6-4-88 भुवः वुक् लुङ् लिटोः असिद्धवत् अत्र आभात् अचि
भुवः लुङ्-लिटोः अचि वुक्
भू-धातोः लुङ्लकारस्य लिट्लकारस्य च अजादि-प्रत्यये परे 'वुक्' आगमः भवति ।
The verb root 'भू' gets a वुक् आगम when followed by an अजादि-प्रत्यय of लुङ्लकार or लिट्लकार.
भुवो वुगागमो भवति लुङि लिटि चाजादौ परतः। अभूवन्। अभूवम्। लिटि — बभूव, बभूवतुः, बभूवुः॥
भुवो वुगागमः स्यात् लुङ्लिटोरचि । नित्यत्वाद्वुग्गुणवृद्धी बाधते ॥
भुवो वुगागमः स्यात् लुङ्लिटोरचि॥
'भू' सत्तायाम् इति भ्वादिगणस्य धातुः । अस्य धातोः लुङ्लकारस्य लिट्लकारस्य च प्रक्रियासु अजादि-प्रत्यये परे अनेन सूत्रेण 'वुक्' इति आगमः भवति । 'वुक्' इत्यत्र ककारः इत्संज्ञकः अस्ति, उकारश्च उच्चारणार्थः अस्ति । कित्वात् अयमागमः <<आद्यन्तौ टकितौ>> 1.1.46 इति स्थानिनः अनन्तरमागच्छति । यथा - 1) भू-धातोः लुङ्लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् - भू + लुङ् [<<लुङ्>> 3.2.110] → भू + च्लि + ल् [<<च्लि लुङि>> 3.1.43 इति विकरणप्रत्ययः 'च्लि'] → भू + सिच् + ल् [<<च्लेः सिच्>> 3.1.44 इति च्लि-इत्यस्य 'सिच्' आदेशः] → भू + ल् [<<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> 2.4.77 इति सिच्-प्रत्ययस्य लुक्] → अट् भू + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ भू + झि [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुषबहुवचनस्य प्रत्ययः 'झि'] → अ भू + अन्ति [<<झोऽन्तः>> 7.1.3 इति झकारस्य अन्तादेशः] → अ भू वुक् + अन्ति [<<भुवो वुग्लुङ्लिटोः>> 6.4.88 इति वुक्-आगमः] → अ भू व् + अन्त् [<<इतश्च>> इति इकारलोपः] → अभूवन् [<<संयोगान्तस्य लोपः>> 8.2.7 इति तकारलोपः] 2) भू-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - भू + लिट् [<<परोक्षे लिट्>> 3.2.115 ] --> भू + तिप् [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुषैकवचनस्य प्रत्ययः तिप्] → भू णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> 3.4.82 इति तिप्-इत्यस्य णल्-आदेशः] → भू अ [इत्संज्ञालोपः] → भूव् अ [<<भुवो वुग्लुङ्लिटोः>> 6.4.88 इति वुक्-आगमः । परत्वात् अयम् द्वित्वात् पूर्वमागच्छति ।] → भूव् भूव् अ [<<लिटि धातोरनभ्यासस्य>> 6.1.8 इति द्वित्वम्] → भू भूव् अ [<<हलादिः शेषः>> 7.4.60 इति वकारस्य लोपः] → भुभूव् अ [<<ह्रस्वः>> 7.4.59 इति ऊकारस्य उकारः] → भभूव् अ [<<भवतेरः>> 7.4.73 इति उकारस्य अकारः] → बभूव [<<अभ्यासे चर्च्च>> 8.4.54 इति अभ्यासस्य जश्त्वम्]
<<भुवो वुग्लुङ्लिटोः>> - भुवो वुक् । अचीति ।अचि श्नुधात्वि॑त्यतस्तदनुवृत्तेरिति भावः । अचीति किम् । अभूत् । ननु णलि परत्वाद्वुकं बाधित्वाअचो ञ्णिती॑ति वृद्धिः स्यात्, बभूविथेत्यत्र तुसार्वधातुकार्धधातुकयो॑रिति गुणः स्यादित्यत आह — नित्यत्वादिति । कृतयोरपि गुणवृद्ध्योरेकदेशविकृतन्यायद्वुक् प्रवर्तते, अकृतयोरपि प्रवर्तते । ततश्चकृताऽकृतप्रसङ्गी यो विधिः स नित्य॑ इति न्यायेन वुङ् नित्यः सन् गुणवृद्धी बाधत इत्यर्थः । वुकि ककार इत्, उकार उच्चारणार्थः । कित्त्वादन्तावयवः ।
अभूवन्निति । गातिस्था इत्यादिना सिचो लुक् । अभूवमिति । मिपोऽमभावः । लुङ्लिटोरिति किम् भवति, भविष्यति - शप्स्ययोर्न भवति । यदी क्ङ्तीत्यिनुवर्तिष्यते, अभूवमित्यत्रापि तर्हि न स्यात् एवं तर्ह्मारित्यनुवर्तिष्यते, गुणे कृते अनुवर्णान्तत्वान्न भविष्यति, अभूवमित्यत्र भूसुवोस्तिङ् ईति गुथणप्रतिषेधादुवर्णान्तत्वम् । नात्र शक्यमोरित्यनुवर्तयितुम् । एतच्च इन्धीभवतिभ्यां च इत्यत्र विश्तरेणोक्तम् ॥