वाह ऊठ्

6-4-132 वाहः ऊठ् असिद्धवत् अत्र आभात् भस्य

Sampurna sutra

Up

वाहः सम्प्रसारणम् ऊठ्

Neelesh Sanskrit Brief

Up

वाह्-इति भसंज्ञकस्य 'ऊठ्' इति सम्प्रसारणम् भवति ।

Neelesh English Brief

Up

भसंज्ञक वाह् is converted to 'ऊठ्' by सम्प्रसारणम्.

Kashika

Up

वाह इत्येवमन्तस्य भस्य ऊठ् इत्येतत् संप्रसारणं भवति। प्रष्ठौहः। प्रष्ठौहा। प्रष्ठौहे। दित्यौहः। दित्यौहा। दित्यौहे। <<एत्येधत्यूठ्सु>> ६.१.८९ इति वृद्धिः। अथ किमर्थमूठ् क्रियते, संप्रसारण एव कृते गुणे च <<वृद्धिरेचि>> ६.१.८८ इति वृद्धौ सत्यां सिद्धं रूपं भवति प्रष्ठौह इति, अनकारान्ते चोपपदे वहेर्ण्विर्न दृश्यते? ज्ञापनार्थम्। एतज् ज्ञापयति भवत्येषा परिभाषा — <<असिद्धं बहिरङ्गमन्तरङ्गे>> इति। तस्यां हि सत्यां बहिरङ्गस्य संप्रसारणस्यासिद्धत्वाद् अन्तरङ्गो गुणो न स्यात्॥

Siddhanta Kaumudi

Up

भस्य वाहः संप्रसारणमूठ् स्यात् ॥

Laghu Siddhanta Kaumudi

Up

भस्य वाहः संप्रसारणमूठ्॥

Neelesh Sanskrit Detailed

Up

'वाह्', 'वारिवाह्' , 'विश्ववाह्' एतेषु शब्देषु यः वाह्-शब्दः अस्ति, तस्य भसंज्ञा भवति चेत् तस्य वकारस्य सम्प्रसारेण 'ऊठ्' इति आदेशः भवति । यथा - 1. वाह् + टा [तृतीयैकवचनस्य टा-प्रत्ययः । अङ्गस्य <<यचि भम्>> 1.4.18 इति भसंज्ञा । ] → ऊठ् आ ह् + आ [भसंज्ञकस्य वाह्-इत्यस्य वकारस्य <<वाह ऊठ्>> 6.4.132 इति ऊठ्-आदेशः] → ऊ आ ह् + आ [ठकारस्य इत्संज्ञा, लोपः] → ऊह् + आ [<<सम्प्रसारणाच्च>> 6.1.108 इति पूर्वरूपम्] → ऊहा 2. विश्ववाह् + ङे [चतुर्थ्येकवचनस्य ङे-प्रत्ययः । अङ्गस्य <<यचि भम्>> 1.4.18 इति भसंज्ञा ।] → विश्व ऊठ् आ ह् + ङे [भसंज्ञकस्य वाह्-इत्यस्य वकारस्य <<वाह ऊठ्>> 6.4.132 इति ऊठ्-आदेशः] → विश्व ऊ आ ह् + ए [ठकारस्य इत्संज्ञा, लोपः] → विश्व ऊह् + ए [<<सम्प्रसारणाच्च>> 6.1.108 इति पूर्वरूपम्] → विश्वौहे <<एत्येधत्यूठ्सु>> 6.1.89 इति अकार-ऊकारयोः वृद्धि-एकादेशः औकारः] 3. वारिवाह् + ङि [सप्तम्येकवचनस्य ङि-प्रत्ययः । अङ्गस्य <<यचि भम्>> 1.4.18 इति भसंज्ञा ] → वारि ऊठ् आ ह् + ङि [भसंज्ञकस्य वाह्-इत्यस्य वकारस्य <<वाह ऊठ्>> 6.4.132 इति ऊठ्-आदेशः] → वारि ऊ आ ह् ङि [ठकारस्य इत्संज्ञा, लोपः] → वारि ऊ ह् ङि [<<सम्प्रसारणाच्च>> 6.1.108 इति पूर्वरूपम्] → वार्यूहि [<<इको यणचि>> 6.1.77 इति यणादेशः] ज्ञातव्यम् - 1. अस्मिन् सूत्रे ऊठ् इति एकाल्-आदेशः अस्ति, अतः वस्तुतः <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन सः अन्तिमवर्णस्य भवेत् । परन्तु अस्मिन् सूत्रे 'सम्प्रसारणम्' इत्यपि अनुवर्तते, अतः सम्प्रसारणयोग्यः यः वर्णः तस्यैव अयमादेशः भवति । 2. किम् नाम सम्प्रसारणम्? <<इग्यणः सम्प्रसारणम्>> 1.1.45 इत्यनेन सम्प्रसारणसंज्ञा दीयते । यण्-वर्णस्य स्थाने इक्-वर्णस्य विधानम् सम्प्रसारणम् इत्युच्यते । 3. 'वाह्' इति शब्दः 'वह्' धातोः ण्वि-प्रत्ययं कृत्वा जायते । यथा, विश्ववाह्-शब्दस्य सिद्धिः इयम् - विश्वं वह् ण्विँ [<<वहश्च>> 3.2.64 इति ण्विप्रत्ययः] → विश्वं वाह् व् [<<अतः उपधायाः>> 7.2.116 इति णिति परे उपधा-अकारस्य वृद्धिः आकारः] → विश्वं वाह् [<<वेरपृक्तस्य>> 6.1.67 इत्यनेन अपृक्तवकारस्य लोपः] → विश्व अम् वाह् [<<उपपदमतिङ्>> 2.2.19 इति उपपदसमासः] → विश्ववाह् [<<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुब्लोपः । <<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा]

