वसोः सम्प्रसारणम्

6-4-131 वसोः सम्प्रसारणम् असिद्धवत् अत्र आभात् भस्य

Sampurna sutra

Up

index: 6.4.131 sutra: वसोः सम्प्रसारणम्


वसोः भस्य अङ्गस्य सम्प्रसारणम्

Neelesh Sanskrit Brief

Up

index: 6.4.131 sutra: वसोः सम्प्रसारणम्


वस्वन्तस्य भसंज्ञकस्य अङ्गस्य सम्प्रसारणम् भवति ।

Neelesh English Brief

Up

index: 6.4.131 sutra: वसोः सम्प्रसारणम्


A भसंज्ञक अङ्ग ending in a वसुँ प्रत्यय undergoes सम्प्रसारणम्.

Kashika

Up

index: 6.4.131 sutra: वसोः सम्प्रसारणम्


वस्वन्तस्य भस्य सम्प्रसारणं भवति। विदुषः पश्य। विदुषा। विदुषे। पेचुषः। पश्य। पेचुषा। पेचुषे। पपुषः पश्य। आकारलोपे कर्तव्ये वसुसंप्रसारणस्य व्याश्रयत्वादसिद्धत्वम् न भवति। वसुग्रहणे क्वसोरपि ग्रहणम् इष्यते।

Siddhanta Kaumudi

Up

index: 6.4.131 sutra: वसोः सम्प्रसारणम्


वस्वन्तस्य भस्य संप्रसारणं स्यात् । पूर्वरूपत्वं षत्वम् । विदुषः । विदुषा । वसुस्रुं <{SK334}>इति दत्वम् । विद्वद्भ्यामित्यादि । सेदिवान् । सेदिवांसौ । सेदिवांसः । सेदिवांसम् । अन्तरङ्गोऽपीडागमः संप्रसारणविषये न प्रवर्तते । [(परिभाषा - ) अकृतव्यूहा] इति परिभाषया । सेदुषः । सेदुषा । सेदिवद्भ्यामित्यादि । सान्तमहतः <{SK317}> इत्यत्र सान्तसंयोगोऽपि प्रातिपदिकस्यैव गृह्यते नतु धातोः । महच्छब्दसाहचर्यात् । सुष्ठु हिनस्तीति सुहिन् । सुहिंसौ । सुहिंसः । सुहिन्भ्याम् । सुहिन्त्सु । ध्वत् । ध्वद् । ध्वसौ । ध्वसः । ध्वाद्भ्याम् । एवं स्रत् ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.131 sutra: वसोः सम्प्रसारणम्


वस्वन्तस्य भस्य सम्प्रसारणं स्यात्। विदुषः। वसुस्रंस्विति दः। विद्वद्भ्याम्॥

Neelesh Sanskrit Detailed

Up

index: 6.4.131 sutra: वसोः सम्प्रसारणम्


'वस्वन्त' इत्युक्ते यस्य अन्ते 'वस्' प्रत्ययः अस्ति सः । यद्यपि अस्मिन् सूत्रे 'वसोः' इति उक्तमस्ति, तथापि तदन्तविधिना वस्वन्तस्यापि ग्रहणं भवति ।

सूत्रपाठे द्वयोः स्थलयोः वस्-प्रत्ययः विधीयते ।

  1. विदेः शतुर्वसुः 7.1.36 इत्यनेन विद्-धातोः परस्य शतृ-प्रत्ययस्य वस्-आदेशः भवति ।

  2. क्वसुश्च 3.2.107 अनेन लिट्-लकारस्य छन्दसि विषये 'क्वसु' आदेशः विधीयते । अत्र ककार-उकारयोः इत्संज्ञा भवति, अतः दृश्यरूपेण वस्-प्रत्ययः एव जायते ।

एतादृशः वस्-प्रत्ययान्तम् यत् भसंज्ञकमङ्गम्, तस्य वकारस्य सम्प्रसारणम् भवति । इग्यणः सम्प्रसारणम् 1.1.45 इत्यनेन वकारस्य सम्प्रसारणरूपेण उकारः जायते । यथा -

1) 'विद्वस्' अयं वस्-प्रत्ययान्तशब्दः । तस्य तृतीयैकवचनस्य रूपसिद्धिः इयम् -

विद्वस् + टा [तृतीयैकवचनस्य प्रत्ययः । यचि भम् 1.4.18 इति अजादिप्रत्यये परे अङ्गस्य भसंज्ञा ।]

