6-4-36 हन्तेः जः असिद्धवत् अत्र आभात् नलोपः हौ
हन्तेः अङ्गस्य हौ जः
हन् -धातोः अङ्गस्य हि-प्रत्यये परे 'ज' आदेशः भवति ।
The 'हन्' धातु gets the 'ज' आदेश when followed by the हि-प्रत्यय of लोट्लकार.
हन्तेर्धातोर्ज इत्ययमादेशो भवति हौ परतः। ज॒हि शत्रू॒न् (ऋ० ३.४७.२)॥
हौ परे । आभीयतया जस्यासिद्धत्वाद्धेर्न लुक् । जहि । हनानि । हनाव । हनाम । अहन् । अहताम् । अघ्नन् । अहनम् ॥
हौ परे॥
'हन्' (हिंसागत्योः) इति अदादिगणस्य परस्मैपदी धातुः । लोट्-लकारस्य मध्यमपुरुषैकवचनस्य 'हि' प्रत्यये परे अस्य धातोः 'ज' इति आदेशः भवति । अनेकाल्त्वात् अयम् सर्वादेशरूपेण आगच्छति । प्रक्रिया इयम् - हन् + लोट् [<<लोट् च>> 3.3.162 इति लोट्] → हन् + सिप् [<<तिप्तस्..>> 3.4.78 इति मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः] → हन् + शप् + तिप् [<<कर्तरि शप्>> 3.1.68 इति शप्] → हन् + सिप् [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शपः लुक्] → हन् + हि [<<सेह्यर्पिच्च>> 3.4.87 इति 'हि' आदेशः] → ज+ हि [<<हन्तेर्जः>> 6.4.36 इति हि-प्रत्यये परे हन्-इत्यस्य ज-आदेशः] → जहि ज्ञातव्यम् - 'ज + हि' इत्यत्र <<अतो हेः>> 6.4.105 इत्यस्य प्रसक्तिः नास्ति यतः <<असिद्धवदत्राभात्>> 6.4.22 इत्यनेन हन्-इत्यस्य जकारादेशः <<अतो हेः>> 6.4.105 इत्यर्थमसिद्धः अस्ति ।
<<हन्तेर्जः>> - हन्तेर्जः ।शा हौ इत्यतो हौ इत्यनुवृत्तिमभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — हौ परे इति । कृते जादेशेअतो हे॑रिति हेर्लुकमाशङ्क्य आह — आभीयतयेति । जहीति । हतात् हतम् । हत । हनानीति । आटः पित्त्वेन हित्त्वाऽभावान्नोपधालोप इति भावः । अहन्निति । लङस्तिपिइतश्चे॑ति इकारलोपेसंयोगान्तस्ये॑ति तकारलोपः । न्याय्यत्वाद्धल्ङ्यादिलोपो वा । अहनमिति । अहन्व । अहन्म । झलादिपरकत्वाऽभावान्नोपधादीर्घः । विधिलिङि हन्यात् हन्यताम् इत्यादि । आशीर्लिङि वधादेशं वक्ष्यन्नाह-
श्तिपा निर्देशो यङ्लुग्निवृत्यर्थः । अनुदातेपदेशावनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति ॥ उपदिश्यन्ते इत्युपदेशाः, अनुदाताश्च ते उपदेशाश्च अनुदातोपदेशाः । उपदिश्यमानावस्थायामनुदाता इत्यर्थः । अनुनासिकेति पृथक्पदं लुप्तषष्ठीकमनुदातोपदेशानां विशेषणम्, तेन तदन्तविधिः । यमिरमीत्यादि । यमिर्यमन्तेषु इति श्लोको वक्ष्यते । वनतेरिति । वन षण सम्भक्तौ । सनोतेरात्वं वक्ष्यतीति । जनसनखनां सञ्झलोः इत्यनेन । अतत, अतथा इति । तनादिभ्यस्तथासोः इति सिचो लुक् । इह च यथा स्यादिति । अन्यथा क्तिनि नित्स्वरेण सम्प्रत्युदातत्वान्न स्यात् । इह च मा भूदिति । अन्यथा प्रत्ययस्वरे कृते शेषनिधाते सम्प्रत्यनुदातत्वाच्छान्त इत्यादावपि स्यात् ॥