श्नान्नलोपः

6-4-23 श्नात् नलोपः असिद्धवत् अत्र आभात्

Kashika

Up

index: 6.4.23 sutra: श्नान्नलोपः


श्नातिति श्नमयमुत्सृष्टमकारो गृह्यते। तत उत्तरस्य नकारस्य लोपो भवति। अनक्ति। भनक्ति। हिनस्ति। शकारवतो ग्रहणम् किम्? यज्ञानाम्। यत्नानाम्। सुपि च 7.3.102 इति परत्वात् कृतेऽपि दीर्घत्वे स्थानिवद्भवात् नलोपः स्यादेव। विश्नानाम्, प्रश्नानाम् इत्यत्र लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इत्येवं न भवति।

Siddhanta Kaumudi

Up

index: 6.4.23 sutra: श्नान्नलोपः


श्नमः परस्य नस्य लोपः स्यात् । श्नसोरल्लोपः । इन्धे । इन्त्से । इन्धिता । इनधै । ऐन्ध । ऐन्धाः ।{$ {!1449 खिद!} दैन्ये खिन्ते$} । खेत्ता ।{$ {!1450 विद!} विचारणे$} । विन्ते । वेत्ता । अथ परस्मैपदिनः ।{$ {!1451 शिष्लृ!} विशेषणे$} । शिनष्टि । शिंष्टः । शिंषन्ति । शिशेषिथ । शेष्टा । शेक्ष्यति । हेर्धिः । जश्त्वम् । ष्टुत्वं । झरो झरि -<{SK71}>इति वा डलोपः । अनुस्वारपरसवर्णौ । शिण्ढि । शिण्ड्ढि । शिनषाणि । अशिनट् । लृदित्वादङ् । अशिषत् ।{$ {!1452 पिषॢ!} संचूर्णने$} । शिषिवत् । पिनष्टि ।{$ {!1453 भञ्जो!} आमर्दने$} । भनक्ति । बभञ्जिथ । बभङ्क्थ । भङ्क्ता ।{$ {!1454 भुज!} पालनाभ्यवहारयोः$} । भुनक्ति । भोक्ता । भोक्ष्यति । अभुनक् ।{$ {!1455 तृह!} {!1456 हिसि!} हिंसायाम्$} ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.23 sutra: श्नान्नलोपः


