चजोः कु घिण्ण्यतोः

7-3-52 चजोः कु घिण्यतोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

चकाराजकारयोः कवर्गादेशो भवति घिति ण्यति च प्रत्यये परतः। घिति — पाकः। त्यागः। रागः। ण्यति — पाक्यम्। वाक्यम्। रेक्यम्॥

Siddhanta Kaumudi

Up

चस्य जस्य च कुत्वं स्यात् घिति ण्यति च प्रत्यये परे ॥<!निष्ठायामनिट इति वक्तव्यम् !> (वार्तिकम्) ॥ तेनेह न । गर्ज्यम् । मृजेर्वृद्धिः । मार्ग्यः <{SK2473}> ॥

Laghu Siddhanta Kaumudi

Up

चजोः कुत्वं स्यात् घिति ण्यति च परे॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<चजोः कु घिण्ण्यतोः>> - चजोः कु । 'कु' इत्यविभक्तिको निर्देशः । चजोर्घिण्ण्यतोश्च यथासङ्ख्यं तु न,तेन रक्तं रागा॑दित घञि जस्य कुत्वनिर्देशात् ।

Padamanjari

Up

पाक इत्यादौ भावे घञ् । पाक्यमित्यादौ कर्मणि ऋहलोर्ण्यत् । यथासंख्यमत्र न भवति - घिति चकारस्य, ण्यति जकारस्येति; 'भुजन्युब्जौ पाण्युपतापयोः' ,'प्रयाजानुयाजौ यज्ञाङ्गे' ,'वचोऽशब्दसंज्ञायाम्' इत्यादेर्लिङ्गात् । क्वचित्तु पठ्यते - यथासंख्यमत्र नेष्यते, तेन रक्तं रागादिति लिङ्गादिति ॥