य हलः इति यलोपः स्यात् पपुष इत्यादौ च दोषो वक्ष्यते । अधिकारे आ भाद्ग्रहणं चानर्थकं स्यात्, थाधिकारादेव तदर्थलाभात् । तथा हि - शनान्नलोपः इत्यत्रास्मिन्नुपस्थिते सति श्नादुतरस्य नकारस्य लोपो भवति स चासिद्धवद्भवतीत्ययमर्थो भवति । एवमनुदातोपदेश इत्यादावपि, तत्किमसिद्धवद्भवतो निर्द्देशार्थेनाभाद्ग्रहणेन । न चासिद्धवद्भवत इत्यतावधारणार्थमाभाद्ग्रहणम्, अधिकारे ह्यस्मिन्नवध्यनिर्द्देशाद् युवोरनाकौ इत्यादीनामपि असिद्धत्वं स्यादिति वाच्यम्, ङ्याप्प्रतिपदिकात् इतिवदन्तरेणाप्यवधिनिर्द्देशमधिकारपरिमाणावगतेः । नन्वसत्याभाद्ग्रहणेऽधिकारेऽस्मिन् सति यत्रैतदधिकृतं तदेव सूत्रं तद्धिहितं वा कार्यमत्रग्रहणेन परमृश्येत, अन्यस्य सन्निहितस्याभावात्, ततश्च श्नान्नलोपः इत्यस्यायमर्थः स्यात् - श्नादुतरस्य नकारस्य लोपो भवति, स चासिद्धवद्भवत्यत्रैव श्नान्नलोपे कर्तव्य इति । एवं सर्वत्र । ततश्च चिणो लुक् इत्यत्रैवेष्ट्ंअ सिध्येत् - अकारितरामिति , गतः, गतवानित्यादावन्यस्मिन्नाभीयेऽन्यस्याभीयस्यासिद्धत्वानापादनादतो लोपादि स्यादेव । आ भाद्ग्रहणं तु कृत्वा विधावाश्रीयमाणे तस्यैव सन्निहितस्यात्रग्रहणेन परामर्शादाभीयमाभीयेऽसिद्धवत्स्वस्मिन्नन्यस्मिन्बेत्ययमर्थो लभ्यते उच्यते, अधिकारेऽप्यस्मिन्सति अनुदातोपदेश इत्यादौ तत्रैव कर्तव्ये तस्यैवासिद्धवचने न किञ्चित्प्रयोजनमस्तीति तत्कार्यविशेषरुपपरित्यागेन इदमसिद्धवद्भवति । अत्र कर्तव्ये इत्येवं सामान्यरुपेण परामर्शादन्यस्मिन्नप्यन्यस्यासिद्धत्वं भविष्यति, तदेवमा भाद्ग्रणमतिरिच्यमानं विषयार्थ विज्ञायते । अधिकाराच्चासिद्धवद्भवतोऽवगतिः । अत्रग्रहणं तु समानाश्रयत्वप्रतिपत्यर्थम्, यद्यौभे अप्याभीये एकमेव निमितमाश्रित्य प्राप्नुतः, एवमन्योऽन्यस्मिन्नसिद्धवद्भवति, किमत्रग्रहणमतिरिच्यते इत्यतः समानाश्रयत्वप्रतिपतिः नेत्याह अक्षरार्थ एएवायम् तथा हि - अनुदातोपदेश इत्यत्रास्मिन्नुपस्थिते सत्ययमर्थो भवति - अनुदातोपदेशानां लोपो भवति झलादौ क्ङिति परतः, स चासिद्धवद्भवति । कुत्र कर्तव्ये अत्र यदा भातत्रेति । कोऽर्थः क्ङित्यनुनासिकलोपो भवतीत्युक्तम्, अत्रैव क्ङितिनिमिते सति यदाभीयं प्राप्नोति तत्र कर्तव्य इति । एवं सर्वत्र । एवं च विस्पष्टमक्षरैरेव समानाश्रयत्वं प्रतिपादितं भवति । यद्ययमधिकारस्ततो यत्रास्योपस्थानं तत एवारभ्य यदा भातत्रैव तस्यासिद्धत्वं स्यात्, न तु