→ विद् उ अ स् + आ [वसोः सम्प्रसारणम् 6.4.131 इत्यनेन भसंज्ञकस्य विद्वस्-शब्दस्य वकारस्य सम्प्रसारणमुकारः]

→ विद् उ स् + आ [सम्प्रसारणाच्च 6.1.108 इति उकार-अकारयोः एकः पूर्वरूपः उकारः]

→ विदुषा [आदेशप्रत्यययोः 8.3.59 इति सकारस्य षकारः]

2) 'सेदिवस्' अयं क्वसु-प्रत्ययान्तशब्दः । 'सद्' धातोः क्वसु-प्रत्यये कृते अयं प्रातिपदिकं सिद्ध्यति । अस्य तृतीयैकवचनस्य प्रक्रिया इयम् -

सेदिवस् टा [तृतीयैकवचनस्य प्रत्ययः । यचि भम् 1.4.18 इति अजादिप्रत्यये परे अङ्गस्य भसंज्ञा ।]

→ सेद् उ अ स् आ [वसोः सम्प्रसारणम् 6.4.131 इत्यनेन भसंज्ञकस्य विद्वस्-शब्दस्य वकारस्य सम्प्रसारणमुकारः । सम्प्रसारणकारणं दृष्ट्वा इडागमः <ऽअकृतव्यूहाः पाणिनीयाःऽ> अनया परिभाषया विनश्यति । ]

→ सेद् उ स् आ [सम्प्रसारणाच्च 6.1.108 इति उकार-अकारयोः एकः पूर्वरूपः उकारः]

→ सेदुषा [आदेशप्रत्यययोः 8.3.59 इति सकारस्य षकारः]

