भावे

3-3-18 भावे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भावे वाच्ये धातोर्घञ् प्रत्ययो भवति। पाकः। त्यागः। रागः। क्रियासामान्यवाची भवतिः। तेनार्थनिर्देशः क्रियमाणः सर्वधातुविषयः कृतो भवति। धात्वर्थश्च धातुनैवोच्यते। यस्तस्य सिद्धता नाम धर्मः तत्र घञादयः प्रत्यया विधीयन्ते। पुँल्लिङ्गमेकवचनं चात्र न तन्त्रम्, लिङ्गान्तरे वचनान्तरेऽपि चात्र प्रत्यया भवन्त्येव। पक्तिः। पचनम्। पक्वम्। पाकौ। पाका इति॥

Siddhanta Kaumudi

Up

सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घञ् स्यात् । पाकः । पाकौ ॥

Laghu Siddhanta Kaumudi

Up

सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घञ्। पाकः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

नित्यानामेव शब्दानां साङ्कर्यस्य निवृतये । अन्वाख्यानाद्भावशब्दे घञि नान्योऽन्यसंश्रयः ॥ राग इति । रन्जेश्चऽ'घञि च भावकरणयोः' इति नलोपः । कथं पुनः पाकादिरुदाहरणं भवति, यावता भवतिनार्थनिर्देशः क्रियमाणोऽस्तिभवतिविद्यतिविषय एव कृतो भवति, न पचादिविषयः ? तत्राह - क्रियासामान्यवाची भवतिरिति । सताख्यं सामान्यमपि भवतिना साध्यत्वेनाभिधीयत इति क्रियासामान्यवाची भवतिर्भवति । तेनार्थनिर्द्देशः क्रियमाण इति । हेतौ शानच्, यस्मात्सामान्यवाचिनार्थनिर्देशः क्रियते, न विशेषवाचिना पचादिना; तस्मात्सर्वधातुविषयः कृतो भवति सामान्यस्य, सर्वेष्वे विशेषेषु भावात्, षण्डादिषु गोत्ववत् विशेषरूपाश्रयनिषेधस्याभावाच्च । इह भावो धात्वर्थः, स च पूर्वापरीभूतोऽपरिनिष्पन्नः, तस्य घञ्वाच्यस्य कथं लिङ्गसङ्ख्यायोग इत्याह - धात्वर्थश्चेति । यथा पचति पाचक इत्यादौ प्रकृतिभागेन क्रियोच्यते, प्रत्ययभागेन तु तदीयं साधनम्; तथा पाकादिषु प्रकृतिभागः साध्यरूपमर्थमाह, प्रत्ययभागस्तु तस्यैव सिद्धरूपतां द्रव्यधर्मैर्लिङ्गसङ्ख्याकारकशक्तिभिः सम्बन्धयोग्यमाकारमाहेत्यथः । उक्तं च - आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता । प्रकल्पिता यथा शास्त्रे स घञादिष्वपि क्रमः ॥ साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना । सत्वभावस्तु यस्तस्याः स घञादिनिबन्धनः ॥ इति ॥ बहुवक्तव्योऽयमर्थः । इह'भावे' इति पुंल्लिङ्गेनायं निर्देशः क्रियते, एकवचनेन च तत्र पुंल्लिङ्ग एव, भावे एकवचन एव च प्रत्ययाः स्युर्न लिङ्गान्तरे, न च सङ्घ्यान्तरे; ततश्च'स्त्रियां क्तिन्' इत्यत्र स्त्रियां भाव इति सामानाधिकरण्येन सम्बन्धासम्भवात् - स्त्रियामकर्तरि कारके क्तिन् प्रत्ययः स्यात्, भावे तु पुंसीव'नपुंसके भावे क्तः' इत्यत्र ठकर्तरि च कारकेऽ इत्यस्य निवृतत्वान्नपुंसके कर्तरि क्तः स्याद्भावे तु पुंसि, द्वित्वबहुत्वयोश्च पाकौ पाका इत्यादौ प्रत्यया न स्युरित्यत आह - पुंल्लिङ्गमेकवचनं चातन्त्रमिति ॥ न विना लिङ्गसङ्ख्याभ्यां सत्वभूतोऽर्थ उच्यते । इत्यतन्त्रमुपादानं तयोर्न तु विवक्षितम् ॥ धान्याथिनामुपादानं पलालादेर्यथा मतम् । शब्दसंस्कारमात्रं तु तन्निर्देशप्रयोजनम् ॥