बहोर्लोपो भू च बहोः

6-4-158 बहोः लोपः भू च बहोः असिद्धवत् अत्र आभात् भस्य इष्ठेमेयस्सु

Kashika

Up

index: 6.4.158 sutra: बहोर्लोपो भू च बहोः


बहोरुत्तरेषाम् इष्ठेमेयसां लोपो भवति, तस्य च बहोः स्थाने भू इत्ययमादेशो भवति। भूमा। भूयान्। बहुशब्दः पृथ्वादिषु पठ्यते। बहोरिति पुनर्ग्रहणं स्थानित्वप्रतिपत्त्यर्थम्, अन्यथा हि प्रत्ययानाम् एव भूभावः स्यात्।

Siddhanta Kaumudi

Up

index: 6.4.158 sutra: बहोर्लोपो भू च बहोः


बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः । भूमा । भूयान् ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.158 sutra: बहोर्लोपो भू च बहोः


बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः। भूमा। भूयान्॥

Balamanorama

Up

index: 6.4.158 sutra: बहोर्लोपो भू च बहोः


बहोर्लोपो भू च बहोः - बहोर्लोपः । 'भू' इति लुप्तप्रथमाकम् । इष्ठेयमेयस्स्वित्यनुवृत्तम् । तत्र इष्ठन उत्तरसूत्रे कार्यान्तरविधानादिह तस्य न संबन्धः । तदाह — बहोः परयोरिति ।आदेः परस्ये॑ति प्रत्ययोरादिलोपः । भूमेति । बहुत्वमित्यर्थः । बहुशब्दात्पृथ्वादिमनिचि प्रकृतेर्भूभावः, प्रत्ययादैरिकारस्य लोपश्च भूयानिति । अयमनयोरतिशयेन बहुरित्यर्थः । वैपुल्यवाचकाद्बहुशब्दादीयसुनि प्रकृतेर्भभावः, प्रत्ययादेरिकारस्य लोपश्च । भूभावस्याभीयत्वेना.ञसिद्धत्वादोर्गुणो न भवति ।

Padamanjari

Up

index: 6.4.158 sutra: बहोर्लोपो भू च बहोः


भूयानिति । आदेः परस्य इत्यादेर्लोपः । अन्यथा हीति । यदि पुनः बहोः इति नोच्येत, ततो यथा लोपः प्रत्ययानां भवति, तथा भूभावोऽपि तेषामेव स्यात् । पर्यायेण तत्र लोप आदेर्भूभावः सर्वस्य शक्यते एवक्तुम् पृथग्निर्द्देशात्प्रत्ययानां न भविष्यति, अन्यथा भूलोपौ बहोः इति व्रूयात् । एवं च कृत्वा उतरपदभूम्नि इति निर्द्देश उपपद्यत इति ॥