घ्वसोरेद्धावभ्यासलोपश्च

6-4-119 घ्वसोः एत् हौ अभ्यासलोपः च असिद्धवत् अत्र आभात् क्ङिति सार्वधातुके

Sampurna sutra

Up

घु-असोः हौ एत्, अभ्यासलोपः च

Neelesh Sanskrit Brief

Up

'हि' प्रत्यये परे घु-संज्ञकधातूनामङ्गस्य तथा अस्-धातोः एकारादेशः भवति, तथा अभ्यासस्य लोपः भवति ।

Neelesh English Brief

Up

The घु-संज्ञक verb roots and the verb root अस् get an एकार as आदेश when followed by the 'हि' प्रत्यय. Also, अभ्यास, if present, is removed.

Kashika

Up

घुसंज्ञकानामङ्गानामस्तेश्च एकारादेशो भवति हौ परतोऽभ्यासलोपश्च। देहि। धेहि। अस्तेः — <<श्नसोरल्लोपः>> ६.४.१११ इत्यकारलोपः। एधि। शिदयं लोपः। तेन सर्वस्याभ्यासस्य भवति॥

Siddhanta Kaumudi

Up

घोरस्तेश्चैत्वं स्याद्धौ परेऽभ्यासलोपश्च । आभीयत्वेनैत्वास्यासिद्धत्वाद्धेर्धिः । श्नसोरल्लोपः-<{SK2469}>इत्यल्लोपः । एधि । तातङ्पक्षे एत्वं न । परेण तातङा बाधात् । [(परिभाषा - ) सकृद्गताविति न्यायात्] । स्तात् । स्तम् । स्त । असानि । असाव । असाम । अस्तिसिच-<{SK2225}>इतीट् । आसीत् । श्नसो-<{SK2469}> इत्यल्लोपस्याभीयत्वेनासिद्धत्वादाट् । आस्ताम् । आसन् । स्यात् । भूयात् । अभूत् । सिचोऽस्तेश्च विद्यमानत्वेन विशेषणादीण्न ॥

Laghu Siddhanta Kaumudi

Up

घोरस्तेश्च एत्त्वं स्याद्धौ परे अभ्यासलोपश्च। एत्त्वस्यासिद्धत्वाद्धेर्धिः। श्नसोरित्यल्लोपः। तातङ्पक्षे एत्त्वं न, परेण तातङा बाधात्। एधि, स्तात्। स्तम्। स्त। असानि। असाव। असाम। आसीत्। आस्ताम्। आसन्। स्यात्। स्याताम्। स्युः। भूयात्। अभूत्। अभविष्यत्॥ {$ {! 18 इण् !} गतौ $} (धातुपाठे <{02.0040}>) ॥ एति। इतः॥

Neelesh Sanskrit Detailed

Up

किम् नाम घु? <<दाधा घ्वदाप्>> 1.1.20 इत्यनेन डुदाञ् (दाने), दाण् (दाने), दो (अवखण्डने), देङ् (रक्षणे), डुधाञ् (धारणपोषणयोः), तथा धेट् (पाने) एतेषाम् षण्णाम् 'घु'संज्ञा भवति । एतेषाम् तथा अदादिगणस्य अस्-धातोः लोट्लकारस्य हि-प्रत्यये परे एकारादेशः भवति । तथा च, डुदाञ् (दाने) तथा डुधाञ् (धारणपोषणयोः) एतौ जुहोत्यादिगणस्य धातू स्तः, अतः एतेषां विषये प्राप्तस्य अभ्यासस्य अपि अनेन सूत्रेण लोपः भवति । यथा - 1. दा-धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया - दा + लोट् [<<लोट् च>> 3.3.162 इति लोट्] → दा + सिप् [<<तिप्तस्..>> 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः] → दा + शप् + सिप् [<<कर्तरि शप्>> 3.1.68 इति शप्] → दा + सिप् [<<जुहित्यादिभ्यः श्लुः>> 2.4.75 इति श्लुः] → दा दा + सिप् [<<श्लौ>> 6.1.10 इति द्वित्वम्] → द दा + सिप् [<<ह्रस्वः>> 7.4.59 इति ह्रस्वः] → द दा + हि [<<सेह्यर्पिच्च>> 3.4.87 इति सि-इत्यस्य अपित् हि-आदेशः ] → देहि [<<घ्वसोरेद्धावभ्यासलोपश्च>> 6.4.119 इत्यनेन आकारस्य एकारादेशः, तथा अभ्यासस्य लोपः] 2. अस्-धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया - अस् + लोट् [<<लोट् च>> 3.3.162 इति लोट्] → अस् + सिप् [<<तिप्तस्..>> 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः] → अस् + शप् + सि [<<कर्तरि शप्>> 3.1.68 इति शप्] → अस् + सि [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शपः लुक्] → अस् + हि [<<सेह्यर्पिच्च>> 3.4.87 इति सिप्-प्रत्ययस्य अपित् हि-आदेशः । <<सार्वधातुकमपित्>> 1.2.4 इति ङित्वद्भावः] → अ ए + हि [<<घ्वसोरेद्धावभ्यासलोपश्च>> 6.4.119 इति अस्-धातोः सकारस्य एकारः] → ए + हि [<<श्नसोरल्लोपः>> 6.4.111 इति सार्वधातुके ङित्-प्रत्यये परे अकारलोपः] → ए + धि [<<असिद्धवदत्राभात्>> 6.4.22 इत्यस्मिन् अधिकारे <<घ्वसोरेद्धावभ्यासलोपश्च>> 6.4.119 इत्यनेन कृतः एकारादेशः <<हुझल्भ्यो हेर्धिः>> 6.4.101 इत्यनेन न दृश्यते । अतः <<हुझल्भ्यो हेर्धिः>> 6.4.101 इत्यस्य कृते 'स् + हि' इत्येव स्थितिः अस्ति । अस्याम् स्थितौ झल्-वर्णात् परस्य हि-इत्यस्य अनेन सूत्रेण धि-आदेशः भवति ।] → एधि

Balamanorama

Up

Padamanjari

Up