सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्

3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यः णिच् प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सत्यादिभ्यश्चूर्णपर्यन्तेभ्यश्चुरादिभ्यश्च णिच् प्रत्ययो भवति। सत्यमाचष्टे, सत्यापयति॥ अर्थवेदसत्यानामापुग् वक्तव्यः॥ अर्थमाचष्टे, अर्थापयति। वेदापयति। आपुग्वचनसामर्थ्याट्टिलोपो न भवति। पाशाद्विमोचने — विपाशयति। रूपाद् दर्शने — निरूपयति। वीणयोपगायति, उपवीणयति। तूलेनानुकुष्णाति, अनुतूलयति। श्लोकैरुपस्तौति, उपश्लोकयति। सेनयाभियाति, अभिषेणयति। लोमान्यनुमार्ष्टि, अनुलोमयति। त्वचं गृह्णाति, त्वचयति। अकारान्तस्त्वचशब्दः। वर्मणा संनह्यति, संवर्मयति। वर्णं गृह्णाति, वर्णयति। चूर्णैरवध्वंसयति, अवचूर्णयति। चुरादिभ्यः स्वार्थे — चोरयति। चिन्तयति। स्वाभाविकत्वादर्थाभिधानस्य यथायथं प्रत्ययार्था निर्दिश्यन्ते॥

Siddhanta Kaumudi

Up

{$ {!1534 चुर!} स्तेये$} ॥ एभ्यो णिच् स्यात् । चूर्णान्तेभ्यः । (गणसूत्रम् -) प्रातिपदिकाद्धात्वर्थे इत्येव सिद्धे तेषामिह ग्रहणं प्रपञ्चार्थम् । चुरादिभ्यस्तु स्वार्थे । पुगन्त-<{SK2189}> इति गुणः । सनाद्यन्ताः - <{SK2304}> इति धातुत्वम् । तिप्शबादि । गुणायादेशौ । चोरयति ॥

Laghu Siddhanta Kaumudi

Up

॥ {$ {! 1 चुर !} स्तेये $} (धातुपाठे <{10.0001}>) ॥ एभ्यो णिच् स्यात् । चूर्णान्तेभ्यः <!प्रातिपदिकाद्धात्वर्थे...!> इत्येव सिद्धे तेषामिह ग्रहणं प्रपञ्चार्थम् । चुरादिभ्यस्तु स्वार्थे । पुगन्तेति गुणः । <<सनाद्यन्ता धातवः>> 3.1.32 इति धातुत्वम् । तिप्शबादि । गुणायादेशौ । चोरयति ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्ण- चूर्णचुरादिभ्यो णिच्>> - सत्याप । सत्याप पाश रूप वीणा तूल श्लोक सेना लोमन् त्वच वर्मन् वर्ण चूर्ण चुरादि — एषां द्वन्द्वात्पञ्चमी । तदाह - एभ्यो णिच्स्यादिति । कस्मिन्नर्थे इत्याकाङ्क्षायामाह — चूर्णान्तेभ्य इति । सत्यादिभ्यश्चूर्णान्तेभ्यो द्वादशभ्यः करोत्याचष्टे इत्याद्यथप्रातिपदिकाद्धात्वर्थे बहुल॑मिति वक्ष्यमाणेन सिद्धमेवाऽर्थनिर्देशनमित्यर्थः । ननु तेनैव सिद्धत्वादिह चूर्णान्तानुक्रमणं व्य्रथमित्यत आह - तेषामिह ग्रहणं प्रपञ्चार्थमिति । नच तेभ्यः स्वार्थे एव णिज्विधिरस्त्विति वाच्यं,सत्यस्यतु कृञ्यापुङ्नपात्यते । सत्यं करोति सत्यापयती॑त्यादिभाष्यविरोधादिति भावः । नामधातुप्रकरणे सत्यादिचूर्णान्तानामुदाहरणानि मूल एव स्फुटीभविष्यन्ति । चुरादिभ्यस्तु स्वार्थे इति । अर्थान्तरस्याऽनिर्देशादिति भावः । अत्र 'धातोरेकाचः' इत्यतो धातोरित्यनुवर्तते । चुरादिभ्यो धातुभ्यो णिजिति फलितम् । ततश्च णिच आर्धधातुकत्वं सिध्यति । अन्यथा धातोरिति विहितत्वाऽभावादार्धधातुकत्वं न स्यादिति बोध्यम् । तदाह — पुगन्तेति गुण इति । णिचि कृते चुर् इ इति स्थिते णिच आर्धधातुकत्वात्तस्मिन् चकारादुकारस्यपुगन्तलघूपधस्ये॑ति गुण इत्यर्थः ।

Padamanjari

Up

सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवमवर्णचूर्णचुरादिभ्यो णिच्॥ स्त्यापेत्यकार उच्चारणार्थः। सत्यमाचष्ट इति। ननु भाष्ये सत्यस्य कृञ्यापुक्, सत्यशब्दात्कृञि करोत्यर्थे णिज्भवति आपुक्च, सत्यं करोति सत्यापयतीत्युक्तम्? सत्यम्; कृञ्ग्रहणमनार्षम्, प्रदर्शनार्थो वा करोतिर्द्रष्टव्य इति मन्यते। आपुग्वक्तव्य इति। आपुग्वचनसामर्थ्याट्टिलोपो न भवति। क्वचितु वृतावेवायं ग्रन्थः पठ।ल्ते। अथ कथं पुनः शब्दापयेदिति? छन्दोवद्दषयः कुर्वन्ति। एतेन प्रक्षालापयेदिति गृह्यप्रयोगो व्याख्यातः। पाशाद्विमोचने इति। प्रायिकोऽयमर्थनिर्देशः, अन्यत्रापि भवति; अन्यथा विपाशतीति विशब्दस्य प्रयोगो न स्यात्, विशब्दविशिष्टस्यैव मोचनस्य ण्यर्थत्वात्, यथाचारक्यच्याङ्ः प्रयोगो न भवति। एवमुपवीणयदीत्यादावपि द्रष्टव्यम्। तूलमुतृणाग्रं तेनानुकृष्णाति अनुघट्टयतीत्यर्थः। अनुगृहणातीति तु पाठाअ न समीचीनोऽर्थः। अभिषेणयतीति। ठुपसर्गात् सुनोतिऽ इत्यादिना षत्वम्। अकारान्तस्त्वचशब्द इति।'त्वच संवरणे' इत्यस्माद्धातोः'पुंसि संज्ञायाम्' इति घः। अवघ्वंसयतीति। विकिरतीत्यर्थः।'प्रातिपदिकाद्धात्वर्थे' इत्येव सिद्धे सत्यस्यापुग्विधानार्थ वचनमन्येषां प्रपञ्चार्थम्। भालिन्यो ह्युपश्लोकयन्तीत्यादौ सापेक्षेभ्यो यथा स्यादित्येवमर्थ वा। कथं पुनर्विमोचनादिरर्थोऽनिर्दिष्टो लभ्यत इत्यत आह - स्वाभाविकत्वादिति। प्रत्ययार्थो निर्दिश्यत इति। सूत्रकारेणानिर्दिष्टोऽपि प्रत्ययार्थो व्याख्याकारैर्निर्दिश्यत इत्यर्थः॥