7-4-73 भवतेः अः अभ्यासस्य लिटि
भवतेः अभ्यासस्य लिटि अः
लिट्-लकारे परे भू-धातोः अभ्यासस्य अकारादेशः भवति ।
When followed by लिट्-लकार, the अभ्यास of the verb root भू is converted to अकार.
भवतेरभ्यासस्य अकारादेशो भवति लिटि परतः। बभूव, बभूवतुः, बभूवुः। भवतेः इति कृतविकरननिर्देशादिह न भवति, अनुबभूवे कम्बलो देवदत्तेन। लिटि इत्येव, बुभूषति। बोभूयते।
भवतेरभ्यासोकारस्य अः स्यात् लिटि ॥
भवतेरभ्यासोकारस्य अः स्याल्लिटि॥
लिट्लकारे परे भू-धातोः <<लिटि धातोरनभ्यासस्य>> 6.1.8 इत्यनेन द्वित्वे प्राप्ते द्वयोः यः पूर्वः तस्य <<पूर्वोऽभ्यासः>> 6.1.4 इत्यनेन अभ्याससंज्ञा भवति । अस्य अभ्यासस्य वर्तमानसूत्रेण अकारादेशः भवति । <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन अयमन्त्यादेशः भवति । यथा, भू-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - भू + लिट् [<<परोक्षे लिट्>> 3.2.115 ] → भूव् ल् [<<भुवो वुग्लुङ्लिटोः>> 6.4.88 इति वुक्-आगमः।] → भूव् भूव् ल् [<<लिटि धातोरनभ्यासस्य>> 6.1.8 इति द्वित्वम्] → भू भूव् ल् [<<हलादि शेषः>> 7.4.60 इति वकारस्य लोपः] → भुभूव् ल् [<<ह्रस्वः>> 7.4.59 इति अभ्यासे विद्यमानस्य ऊकारस्य ह्रस्वादेशः ] → भभूव् ल् [<<भवतेरः>> 7.4.73 इति अभ्यासस्य अन्तिमवर्णस्य अकारः] → भभूव् तिप् [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुषैकवचनस्य प्रत्ययः तिप्] → भभूव् णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> 3.4.82 इति तिप्-इत्यस्य णल्-आदेशः] → भभूव् अ [इत्संज्ञालोपः] → बभूव [<<अभ्यासे चर्च्च>> 8.4.54 इति अभ्यासस्य जश्त्वम्]
<<भवतेरः>> - भवतेरः । भवतेः- अ इति छेदः । भवतेरिति निर्देशः । भूधातोरित्यर्थः ।इक्श्तिपौ धातुनिर्देशे॑ इत्युक्तेः ।अत्र लोपोऽभ्यासस्ये॑त्यस्मादभ्यासस्येनुव्रतते । 'व्यथो लिटि' इत्यस्माल्लिटीति । भूधातोरभ्यासस्य भवन्नकारः 'अलोऽन्त्यस्ये' त्यन्त्यस्योकारस्य भवति । तदाह - अभ्यासोकारस्येति ।नानर्थकेऽलोन्त्यविधि॑रिति तु नेह प्रवर्तते, 'अनभ्यासविकारे' इत्युक्तेः ।
ठुरत्ऽ इत्यस्यानन्तरमिदं नोक्तं लिटीत्युपजीवनाय । यदि पुनस्तदत्रैवोच्येत ? नैवं शक्यम्; लिट।लेव हि स्यात् । श्तिपा निर्द्देशो यङ्लुग्निवृत्यर्थः ॥