ओर्गुणः

6-4-146 ओः गुणः असिद्धवत् अत्र आभात् भस्य तद्धिते

Sampurna sutra

Up

ओः भस्य तद्धिते गुणः

Neelesh Sanskrit Brief

Up

उवर्णान्तस्य भसंज्ञकस्य तद्धितप्रत्यये परे गुणादेशः भवति ।

Neelesh English Brief

Up

An उवर्णान्त भसंज्ञक undergoes a गुणादेश when followed by a तद्धितप्रत्यय.

Kashika

Up

उवर्णान्तस्य भस्य गुणो भवति तद्धिते परतः। बाभ्रव्यः। माण्डव्यः। शङ्कव्यं दारु। पिचव्यः कार्पासः। कमण्डलव्या मृत्तिका। परशव्यमयः। औपगवः। कापटवः। ओरोदिति वक्त व्ये गुणग्रहणं संज्ञापूर्वको विधिरनित्यः यथा स्यात्। तेन स्वायंभुव इति सिद्धं भवति॥

Siddhanta Kaumudi

Up

उवर्णान्तस्य भस्य गुणः स्यात्तद्धिते । अवादेशः । बाहूबाहवि । ओरोदिति वक्तव्ये गुणोक्तिः [(परिभाषा - ) संज्ञापूर्वको विधिरनित्यः] इति ज्ञापयितुम् । तेन स्वायम्भुवमित्यादि सिद्धम् । सरूपे इति किम् । हलेन मूसलेन ॥

Laghu Siddhanta Kaumudi

Up

उवर्णान्तस्य भस्य गुणस्तद्धिते । उपगोरपत्यमौपगवः । आश्वपतः । दैत्यः । औत्सः । स्त्रैणः । पौंस्रः ॥

Neelesh Sanskrit Detailed

Up

अस्मिन् सूत्रे प्रयुक्तः 'ओः' इति शब्दः 'उ' इत्यस्य षष्ठ्येकवचनमस्ति । अनेन सूत्रेण उवर्णान्त-भसंज्ञकस्य तद्धितप्रत्यये परे गुणादेशः भवति । यथा - 1. बभ्रु + यञ् [<<मधुबभ्र्वोर्ब्राह्मणकौशिकयोः>> 4.1.106 इति यञ्-प्रत्ययः । यकारादौ प्रत्यये परे अङ्गस्य <<यचि भम्>> 1.4.18 इति भसंज्ञा] → बाभ्रु + यञ् [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः ] → बाभ्रो + यञ् [<<ओर्गुणः>> 6.4.146 इत्यनेन उकारस्य गुणः ओकारः] → बाभ्रव् + य [<<वान्तो यि प्रत्यये>> 6.1.79 इति ओकारस्य अव्-आदेशः] → बाभ्रव्य 2. उपगु + अण् [<<तस्यापत्यम्>> 4.1.92 इति अण्-प्रत्ययः । अकारादौ प्रत्यये परे अङ्गस्य <<यचि भम्>> 1.4.18 इति भसंज्ञा] → औपगु अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → औपगो अ [<<ओर्गुणः>> 6.4.146 इत्यनेन उकारस्य गुणः ओकारः] → औपगव [<<एचोऽयवायावः>> 6.1.78 इति अव्-आदेशः] ज्ञातव्यम् - 1. <<संज्ञापूर्वकः विधिः अनित्यः>> इति काचन परिभाषा अस्ति । अस्याः परिभाषायाः अर्थः अयम् - यदि कस्मिंश्चित् सूत्रे संज्ञानिर्देशं कृत्वा कश्चन विधिः उक्तः अस्ति, तर्हि केषुचन स्थलेषु तस्य सूत्रस्य अवकाशे प्राप्ते अपि तस्य सूत्रस्य प्रयोगं विना एव रूपाणि सिद्ध्यन्ति । एतादृशाः विधयः, येषामवकाशे प्राप्ते अपि प्रयोगः कुत्रचित् न क्रियते, ते 'अनित्याः' सन्ति इत्युच्यते । वर्तमानसूत्रे 'गुण' संज्ञायाः निर्देशं कृत्वा विधिः उक्तः अस्ति, अतः वर्तमानसूत्रेण उक्तः विधिः अपि अनित्यः अस्ति । 'स्वायम्भुव' शब्दस्य प्रक्रियायाम् एतत् स्पष्टम् भवति - → स्वयम्भू + अण् [<<तस्यापत्यम्>> 4.1.92 इति अण्-प्रत्ययः । अकारादौ प्रत्यये परे अङ्गस्य <<यचि भम्>> 1.4.18 इति भसंज्ञा] → स्वायम्भू + अण् [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → स्वायम्भुवङ् + अ [अत्र <<ओर्गुणः>> 6.4.146 इत्यस्य प्रसक्तिः अस्ति । तथापि <<संज्ञापूर्वकः विधिः अनित्यः>> अनया परिभाषया अत्र अयं गुणादेशः न प्रवर्तते । तस्य अभावे <<अचिश्नुधातुभ्रुवाम्...>> 6.4.77 इत्यनेन उवङ्-आदेशः विधीयते] → स्वायम्भुव 2. ढकारादि-प्रत्यये परे वर्तमानसूत्रेण गुणे प्राप्ते अपवादत्वेन <<ढे लोपोऽकद्र्वाः>> 6.4.147 इत्यनेन अङ्गस्य अन्तिमवर्णस्य लोपः भवति ।

Balamanorama

Up

Padamanjari

Up

बाभ्रव्यादौ गोत्रे यञ् । शङ्कव्यादौ प्राक्क्रीतीयः उगवादिभ्यो यत् । औपगवादावपत्येऽण् । संज्ञापूर्वको विधिरित्यादि । भाष्येऽनुक्तमपि प्रयोगो बाहुल्यादुक्तम् । तद्धितैत्येव - वोतो गुणवचनात्, पट्वी ॥