स्वस्मात्पुर्वेष्वितरेषु, यद्देशस्थेन हि वक्ता आणुच्चार्यते तत तएवारभ्य मर्यादाभिविधिप्रतिपतिः यथा - आ पाटलिपुत्राद्वृष्टो देव तैति, एवं च ध्वसोरेद्वौ इत्यस्यायमर्थो भवति - अस्तेहौ एकारः, स चेत आरभ्य यदा भातत्रासिद्धवदिति, ततश्च पूर्वत्र धित्वे नासिद्धवत्स्यात् स्वतन्त्रे तु विधौ अत्रैव प्रदेशे आर्ङ्थ प्रतिपदायन् अत एवारभ्य यदा भातदसिद्धवद्भवत्यत्रैव कर्तव्य इति श्नान्नलोपः इत्यारभ्य ऋत्व्यवास्त्त्व्य इत्येवमान्तानां सर्वेषामेवान्योऽन्यस्मिन्नसिद्धत्वमापादयति उच्यते द्वौ पक्षौ - शब्दाधिकारश्चार्थाधिकारश्च, ततश्च शब्दाधिकारे स्यादेष दोषः, अर्थाधिकारे त्वस्मिन्नेव प्रदेशो आर्ङ्थ प्रतिपादयन् पूर्ववत्प्रतिपादयति, स च प्रतिपादितार्थादुतरत्रोपतिष्ठते, उपस्थितश्च तत्रतत्रोपस्थितेनात्रग्रहणेन विशेष्यत इति सर्वमिष्ट्ंअ सिद्धम् । तदनेन सूक्षेणायमर्थः सम्पादितः श्नान्नलोपः इत्यारभ्यापादपरिसमाप्तेर्यानि सूत्राणि तान्यन्योऽन्यस्मिन्नसिद्धवद्भवन्ति, तानि चेतुल्यनिमितानीति । तदेतत्सर्व वृतौ यथास्थानं योज्यम् । तदाश्रयमेव भवतीत्यत्रासिद्धवदिति वक्ष्यमाणमपक्रष्टव्यम् । विभिन्नाश्रयम् - व्याश्रयम्, विभिन्ननिमितमित्यर्थः । असिद्धवचनमित्यादि । उत्सृज्यते आदेशेन निवर्त्यत इत्युत्सर्गः - स्थानी, स लक्षणं निमितं यस्य तदुत्सर्गलक्षणम्, तस्य भावः - प्रवृत्तिर्यथा स्यात् । एतच्च शास्त्रासिद्धत्वाश्रयणाल्लभ्यत इत्युक्तम् । आगहीति । बहुलं च्छन्दसि इति शपो लुक् अनुदातोपदेश इत्यादिनानुनासिकलोपः । जहीति । हन्तर्जः । अभाजीति । भञ्जेश्च चिणि इत्यनुनासिकलोपः । राग इति । रञ्चेश्च घञि च भावकरणयोः इत्यनुनासिकलोपः । अत्रग्रहणं किमिति । यद्यपि समानाश्रयत्वप्रतिपत्यर्थमिति पूर्वमेवात्रग्रहणस्य प्रयोजनमुक्तम्, तथापि समानाश्रयत्वप्रतिपतेः कि फलमिति प्रश्नावसरोऽस्त्येव । पपुष इति । पा पाने, आतो लोप इटि च । चिच्युष इति । चिञ् चयन, एरनेकाचः इति यणादेशः । लुलुविष इति । लूञ् छेदने । कथं पुनरत्र व्याश्रयत्वम् इत्याह - आलोपादीनि हीति । नन्वेवमपि नैवात्रालोपादीनि सिध्यन्ति, अन्तरङ्गाणि हि तानि, तदन्तर्भूतसम्प्रसारणापेक्षत्वात् बहिरङ्गं सम्प्रसारणम्, बहिर्भूतविभक्त्यपेक्षत्वात्, ततः किमसिद्धं बहिरङ्गमन्तरङ्गे तत्राह - असिद्धं बहिरङ्गमन्तरङ्गे इत्यादि । एतदिति वचनापेक्षं नपुंसकत्वम् । क्रिमिति न प्रवर्तते अत आह - एषा हीति । आ भाच्छास्त्रीयेति । वाह ऊठ इत्यत्र ज्ञापितत्वात् । ततः किम् इत्याह - तस्यामिति । अन्तरङ्गबहिरङ्गयोर्युगपत्सन्निधानं नास्तीति परिभाषया सह यौगपद्यमेष्टव्यम् । परिभाषासन्निधावन्तरङ्गबहिरङ्गयोरवस्थानाभावादित्यर्थः । वसुसम्प्रसारणं चैकं परिभाषाया आल्लोपादीनां चाश्रय इति समानाश्रयत्वमप्यस्ति । एतच्च नाजानन्तर्ये इत्यनाश्रित्योक्तम् । आल्लोपादयो हि अचोरानन्तर्यमाश्रित्य प्राप्नोवन्ति । वुग्युटाविति । तत्र युटा तावत्सिद्धत्वं न वक्तव्यम्, युड्विधानसामर्थ्यात् यण् न भविष्यति । तत्र यकारद्यश्रवणार्थ युड्विधानम् यणो मयो द्वे भवतः इति द्विर्वचनविधानात् । हलो यमां यमि लोपः इति पक्षे लोपविधानाच्च पक्षे यकारद्वयश्रवणस्य सिद्धत्वात् । वुकोऽपि सिद्धत्वं न वक्तव्यम्, कथम् नाप्राप्ते उवङ्यारभ्यमाणो वुक् तस्यापवादो भविष्यति । ननु च बाधकप्रवृत्तिवेलायां यद्विरुध्यते तद्वाधकेन निवर्तितं न प्रवर्तते, उवङ्निरवकाशे वुकि प्रवर्तमानेऽसिद्धत्वात्स्वमात्मानमदर्शयन्नशक्यो बाधितुमिति वुकि कृते तस्यासिद्धत्वात्स्यादेव एवं तर्हि वुग्न करिष्यते, भुवो लुङ्लिटोरुटुअपधायाः इति सूत्रमस्तु, तत्र च ओः सुपि इत्यतः ओरित्यनुवतिष्यते, तेन भुवाऽङ्गस्योपधाया उकारस्य ऊद्भवतीत्याश्रयणे उवङ् कृति ऊकारो भविष्यति । यद्येवम्, बभूव, बभूविथेति गुणवृद्ध्योरवावोश्च कृतयोरुवर्ण उपधां न भवतीत्यूत्वं न स्यात् तत्रापि इन्धिभवतिभ्यां चेति पितोऽपि लिटः कित्वाद् गुणवृद्ध्योरभावे उवङ् ऊद्भिविष्यति । यद्येवम्, एइन्धिश्छन्दोविषयत्वाद्भुषो वुको नित्यत्वादिति न्यायातन्न कर्तव्यं भवति अवश्यं च वुको नित्यत्वमाश्रित्य बभूवेति शाधयितव्यमन्यथा अचो ञ्णिति इत्यत्रेक इत्युनपस्थानादनिग्लक्षणा वृद्धिः स्यादेव एवं तर्हि नार्थो वुका, नापि कित्वेन, ओः सुपि इत्यत्रावर्णमपि प्रिश्लष्यते, अकारोकारयोराद्गुणे कृते ङसिङ्सोश्चेति पूर्वैकादेशेन निर्देशात् । तेन बभूवथेति गुणवृद्ध्योरवाधोश्च कृतयोरवर्णस्याप्युपधाया ऊद्भविष्यति, बभूवतुरित्यादावुवैङ् कृति उवर्णस्यापि । यद्येवम्, ओः सुपि इत्यवर्णस्यापि निर्देशात्कीलालपः पश्येत्यादावपि यण् स्यात् परत्वाद् आतो धातोः इति लोपो बाधको भविष्यति, लोपस्यावकाशः संयोगपूर्वाकारन्तो धातुः, अकारप्रश्लेषस्योतरत्रावकाशः - बभूव, बभूविथ, कीललपः पश्येत्यत्रोभयप्रसङ्गे परत्वादाकारलोपः, विप्रतिषेधे ह्यसिद्धत्वं नास्तीति ज्ञापयिष्यते । एवमपि कीलालपौ सर्वनामस्थाने भसंज्ञाया अभावादाकारलोपाप्रसङ्गाद्यण् स्यात् एवं तर्हि ओः सुपि इत्यत्र अचि श्नुधातु इत्यतः य्वोः इत्यनुवर्तिष्यते, ततश्चकारोकाक,मुजानिर्देशेऽपि य्वोः इत्यनेन विशेषणसामर्थ्यादुकारस्यैव यण् भविष्यति, न त्ववर्णस्येति सअमर्थ्यादवर्णग्रहणमुतरार्थमेव सम्पद्यते । तदेवं सत्यप्यस्मिन्योगे वुग्युटोः सिद्धत्वं न वक्तव्यमिति भाष्ये स्थितम् । ये त्वाहुः - भुवो वुग्लुङ्लिटोः इत्यत्र ओः इत्यनुवर्तनीयम्, उवर्णान्तस्य भुवो वुग्यथा स्यात् - बोभाव, बोभविथेति यङ्लुकि पिति लिटि इन्धिभवतिभ्यां च इत्यत्र श्तिपा निदेशादेसति कित्वे गुणवृद्ध्योः कृतयोरनुवर्णान्तस्य मा भूदित्येवमर्थम् । एवं च बभूव, बभूविथत्यत्रापि गुणवृद्ध्योः कृतयोः वुकोऽप्रसङ्गादनित्यात्वात् इन्धिभवतिभ्यां चेति कित्वमारमभणीयम् । तत्र च ङिदित्यधिकारात्कित्वङ्त्वियोरुभयोरपि विधानद् बभूवेत्यनिग्लक्षणापि वृद्धिर्न भवति । एष तएव च कित्वे श्तिपा निर्देशं वुकि च तदभावं कुर्वतः सूत्रकारस्याभिप्राय इति तेषां वुकः सिद्धत्वं वक्तव्यमेव । न च वत्करणं स्वाश्रयमपि यथा स्यादिति वुकः सिद्धत्वं लभ्यते, सत्यसति वा वतावतिदेशेष्वातिदेशिकाविरुद्धस्याश्रयकार्याविवर्तनांत्सिद्धत्वासिद्धत्वयोस्तु विरोधात्कथं वतिना सिद्धत्वप्रापथणम् कथं वा विषयविभागो लभ्येत स्थानिवदित्यादौ तु वतिमन्तरेण संज्ञा स्यादिति वत्करणमतिदेशार्थ सत् स्वाश्रयप्रतिपत्यर्थं वर्ण्यते एवं तर्हि श्नसोरल्लोपः इति तपरकरणाल्लिङ्गात् क्वचित्सिद्धत्वमनुमीयते, तद्धि आस्तामित्यादावाटो मा भूदिति । यदि चेदमसिद्धत्वं नित्यं स्यात्, आटोऽसिद्धत्वादेव लोपो न भविष्यतीति किं तपरकरणेन वत्करणं तु प्रतिपतिलाघवार्थमेव । तथा च षत्वतुकोरसिद्धः, गोतो णिद् इत्यादो वतिमन्तरेणापि परत्र परशब्दप्रयोगादेवातिदेश आश्रितः, तत्रापि चाविरुद्धं स्वाश्रयं भवत्येव । अत्राङ् मर्यादायां यदि स्याद्, भाधिकारीयस्यासिद्धत्वं न स्यात् । न चाभाद्ग्रहणं विषयार्थम्, असिद्धवद्भवतस्तु परिज्ञानमधिकारादेवेत्युक्तम् । अतो मर्यादार्थेऽप्याइङ् भाधिकारेऽप्यस्योपस्थानं न विहन्यते । तस्मादेवं वक्तव्यम् - भाधिकारीये कर्तव्ये भाधिकारीयस्य पूर्वस्यैव प्रकारणस्याप्यसिद्धत्वं नोक्तं स्यादिति सत्यमयमेव दोषः - तत्र सूर्येणैकदिगिति अणि कृते यस्येतिलोपः, ङीप्, पुनरणो यस्येतिलोपः, तात्रेदानीम् सूर्यतिष्य इति यलोप इष्यते - सौरी बलाकेति, स