भस्य

6-4-129 भस्य असिद्धवत् अत्र आभात्

Sampurna sutra

Up

भस्य

Neelesh Sanskrit Brief

Up

अधिकारसूत्रमिदम् । इतः आरभ्य आ-षष्ठाध्याय-परिसमाप्तेः यत्किमपि उच्यते तत् 'भ'संज्ञकस्य भवति ।

Neelesh English Brief

Up

All the rules starting from this sutra, till the end of the sixth chapter are being told for a भसंज्ञक.

Kashika

Up

भस्येत्ययमधिकारः, आ अध्यायपरिसमाप्तेः। यदित ऊर्ध्वमनुक्रमिष्यामो भस्येत्येवं तद् वेदितव्यम्। वक्ष्यति — <<पादःपत्>> ६.४.१३० — द्विपदः पश्य। द्विपदा कृतम्। भस्येति किम्? द्विपादौ, द्विपादः॥

Siddhanta Kaumudi

Up

अधिकारोऽयम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'भ' इति व्याकरणविशिष्टा संज्ञा अस्ति । <<यचि भम्>> 1.4.18, <<तसौ मत्वर्थे>> 1.4.19 तथा <<अयस्मयादीनि च्छन्दसि>> 1.4.20 एतैः सूत्रैः अङ्गस्य भसंज्ञा विधीयते । एतादृशस्य भसंज्ञकस्य अङ्गस्य कार्यमस्मिन् अधिकारे उक्तमस्ति । अस्य अधिकारस्य व्याप्तिः षष्ठाध्यायस्य समाप्तिपर्यन्तमस्ति । इत्युक्ते, षष्ठाध्यायस्य अन्तिमसूत्रं यावत् उक्तानि कार्याणि 'भ'संज्ञकस्य अङ्गस्य विषये एव विधीयन्ते ।

Balamanorama

Up

Padamanjari

Up