अतो हेः

6-4-105 अतः हेः असिद्धवत् अत्र आभात् क्ङिति लुक्

Sampurna sutra

Up

index: 6.4.105 sutra: अतो हेः


अतः अङ्गात् हेः लुक्

Neelesh Sanskrit Brief

Up

index: 6.4.105 sutra: अतो हेः


अदन्तात् अङ्गात् परस्य 'हि' प्रत्ययस्य लुक् भवति ।

Neelesh English Brief

Up

index: 6.4.105 sutra: अतो हेः


The 'हि' प्रत्यय that follows an अदन्त अङ्ग is removed.

Kashika

Up

index: 6.4.105 sutra: अतो हेः


अकारान्तादङ्गादुत्तरस्य हेः लुग् भवति। पच। पठ। गच्छ। धाब। अतः इति किम्? युहि। रुहि। तपरकरणं किम्? लुनीहि। पुनीहि। ईत्वस्य असिद्धत्वादकार एव भवति।

Siddhanta Kaumudi

Up

index: 6.4.105 sutra: अतो हेः


अतः परस्य हेर्लुक्स्यात् । भव । भवतात् । भवतम् । भवत ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.105 sutra: अतो हेः


अतः परस्य हेर्लुक्। भव। भवतात्। भवतम्। भवत॥

Neelesh Sanskrit Detailed

Up

index: 6.4.105 sutra: अतो हेः


लोट्लकारस्य परस्मैपदस्य मध्यमपुरुषैकवचनस्य 'सि' प्रत्ययस्य सेह्यर्पिच्च 3.4.87 इत्यनेन 'हि' आदेशः भवति । अयमादेशः यदि अदन्तात् अङ्गात् परः आगच्छति, तर्हि अस्य आदेशस्य लोपः भवति । यथा, पठ्-धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया इयम् -

पठ् + लोट् [लोट् च 3.3.162 इति लोट्]

→ पठ् + सिप् [तिप्तस्.. 3.4.78 इति सिप्]

→ पठ् + शप् + सि [कर्तरि शप् 3.1.68 इति शप्]

→ पठ् + अ + हि [सेर्ह्यपिच्च 3.4.87 इत्यनेन सि-इत्यस्य हि-आदेशः]

→ पठ् + अ [अतो हेः 6.4.105 इति अदन्तात् अङ्गात् परस्य हि-इत्यस्य लुक्]

→ पठ

ज्ञातव्यम् -

  1. अस्मिन् सूत्रे 'अतः' इति तपरकरणम् कृतमस्ति, अतः केवलं ह्रस्व-अकारान्त-अङ्गात् एव अस्य सूत्रस्य प्रसक्तिः अस्ति । अतः अदादिगणस्य 'या', 'स्ना', 'दा' आदीनाम् विषये अनेन सू्त्रेण 'हि' इत्यस्य लुक् न भवति । यथा - याहि, स्नाहि, दाहि ।

  2. तुह्योस्तातङाशिष्यन्यतरस्याम् 7.1.35 अनेन सूत्रेण आशीषि विषये लोट्-लकारस्य हि प्रत्ययस्य विकल्पेन तातङ्-आदेशः भवति । अयमादेशः परत्वात् वर्तमानसूत्रम् बाध्यते, अतः हि-इत्यस्य तातङ्-आदेशः करणीयः अस्ति चेत् वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा - भवतात् ।

  3. अस्मिन् सूत्रे 'हि' इत्यस्य 'लुक्' उच्यते, लोपः न । अस्य कारणमेतत् - प्रत्ययस्य लुक्श्लुलुपः 1.1.61 इत्यनेन 'लुक्' सर्वदा सम्पूर्ण-प्रत्ययस्यैव भवति, प्रत्ययस्य अवयवस्य न । अत्र 'हि' इत्यस्य सम्पूर्ण-प्रत्ययस्य लोपः इष्यते, अतः अत्र 'लुक्' कार्यमेव करणीयम् । यदि अत्र 'लोपः' इति अभविष्यत्, तर्हि आदेः परस्य 1.1.54 इत्यनेन 'हि' इत्यस्य केवलं हकारस्यैव लोपः अभविष्यत् ।

Balamanorama

Up

index: 6.4.105 sutra: अतो हेः


अतो हेः - अतो हेः । 'अत' इति पञ्चमी । हेरिति षष्ठी ।चिणो लु॑गित्यतो लुगित्यनुवर्तते । तदाह — अतः परस्येति । भवेति । हिविधानं तु स्तुहीत्याद्यर्थमिति भावः । भवतादिति । आशिषि लोटः सिपि तस्यसेह्र्रपिच्चे॑ति हिभावे शपि गुणावादेशयोः 'अतो हे' रिति लुकं परत्वाद्बाधित्वातुह्रो॑रिति पक्षे तातङिति भावः । भवतमिति । थसि शपि गुणेऽवादेशे चभव थस् इति स्थिते॒लोटो लङ्व॑दिति लङ्वत्त्वात्तस्थस्थमिपामितिथसस्तमादेशे रूपम् । एवं भवतेति । थस्य तादेश इति विशेषः ।

Padamanjari

Up

index: 6.4.105 sutra: अतो हेः


गच्छेति । इषुगमियमां च्छः । घावेति । घावु गातिशुध्योः, पाध्नादिसूत्रेण सर्तेर्धावादेशः । लुनीहीति । प्वादीनां ह्रस्वः ई हल्यघोः । ननु चात्रानवर्णान्तत्वादेष न भविष्यति, ईत्वमेव हि परत्वाद्भवति तत्राह - इत्वस्येति । नन्वेवमप्युतरसूत्रे उतः, प्रत्ययात् इति यदुपातमुपाधिद्वयं तस्मादेवात्र प्रत्युदाहरणद्वयेऽपि न भविष्यति । यदि च लुनीहीत्यत्र परत्वादीत्वं भवति, ततोऽसिद्धत्वं नास्ति, विप्रतिषेधविषये तदभावस्योक्तत्वात् । तस्मादत इत्यस्य इहि, अधीहीति प्रत्युदाहरणम्, तपरकरणस्य - याहि, वाहिति ॥