न प्राप्नोति भाधिकारीये यलोपे यस्येति लोपस्यासिद्धत्वाभावाद्यकारस्यानुपधात्वात् । स्थानिवद्भावश्च यलोपविधिं प्रति निषिद्धः तमिमं मर्यादापत्रे दोषं दृष्ट्वाऽऽह - आ भादित्ययमभिविधावाङिति । भाधिकारेऽप्यसिद्धवद्भवतीति । भाधिकारेऽपि तदवस्थितम्, तत्रापि कर्तव्ये तत्र त्यमन्यच्चासिद्धवद्भवतीत्यर्थः । एवं व्याख्याता वृत्तिः । कानि पुनरस्य योगस्य प्रयोजनानि इह पादोऽस्यास्तीति अत इनिठनौ, पादिकः, तौदकं वहतीत्यण् संज्ञायामुदभावः, उदवाहस्यापत्यमत इञ् औदवाहिः, सारणशब्दाभ्यां ल्युहन्ताभ्यामत इञ्, सारणिः, वारणिः, शातनपातनशब्दाभ्यां टित्वान्ङीप्, शातनी, पातनी स्रंसेर्ध्वंसेर्ण्यन्ताद्यकि स्रंस्यते, ध्वंस्यते, अत्र यस्येतिलोपे णिलोपे च कृते पद्भावः, ऊठ, नस्तद्धिते अल्लोपोऽनः, अनिदिताम् इत्येते विधयः प्राप्नवन्ति, लोपस्यासिध्दत्वान्न भविन्ति तन्न, अचः परस्मिन् इति स्थानिवद्भावेनाप्येतानि सिद्धानि । शा हौ इत्यत्र शास् हौ इति पदच्छेदः, शासः शासित्ययमादेशो भवति, किमर्थमिदम् इत्वबाधनार्थम् ततः हुझल्भ्यः इति धित्वम्, धि चेति सलोपः शाधीति सिद्धम्, धि सकारे सिचो लोप इति नाश्रीयते, चकाधीत्येव भवितव्यमिति निर्णेष्यते । एध्वसोरेद्धावभ्यासलोपश्च इत्यत्रापि श्नसोरल्लोपः इत्यतो विषयार्थमल्लोप इत्यनुवृतेरल्लोपविषयत्वं भवदकारस्यैव भविष्यति, ततः पूर्ववद् ह्रस्वसलोपयोरेधीति सिद्धम् । इह च कुरु इति क- उहि इति स्थिते हिलुक्च प्राप्नोति गुणश्च, परत्वाद् गुणए कृते अत उत्सार्वधातुके इत्युत्वं च प्राप्नोति हिलुक्च, नित्यत्वाद्धिलुकि कृतेऽपि सार्वधातुकग्रहणसामर्थ्यादभूतपूर्वेऽपि तस्मिन्नुत्वं सिद्धिम् । लुङ्लङ्लृङ्क्ष्वडुदातः इत्यत्रोपदेश इत्यनुवृतेः द्विलकारकनिर्द्देशाश्रयणाद्वा लुङदिषु लावस्थायामेवाडाटो भवत इति अकारि, ऐक्षीत्यत्र चिणो लुक् इति नित्ये लुकि कृतेऽडाटौ सिद्धो । एवं चासन्नित्यत्रापि प्रागेव श्नसोरल्लोपादाटि कृते तपरकरणाल्लोपाभावः । एवं चायन्नित्यत्रापि इणो यण् इति यणादेशात्प्रगाटि सति सिद्धमिष्टम् । यद्येवम्, ऐज्यत, औप्यतेति लङे लावस्थायां यजिवप्योरनजादित्वादटि सति आटश्चेति वृद्धिर्न स्यात् अत्र परिहारमाडजीदीनाम् इत्यत्र वत्र्यामः । अतो हेः इत्यत्र च उतश्च प्रत्ययात् इत्यतः प्रत्ययग्रहणाअपकर्षणाज्जहीत्यत्र हन्तेर्जभावे लुग्न भविष्यति । अतो लोपः इत्यत्र च अनुदातोपदेश इत्यत उपदेशग्रहणानुवृतेः उपदेशे