Balamanorama

Up

<<वाह ऊठ्>> - वाह ऊठ् ।भस्ये॑त्यधिकृतम् । 'वसोः संप्रसारण' मित्यतःसंप्रसारण॑मित्यनुवर्तते । तच्च ऊडित्यनेनान्वेति । तदाह-भस्येत्यादिना ।

Padamanjari

Up

वाह थैति वहेर्ण्विप्रत्ययान्तस्य ग्रहणम्, ण्विश्च सोपपदाद्विहित इति सामर्थ्यादत्र तदन्तविधिरत्याह - वाह इत्येवमन्तस्येति । सम्प्रसारणं भवतीति । सम्प्रसारतणग्रहणानुवृत्तिं दर्शयति । तेन वकारस्य स्थाने भवति, अन्यथान्त्यस्य स्यात् । उदाहरणेषु च्छन्दसि सहः वहश्चेति ण्विः । अथेत्यादि । वाह इत्येतावता प्रकृतं सम्प्रसारणमेव विधेयमिति प्रश्नः । का रुपसिद्धिः इत्याह - सम्प्रसारणे कृत इति । । गुणे चेति । कृत इत्यनुषङ्गः । ण्विप्रत्ययमपेक्ष्य प्रत्ययलक्षणेन गुणः । नन्वेवं शालीन्वहतीत्यादावनकारान्त उपपदे साल्यूह इति न सिध्यति तत्राह - अनकारान्ते चेति । चकारादकारान्त उपसर्गेऽपीति द्रष्टव्यम् । तेन प्रौह इत्यादावेङ् पिररुप्रसङ्ग इति न चोदनीयम् । ज्ञापानर्थमिति । कथमेतज्ज्ञापकम् त्याहि - तस्यां हि सत्यामिति । बहिरङ्गस्य वहिरड्गत्वं वहिर्भूताजादिप्रत्ययापेक्षत्वात्, अन्तर्भूताण्व्यपेक्षत्वाद् गुणोऽन्तरङ्गः ॥