6-4-56 ल्यपि लघुपूर्वात् असिद्धवत् अत्र आभात् आर्धधातुके णेः अय
ल्यपि परतो लघुपूर्वाद् वर्णाद् उत्तरस्य णेरयादेशो भवति। प्रणमय्य, प्रतमय्य, प्रदमय्य, प्रशमय्य, संदमय्य गतः। प्रबेभिदय्य गतः। प्रगणय्य गतः। ह्रस्वयलोपाल्लोपानामसिद्धत्वं न भवत्यसमानाश्रयत्वात् ह्रस्वादयो हि णौ, ल्यपि णेरयादेशो भवति। लघुपूर्वादिति किम् ? प्रपात्य गतः॥
लघुपूर्वात्परस्य णेरयादेशः स्यात् ल्यपि । विगणय्य । प्रणमय्य । प्रबेभिदय्य । लघुपूर्वात्किम् । सम्प्रधार्य ॥