छन्दसि लिट्

3-2-105 छन्दसि लिट् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भूत इत्येव। छन्दसि विषये धातोर्लिट् प्रत्ययो भवति। अ॒हं सूर्य॑मुभ॒यतो॑ ददर्श॒ (मा०सं० ८.९)। अनु॒ द्यावा॑पृथि॒वी आत॑तान (तै०ब्रा० १.२.१.२३)। ननु च <<छन्दसि लुङ्लङ्लिटः>>३.४.६ इति सामान्येन लिड् विहित एव? धातुसंबन्धे स विधिः, अयं त्वविशेषेण॥

Siddhanta Kaumudi

Up

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<छन्दसि लिट्>> - छन्दसि लिट् ।

Padamanjari

Up

च्छन्दसि लिट्॥ आततानेति।'णलुतमो वा' इति णित्वपक्षे वृद्धिः। धातुसम्बन्धे स विधिरिति।'धातुसम्बन्धे प्रत्ययाः' इत्यधिकारात्। लिट इकारटकारौ विशेषणार्थौ,'लिटः कानज्वा' 'लिट।ल्भ्यासम्योभयेषाम्' इत्यादौ'ल' इत्युच्यमानेऽन्येषामपि लङदीनां ग्रहणं स्यात्, निरनुबन्धकत्वादस्यैव ग्रहणं भविष्यति। परोक्षे लिटोऽपि तर्हि न प्राप्नोति? टकारष्टेरेत्वार्थश्च॥