7-2-67 वसु एकाजाद्घसाम् आर्धधातुकस्य इट् वलादेः
कृतद्विर्वचनानामेकाचां धातूनाम्, आकारान्तानां घसेश्च वसाविडागमो भवति। आदिवान्। आशिवान्। पेचिवान्। शेकिवान्। धात्वभ्यासयोरेकादेशे कृत एत्वाभ्यासलोपयोश्च कृतयोः कृतद्विर्वचना एत एकाचो भवन्ति। आत् — ययिवान्। तस्थिवान्। घस् — जक्षिवान्। सिद्धे सत्यारम्भो नियमार्थः — एकाजाद्घसामेव वसाविडागमो भवति नान्येषाम्। बिभिद्वान्। चिच्छिद्वान्। बभूवान्। शिश्रिवान्। क्रादिनियमात् प्रतिषेधाभावात् च य इट् प्रसक्तः स नियम्यते। आद्ग्रहणमनेकाज्ग्रहणार्थम्। द्विर्वचने हि कृत इटि हि सत्यातो लोपेन भवितव्यम्। द्ररिद्रातेस्तु <<कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थम्>> (३.१.३५ वा०) इत्यामा भवितव्यम्। दरिद्रांचकार। अथाप्याम् न क्रियते तथापि च दरिद्रातेरार्धधातुके लोपः सिद्धश्च प्रत्ययविधौ (६.४.११४ वा०) इति प्रागेव प्रत्ययोत्पत्तेराकारे लुप्त इडागमस्य निमित्तं विहतमिति नेडागमो भवति, ददरिद्र्वानिति भवितव्यम्। घसेरपि यदि ग्रहणमिह न क्रियते तदा द्विर्वचनात् परत्वाद् <<घसिभसोर्हलि च>> ६.४.१०० इत्युपधालोपे कृते द्विर्वचनमेव न स्याद्, अनच्कत्वाद्। इह तु घसिग्रहणाद् उपधालोपमपि परत्वादिडागमो बाधते। तत्र कृते <<गमहनजनखनघसाम्०>> ६.४.९८ इत्युपधालोपः। स च <<द्विर्वचनेऽचि>> १.१.५९ इति द्विर्वचने कर्तव्ये स्थानिवद् भवति, तेन जक्षिवानिति सिध्यति॥
कृतद्विर्वचनानामेकाचामादन्तानां घसेश्च वसोरिट् नान्येषाम् । एकाच् । आदिवान् । आरिवान् । आत् । ददिवान् । जक्षिवान् । एषां किम् । बभूवान् ॥
<<वस्वेकाजाद्घसाम्>> - वस्वे । 'वसु' इत्यविभक्तिको निर्देशः । तथा च व्याख्यास्यति — वसोरिति । नित्यत्वाद्द्वित्वे कृते एकाच्त्वमेव नेति कथमिट् स्यादित्यत आह — कृतद्विर्वचनानामेकाचामिति । कृतेऽपि द्वित्वे एकाच एव ये अवशिष्य्नते तेषामित्यर्थः ।नेड्वशि कृती॑ति निषेधं बाधित्वा क्रादिनियमात्सर्वत्र प्राप्तस्य इटो नियमोऽयमित्याह — नान्येषामिति । आदिवानिति । अद भक्षणे । द्वित्वहलादिसेषाऽभ्यासदीर्घसवर्णदीर्घेषु कृतेषु कृतद्वित्वोऽप्यमेकाजेवेति इट् । आरिवानिति । 'ऋ गतौ'ऋच्छत्यृता॑मिति गुणे कृते पूर्वत्कृतेषु अयमेकाच् । दादिवानिति । डु दाञ् दाने । कृते द्वित्वे नाऽयमेकाच् । इण्निमित्तश्चाऽऽतो लोपो नाऽसति तस्मिन् भवतीति अनेकाजर्थमाद्ग्रहणम् । जक्षिवानिति ।लिटन्यतरस्या॑मित्यदेर्घस्लादेशः । द्वित्वे कृते नायमेकाजिति घसिग्रहणम् ।
वसु इत्यविभक्तिको निर्द्देशः । वसोरित्यर्थः । कृतद्विर्वचनानामिति । कथं पुनरविशेषोक्तावेष विशेषो लभ्यते एकाज्ग्रहणसामर्थ्यात् । न हि कश्चिचदकृते द्विर्वचनेनैकाजस्ति यन्निवृत्यर्थमेकाज्ग्रहणं स्यात् । चिरिजिरिचकाशिभ्यः कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थम् इत्यामा भवितव्यमिति वसोरसम्भवः । ऊर्णोतेस्तु णुवद्भावादेकाज्ग्रहणोनानिवःतिः । ननु च जागर्तिरस्ति उषविदजागृभ्योऽन्यतरस्याम् इत्यामो विकल्पितत्वात् वेदेऽपि - जागृवांसो अनुग्मन्निति द्विर्वचनप्रकरकणे च्छन्दसि वेति वक्तव्यम् इति द्विर्वचनाभावः, नैकमुदाहरणमेकाज्गरहणं प्रयोजयति । यद्येतावत्प्रयोजनं स्यात् जागर्तेर्न इत्येव ब्रूयात्, लधीयसी हि साक्षात्प्रतिषेधप्रतिपतिः । यदि वा न्यायसिद्धोऽयमर्थः । तथा हि द्विर्वचनस्यावकाशः - पंपाच, इटोऽवकाशः यत्र कृते द्विर्वचन एकाच् - पेचिवान्, आदिवान् बिभिद्वानित्यादौ तूभयप्रसङ्गे नित्यत्वाद् द्विर्वचनम् । कादिनियमात्प्राप्त इति । नेड्वशि कृतीति प्रत्ययाश्रयस्य प्रतिषेधस्य सर्वत्र भावात्कादिनियमानेव सर्वत्र वसोरिटः प्राप्तिः । आद्ग्रहणमनेकाजर्थमिति । ननु द्विर्वचने आकारलोपे सति तेषामप्येकाच्त्वादेव सिद्धमत आह - द्विर्वचने हीति । इण्निमित आकारलोपो नासति तस्मिन्भवति, ततश्चानेकाच्त्वमित्यर्थः । अथाप्याम्न क्रियत इति । आत औ णलः इत्योकारे विधातव्ये औकारविधानेन ज्ञापितमेतत् - दरिद्रातेरनित्य आमिति । तेनायमभ्युपगमः ददरिद्रवानिति, नेड्वशि कृतीति प्रतिषेध एव तत्र भवति । अथ घसिग्रहणं किमर्थम्, यावता द्विर्वचने कृते घसिभसोर्हलि च इत्युपधालोपे सत्येकाच्त्वादेव सिद्धमत आह - घसेरपीति । परत्वादिति । नित्यत्वाच्चेत्यापि द्रष्टव्यम् तस्य हल्यपि विधानात् । अनष्कत्वादिति । स्थानिवद्भावोषऽपि नास्ति, हल्निमितत्वादुपधालोपस्य । क्रियमाणे तु घसिग्रहणे नायं दोष इत्याह - क्रियमाणे त्विति ॥