क्वसुश्च

3-2-107 क्वसुः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते छन्दसि लिटः ज्वा

Kashika

Up

index: 3.2.107 sutra: क्वसुश्च


छन्दसि लिटः क्वसुरादेशः भवति। जक्षिवान्। पपिवान्। न च भवति। अहं सूर्यमुभयतो ददर्श। योगविभाग उत्तरार्थः।

Siddhanta Kaumudi

Up

index: 3.2.107 sutra: क्वसुश्च


इह भूतसामान्ये छन्दसि लिट् तस्य विधीयमानौ क्वसुकानचावपि छान्दसाविति त्रिमुनिमतम् । कवयस्तु बहुलं प्रयुञ्जते । तं तस्थिवांसं नगरोपकण्ठे इति । श्रेयांसि सर्वाण्यधिजग्मुषस्ते इत्यादि ॥

Laghu Siddhanta Kaumudi

Up

index: 3.2.107 sutra: क्वसुश्च


लिटः कानच् क्वसुश्च वा स्तः । तङानावात्मनेपदम् । चक्राणः ॥

Balamanorama

Up

index: 3.2.107 sutra: क्वसुश्च


क्वसुश्च - क्वसुश्च । त्रीणीमानि सूत्राणि । अत्र प्रथम सूत्रे भूत इत्यनुवृत्तिमभिप्रेत्य व्याचष्टे — भूतसामान्ये छन्दसि लिडिति । अनद्यतनपरोक्षत्वं छन्दसि न विवक्षितमिति भावः ।लिटः कानज्वे॑ति द्वितीयं सूत्रम् । तत्र छन्दसीत्यनुवर्तते, भूते इति च । छन्दसि भूते लिटः कानजादेशः स्यादित्यर्थः । लिड्ग्रहणं लिण्मात्रस्य ग्रहणार्थम् । तेन 'परोक्षे लि' डिति यो लिड्विहितस्तस्यापि ग्रहणार्थः । अन्यथाअनन्तरस्ये॑ति न्यायेन प्रकृतस्यैव लिटो ग्रहणं स्यादिति वृत्तौ स्पष्टम् । वाग्रहणं तु पक्षे लिटः श्रवणाअर्थं, वासऽरूपविधिर्लादेशेषु नेति ज्ञापनार्थं वा । तत्प्रयोजनं तुभाषायां सदवसे॑त्यत्र क्वसोरेवानुवृत्त्यर्थः । इमौ कानच्क्वसू आदेशौ छन्दसि भूते लिटः क्वसुश्चादेशः स्यादित्यर्थः । योगविभागस्तु उत्तरसूत्रे क्वसोरेवानुवृत्त्यर्थः । इमौ कानच्क्वसू आदेशौ छान्दसाविति — अत्रैव भाष्यकैटयोः स्पष्टम् । तदाह — तस्येत्यादि, त्रिमुनिमतमित्यन्तम् ।विभाषा पूर्वाह्णाऽपराह्णे॑ति सूत्रभाष्ये तु पपुष आगतं पपिवद्रूप्यमिति प्रयुक्तम् । तेन लोकेऽपि क्वचिक्त्वसोः साधुत्वं सूचितम् । तदाह - कवयस्त्विति । तस्थिवांसमिति । स्थाधातोर्लिटः क्वसुः । द्वितीयैकवचनेअत्वसन्तस्ये॑ति दीर्घः । उगित्त्वान्नुम् । अधिजग्मुष इति । अधिपूर्वाद्गमेर्लिटः क्वसुः, आङोयमहने॑त्युपधालोपः, शसि वसोः संप्रसारणं, पूर्रूपम् , षत्वम् ।

Padamanjari

Up

index: 3.2.107 sutra: क्वसुश्च


क्वसुश्च॥ क्वसोरुकार उगित्कार्यार्थः, जक्षिवानित्यादौ ठुगिदचाम्ऽ इति नुम्, उपसेदुषीत्यादौ ठुगितश्चऽ इति ङीप्,'वसोः संप्रसारणम्' इत्यत्र सामान्यग्रहणमप्युकारस्य प्रयोजनम्। कित्करणं किमर्थ न ठसंयोगाल्लिट् कित्ऽ इत्येव सिद्धम्? संयोगान्तार्थम्।अञ्जेः आजिवान् - उपधालोपो भवति, छान्दसः क्वसुः लिट्। च्छन्दसि सार्वधातुकमपि तत्र'सार्वधातुकमपित्' इति। तत्वङ्तीत्युपिधालोपो भविष्यति। ऋकारान्तगुणप्रतिषेधार्थन्तुऽ, ठृच्छत्यृताम्ऽ इत्ययं गुणः प्रतिषेध आरभ्यते स यथेह भवति - तेरतुस्तेरुरिति, तथा तितीर्वानित्यत्रांपि स्यात्। कित्करणसामर्थ्याद्भाषायामपि क्वसुर्भवतीत्येतु भाष्यविरोधादुपेक्ष्यम्। उतरसूत्रानर्थक्यं च, यदि भाषायामपि क्वसुर्भवति॥