6-4-27 घञि च भावकरणयोः असिद्धवत् अत्र आभात् नलोपः उपधायाः रञ्जेः
रञ्जेः अङ्गस्य भावकरणयोः घञि नलोपः
रञ्ज्-धातोः अङ्गस्य उपधा-नकारस्य घञ्-प्रत्यये परे भावे तथा करणे लोपः भवति ।
When followed by the घञ्-प्रत्यय in the meaning of भाव or करण the उपधा-नकार of the verb root रञ्ज् is removed.
भावकरणवाचिनि घञि परतो रञ्जेरुपधाया नकारस्य लोपो भवति। भावे — आश्चर्यो रागः। विचित्रो रागः। करणे — रज्यतेऽनेनेति रागः। भावकरणयोरिति किम्? रजन्ति तस्मिन्निति रङ्गः॥
रञ्जेर्नलोपः स्यात् । रागः । अनयोः किम् । रजत्यस्मिन् रङ्गः । प्रास्यते इति प्रासः । सञ्ज्ञायामिति प्रायिकम् । को भवता लाभो लब्धः । इत उत्तरं भावे अकर्तरि च कारके-<{SK3188}> इति कृत्यल्युटो बहुलं-<{SK2841}> इति यावत् द्वयमप्यनुवर्तते ॥
रञ्जेर्नलोपः स्यात्। रागः। अनयोः किम्? रज्यत्यस्मिन्निति रङ्गः॥
घञ्-इति कश्चन कृत्-प्रत्ययः । धातोः परः अयं प्रत्ययः भावे, करणे तथा अधिकरणे विधीयते । एतेभ्यः भावकरणयोः अर्थयोः रन्ज्-धातोः उपधा-नकारस्य वर्तमानसूत्रेण लोपः भवति । यथा - 1. रन्ज् + घञ् [<<भावे>> 3.3.18 इत्यनेन क्रियायाः अर्थे घञ्-प्रत्ययः] → रन्ज् + अ [घकारञकारयोः इत्संज्ञा, लोपः] → रज् + अ [ <<घञि च भावकरणयोः>> 6.4.27 इति उपधा-नकारस्य लोपः] → राज् + अ [<<अचो ञ्णिति>> 7.2.115 इति उपधा-अकारस्य वृद्धिः] → राग् + अ [<<चजोः कुः घिन्ण्यतोः>> 7.3.52 इति घित्-प्रत्यये परे जकारस्य गकारः] → रागः । 2. रन्ज् + घञ् [<<हलश्च>> 3.3.121 इत्यनेन 'रज्यते अनेन इति' इत्यस्मिन् अर्थे करणे घञ्-प्रत्ययः] → रन्ज् + अ [घकारञकारयोः इत्संज्ञा, लोपः] → रज् + अ [ <<घञि च भावकरणयोः>> 6.4.27 इति उपधा-नकारस्य लोपः] → राज् + अ [<<अचो ञ्णिति>> 7.2.115 इति उपधा-अकारस्य वृद्धिः] → राग् + अ [<<चजोः कुः घिन्ण्यतोः>> 7.3.52 इति घित्-प्रत्यये परे जकारस्य गकारः] → रागः । अधिकरणस्य अर्थे विहिते घञ्-प्रत्यये परे अयं लोपः न भवति । यथा, 'रजन्ति तस्मिन् इति' इत्यत्रापि <<हलश्च>> 3.3.121 इत्यनेन अधिकरणे घञ्-प्रत्ययः भवति, परन्तु अत्र 'रङ्गः' इति अन्तिमम् रूपम् जायते । अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः नलोपः अपि न भवति ।
राग इति । हरश्चेति करणाधिकरणयोर्घञ्, चजोः कु धिण्ण्यतोः इति कुत्वम् ॥