यदकारान्तं तस्य लोपः इति गतः, गतवानित्यत्रानुनासिकलोपे कृते सम्प्रत्यकारान्तत्वेऽपि तदभावः । इहापि तर्हि न स्यात् - धिन्विकृण्व्योर च, धिनुतः नोपदेशग्रहणेनाङ्गमभिसम्बध्यते - यदङ्गमुपदेशकालेऽकारान्तमिति , अपि तु आर्द्धधातुकमभिसम्बध्यते - आर्द्धधातुकोपदेशे यदकारान्तमिति । एतदुक्तं भवति - यदार्द्धधातुकमुत्पन्नं न मुहूर्तमात्रप्यनकारान्तात्परं तत्र तदन्तस्य लोप इति धिनुत इत्यत्र चोप्रत्ययसन्नियोगेनाकारविधानादुप्रत्यय उत्पन्नो न कदाचिदपि अनतः पर इति । इह च मधमस्यास्तीति च्छन्दसीवनिपौ चेति वनिबन्ताच्छस्, श्वयुवमधोनाम् इति सम्प्रसारणम्, मघ - उन् - अस् इति स्थिते सम्प्रसारणमाक्षित्य यस्येति लोपः प्रप्तस्तस्यासिद्धत्वान्न भवति नात्रासिद्धत्वं लभ्यते, व्याश्रयत्वात् - शसि सम्प्रसारणम्, सम्प्रसारणे यस्येति लोपः । तस्मान्मधवच्छब्दो व्युत्पन्नं प्रातिपदिकम्, ततश्च तद्धिताभावादेव लोपाभावः । इह च कंस्विद् गर्भ प्रथमं दघ्र आपि इति । दधातेर्लिटि धा - इरे इति स्थिते नित्यत्वात् इरयोरे इत् छान्दसोः रेभावः, लिट्, च्छन्दसि सार्वधातुकमपीति शुप्, शापः श्लुः , द्विर्वजनम्, ईहल्यधोः इति प्रतिषेधातु श्नाभ्यस्तोरातः इति सिद्धो लोपः, घुव्यतिरिक्तेषु माप्रभृतिषु छान्दसत्वाद्यथादर्शनं भविष्यति । इह तर्हि कुर्वः, कुर्मः, कुर्यादिति, कृउ - वस् , कृउ - मस्, कृउ - यात् इति स्थिते नित्यं करोतेः ये चेति लोपश्च प्राप्नोति करोतेर्गुणश्च, तत्रोभयोनिंत्ययोः परत्वाद् गुणे कृते अत तौत्सार्वधातुके इत्युत्वं बाधित्वा नित्यत्वादुकारलोपे कृते सार्वधातुकपर उप्रत्यये विधीयमानभुत्वं न स्यात् , न च सार्वधातुक एव परतः शक्यमुत्वं विधातुम्, तथा हि सति कुरुत इत्यादौ विकरणव्यवायेऽपि न स्यात्, क्व तर्हि स्यात् यत्र विकरणस्य लोपः कुर्यात्, कुर्म इत्यादौ यद्यप्यत्रापि स्थानिवद्भावाव्द्यवधानं तथापि वचनादीदृशं व्यवधानमाश्रीयते, तस्माद्भावतीदं प्रयोजनम् न प्रयोजनम् सत्यप्युकारलोपे तस्य स्थानिवद्भावात्प्रत्ययलक्षणेन वा अत उत् इत्यत्र म्वोर्य इत्यनुवृतेर्वा उत्वं भविष्यति । इह तर्हि करिष्यते इति चिण्वदिटोऽसिद्धत्वाण्णिलोपपो भवति, अन्यथा अनिटीति प्रतिषेधः स्यात् तत्र चिण्वदिट् चेति चकारः समुच्चये - इट् च यच्चान्यत्प्राप्नोति, किं चान्यत्प्रप्नोति णिलोपः, अवश्यं चकारेणैव णिलोपः समुच्चेतव्यः, अन्यथा चिण्वदिटोऽसिद्धत्वेऽपि वलादिलक्षणेनेटा सेड्बुद्धिरेव णिलोपशास्त्रस्यास्मिन्विषये वर्तत इति लोपो नैव स्यात्, चिणो लुग् इत्यत्र च अनुदातोपदेश इत्यतः क्ङिद्ग्रहणमनुवर्त्य तस्य चिणः इति पञ्चम्या षष्ठ।