Balamanorama

Up

index: 6.4.131 sutra: वसोः सम्प्रसारणम्


वसोः सम्प्रसारणम् - शसादावचि विशेषमाह — वसोः संप्रसारणं । प्रत्ययग्रहणपरिभाषया वसोरिति तदन्तग्रहणं भस्येत्यधिकृतं । तदाह — वस्वन्तस्येति । पूर्वेति । शसि वकारस्य उत्वे विदु अस् इति स्थिते,संप्रसारणाच्चे॑ति पूर्वरूपे, विदुस् इति स्थिते, प्रत्ययावयवत्वात्सस्य षत्वमित्यर्थः । 'षत्वतुकोरसिद्ध' इति पूर्वरूपस्याऽसिद्धत्वं न शङ्क्यं, पदान्तपदाद्योरेकादेश एव तत्प्रवृत्तेः । सुपि दत्वे चर्त्वम् । विद्वत्सु । सेदिवानिति ।षद्वलृ विशरणगत्यवसादनेषु॑धात्वादेः षः सः॑,भाषायां सदवसश्रुवः॑ इति लिटः क्वसुः, उकावितौ, 'लिटि धातोः' इति द्वित्वं, हलादिशेषः, 'अत एकहल्मध्ये' #इत्येत्त्वाभ्यासलोपौ,वस्वेकाञाद्धसा॑मिति इट् । सेदिवस्शब्दः । ततः सुः, उगित्त्वान्नुम्, 'सान्तमहतः' इति दीर्घः, सुलोपः, सस्य संयोगान्तलोपः, तस्याऽसिद्धत्वान्नलोपो न । सान्तवस्वन्तत्वाऽभावान्न दत्वमिति भावः । सेदिवांसाविति । नुमि 'सान्तमहतः' इति दीर्घः । ननु उक्तरीत्या निषपन्नात्सेदिवस्शब्दाच्छसिवसोः संप्रसारण॑मिति वकारस्य उत्वे पूर्वरूपे इकारस्य यणि 'सेद्युषः' इति स्यात् । ततश्च 'सेदुषः' इति वक्ष्यमाणं रूपमयुक्तम् । नच शसि भविष्यति भविष्यत्संप्रसारणरूपकार्यं पर्यालोच्य पूर्वमेव इट् न प्रवर्तते, पदावधिकान्वाख्यानाभ्युपगमादिति वाच्यम्, एवमपि बहिर्भूतयजाद्यसर्वनामस्थानस्वादिप्रत्ययनिमित्तकभसंज्ञापेक्षतया संप्रसारणस्याङ्गस्य बहिरङ्गत्वेन इडागमस्यैवान्तरङ्गत्वात्प्रथमं प्रवृत्तेः, परादन्तरङ्गस्य बलवत्त्वादित्यत आह — अन्तरङ्गोऽपीति । अकृतेति । भविष्यता संप्रसारणेन बलादित्वस्य विनाशोन्मुखत्वादिति भावः । वस्तुतस्तु प्रथममपि सेदिवस्शब्दादेव सुबुत्पत्तिरस्तु, तथापि वकारस्य संप्रसारणे उत्वे कृते, यणि सत्यपि संप्रसारणस्य बहिरङ्गत्वेनाऽसिद्धत्वात् 'लोपो व्योः' इति लोपे 'सेदुष' इति रूपं सिद्धम् । नचनाजानन्तर्ये बहिष्ट्वप्रकॢप्ति॑रिति निषेधः शङ्क्यः, उत्तरकालप्रवृत्तिकेऽजानन्तर्य एव तत्प्रवृत्तेरभ्युपगमात् । इह च उत्तरकालप्रवृत्तिके वलि लोपे तदभावात् । किंच कृते इटि संप्रसारणप्रवृत्तावपि वलादित्वरूपनिमित्तनिवृत्त्या इटो निवृत्तौ 'सेदुष' इति निर्बाधं ।निमित्ताऽपाये नैमित्तिकस्याप्यपायः॑ इति न्यायात् । किंच पदावधिकान्वाख्यानेऽपि सेद्वस् अस् इति स्थिते इट्संप्रसारणयोः प्राप्तौ प्रतिपदविधित्वेन शीर्घोपस्थितिकत्वात्प्रथमं संप्रसारणे वलादित्वाऽभावादिटः प्राप्तिरेव नास्तीति 'सेदुषः' इति निर्बाधमित्याहुः । इत्यादीति । सुपि — सेदिबत्सु । 'हिसिं हिंसायाम्' इदित्त्वान्नुम्, सुपूर्वात्क्विप्, इदित्त्वान्नलोपो न,नश्चे॑त्यनुस्वारः, सुहुंस्शब्दात्सोर्लोपः, सकारस्य संयोगान्तलोपः, तस्याऽसिद्धत्वान्नलोपो न । नापिसर्वनामस्थाने चे॑ति दीर्घः । निमित्तापायादनुस्वारनिवृत्तिः । सुहिन् इति सौ रूपं वक्ष्यति । तत्र 'सान्तमहतः' इति दीर्घमाशङ्क्य आह — सान्तेति । सुहिन्भ्यामिति । 'स्वादिषु' इति पदान्तत्वात्सस्य संयोगान्तलोपे निमित्ताऽपायादनुस्वारनिवृत्तिरिति भावः । सुबिन्स्विति । संयोगान्लोपेऽनुस्वारनिवृत्तिः । सुपः सकारमाश्रित्य पुनरनुस्वारस्तु न, पदान्तत्वात् । ध्वदिति । ध्वंसु अवरुआंसने कृतानुस्वारनिर्देशः । क्विप्, अनुस्वारस्याऽसिद्धत्वात् ' अनिदिताम्' इति नलोपः । सोर्लोपः । 'वसुरुआंसु' इति दत्वम् । 'वाऽसाने' इति चर्त्वविकल्प इति भावः । एवमिति । 'रुआंसु अवरुआंसने' क्विबादि पूर्ववदिति भावः । 'पूञ्पवने' अस्मात् 'पूञो डुम्सुन्' इति उणादिसूत्रेण डुम्सुन्प्रत्ययः । डकारो नकार उकारश्च इत् । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । पुंस्शब्दात्सुबुत्पत्तिः ।

Padamanjari

Up

index: 6.4.131 sutra: वसोः सम्प्रसारणम्


पेचुष इति । पक्षेः क्वसुः, एत्वाभ्यासलापौ । कथं पुनर्व्द्यनुबन्धकस्य क्वसोर्ग्रहणम् इत्याह - वसुग्रहण इति । एतच्च शात्रादेशास्य वसोरुकारानुबन्धकरणाल्लभ्यते, तस्य ह्यएतदेव प्रयोजनम् - इह सामान्यग्रहणं यथा स्यादिति उगित्कार्यस्य स्थानिवद्भावेनैव सिद्धत्वात् ॥