लं प्रकल्पितायां चिण उतरस्य किङितो लुग्विधीयते, तेनाकारितरामित्यादौ तरपो न भविष्यति । इह तर्हि शुन इति श्वयुवमघोनाम इति सम्प्रसारणे सु - अन् अस् सम्प्रसारणपूर्वत्वं बाधित्वा अल्लोपोऽनः इत्यकारलोपे सति विभक्तेरनुदातनिवृत्तिस्वरः प्राप्नोति, कृतेऽस्मिन्योगे सम्प्रसारणस्यासिद्धत्वात् न संयोगाद्वमन्तात् इति प्रतिषेधादल्लोपेऽसति सम्प्रसारणपूर्वत्वे सति एकादेश उदातेनोदातः इत्याद्यौदातं पदं भवति । नात्राल्लोपे सत्युदातनिवृत्तिस्वरस्य प्रसङ्गः, न गोश्वन्साववर्ण इति प्रतिषेधात् । नैष उदातनिवृत्तिस्वरस्य प्रतिषेधः , कस्य तर्हि तृतीयादिस्वरस्य । स च श्वभ्याम्, श्वभिरिति हलादौ एविभक्तावुदातलोपाभावे चरितार्थः एवं तर्हि न लक्षणप्रतिषेधं शिष्मः, किं तर्हि येन केनचित्प्रप्तसय तृतीयादिस्वरस्य । यत्र तर्हि तृतीयादिर्नास्ति - शुनः पश्येति, तत्रोदातनिवृत्तिस्वरः प्राप्नोति एवं तर्हि तृतीयादिग्रहणमपि निवर्तिष्यते, अविशेषेण विभक्तिस्वरमात्रस्य प्रतिषेधः । थज्ञापकाद्वा सिद्धम्, यदयं श्वन्शब्दं गौरादिषु पठति, तज्झापयति - नोदातनिवृतस्वरः शुन्यवतरतीति । एवमपि विद्यते विशेषः, अल्लोपेन वा निवृतौ सत्यां पूर्वत्वेन वा अल्लोपे सति, बहवः श्वानो यस्यामिति बहुव्रीहेरुपधालोपित्वाद् अन उपधालोपिनः इति ङीपा भाव्यम् - बहुशुनीति, तदभावे तु बहुश्वेति भवति । गौरादिङीषोऽप्यनुपसर्जनाधिकारादत्राप्रसङ्गः । किञ्च - ज्ञापकात्सामान्येन वा निषेधादुदतनिवृत्तिस्वराभावेऽपि कथमाद्यौदातं पदं भवति, न ह्यल्लोपे सत्येकादेशास्वरोऽस्ति, ततश्च सर्वानुदातं पदं स्यात्, तदेतद्भवति प्रयोजनम् न प्रयोजनम्, अन्तरङ्गत्वात्पूर्वत्वं भवति । न च वार्णादाङ्गस्य बलीयस्त्वम् व्याश्रयत्वात् विभक्तिरल्लोपस्य निमितम्, पूर्वत्वस्य तु श्वन्शब्दाकारः । इह तहि भूयानिति भूबावस्यासिद्धत्वादोर्गुणो न भवेदिति । दीर्घोच्चारणसामर्थ्यान्न भविष्यति । अस्ति दीर्घोच्चारणे प्रयोजनम्, किम् भूम्नेत, निपातनादप्येतसिद्धमुतरपदाभूम्नीति । इदं च सूर्येणैकदिक् सौरी बलाकेति द्वयोरकारयोर्यस्येति लोपेऽपि वचनसामर्थ्याद् भूतपूर्वंगत्योपधाश्रयणाल्लोपो भविष्यति । तदेवं न सन्ति प्रयोजनानि, प्रतिपतिगौरवपरिहारार्थ सूत्रमारब्धम् ॥