श्नमः परस्य नस्य लोपः स्यात्। हिनस्ति। जिहिंस। हिंसिता॥

Balamanorama

Up

index: 6.4.23 sutra: श्नान्नलोपः


श्नान्नलोपः - श्नान्नलोपः । श्नसोरल्लोप इति । तताच इन्ध् ते इति स्थितेझषस्तथो॑रिति तकारस्य धत्वे पूर्वधस्य जश्त्वे परिनिष्टितमाह - इन्द्धे इति । यद्यपिअनिदिता॑मित्येवात्र नलोपः सिध्यति, तथापि अनक्तीत्याद्यर्थं सूत्रमिहापि न्याय्त्वादुपन्यस्तमिति बोध्यम् । इन्धते । इन्द्ध्वे । इन्द्धाम् । इन्तस्व.इन्द्ध्वम् । इनधै इति । श्नमि उत्तमस्य इट एत्वे आटि वृद्धौ इन न् ध् ऐ इति स्थिते श्नान्नलोपे आटः पित्त्वेन ङित्त्वाऽबावात् 'श्नसोरल्लोपः' इत्यभावे रुपमिति भावः । अत्र नलोपार्थमपि श्नान् लोप इत्यावश्यकम्, आटः पित्त्वेन ङित्त्वाऽभावात्अनिदिता॑मित्यस्याऽप्रवृत्तेः । इनधावहै । लह्राह - ऐन्द्धेति । ऐन्द्धा इति ।झषस्तथो॑रिति थस्य धः । इन्धीत । लुहि - ऐन्धिष्ट । शिष्लृ ।अनिट् । शिशेषिथेति । अजन्ताऽकारवत्त्वाऽभावात्क्रादिनियमान्नित्यमिट् । शिनष् हीति स्थिते अल्लोपे शिन्ष् हि इति स्थिते आह — हेर्धिरित । शिन् ष् धीति स्थिते आह — जश्त्वमिति ।झलां जश् झशी॑ति षस्यड इति भावः । ष्टुत्वमिति प्रक्रियाप्रदर्शनमात्रपरं, क्रमस्तु न विवक्षितः । झर इति । जश्त्वसंपन्नस्य डस्य लोपविकल्प इत्यर्थः । अनुस्वारपरसवर्णाविति । नकारस्यनश्चे॑त्यनुस्वारे सति तस्य परसवर्णो णकार इत्यर्थः ।न पदान्ते॑ति निषेधान्नाऽल्लोपः स्थानिवत् । ढस्य लोपपक्षे उदाहरति — शिण्ढीति । ढस्य लोपाऽभावे उदाहरति - शिण्ड्ढीति । वस्तुतस्तु सानुस्वार एव पाठ उचितः,दीर्घादाचार्याणा॑मित्युत्तरम्अनुस्वारस्य ययि परसवर्णः॑ 'वा पदान्तस्य' 'तोर्लि'उदः स्थास्तम्भोः पूर्वस्य॑ 'झयो होऽन्यतरस्यां'शश्छोऽरटी॑ति षट्सूत्रपाठोत्तरं 'झलां जश् झशि' 'अभ्यासे चर्च' 'खरि च' 'वाऽवसाने'अणोऽप्रगृह्रस्यानुनासिकः॑ इति पञ्चसूत्रीपाठ इति भाष्यसंमताऽष्टाध्यायीपाठे परसवर्णदृष्टआझलां जश् झशी॑त्यस्यझरो झरी॑त्यस्य चाऽसिद्धत्वेन यय्परत्वाऽभावे परसवर्णाऽप्राप्तेरिति शब्देन्दुशेखरे स्थितम् ।शिंष्टात् । शिंष्टम् शिंष्ट । शिनषाणीति । आटः पित्त्वेन ङित्तवाऽभावात्श्नसो॑रित्यल्लोप नेति भावः । अशिनडिति । लङस्तिपो हल्ङ्यादिलोपे षस्य जश्त्वमिति बावः । अशिंष्टाम् । अशिंषन् । अशिनट् । अशिष्टम् । अशिंष्ट । अशिनषमशिंष्व अशिंष्म । भञ्जो । भनक्तीति । श्नमि भ न न् ज् तीति स्थिते 'श्नान्न लोपः' इति नलोप इति भावः । भङ्क्तः भञ्जन्तीत्याद्यूह्रम् । भारद्वाजनियमात्थलि वेडिति मत्वाह — वबञ्जिथ बङङ्क्थेति । भङ्क्तेति । अनिडिति भावः । भुज पालनेति । 'भुजोऽनवने' इति तङ् वक्ष्यते । भुङ्क्ते भुञ्जाते इत्यादि.तृह हिसि.आद्य ऋदुपधः । सेट् । श्नमि कृते तृणह् तीति स्थिते —

Padamanjari

Up

index: 6.4.23 sutra: श्नान्नलोपः


एपृथक्पदं लुप्तषष्ठीकम्, तेनोतरत्रोपधाग्रहणेन नकारो विशेष्यते । श्नमयमुत्सृष्टमकारो गृह्यत इति । अन्यस्य श्नस्यासम्भावत् । अनक्तीति । अञ्जू व्यक्तिम्रक्षणक्रान्तिगतिषु, भञ्जो आमर्द्दने, हिसि हिंसायाम् । शकारवतो ग्रहणं किम् इह मा भूत्, नन्दिता - नन्दकः । एवं वक्ष्यामि नान्नलोपऽनिदिताम् तैति, ततः हल उपधायाः क्ङितीति अनिदिताम् इत्येव, इहापि न स्यात् - हिनस्तीति । पामादिभ्यो नः - अस्य च ग्रहणं स्यात् एवं तर्हि क्ङितीति वर्तते, सत्सप्तमी चैषा - क्ङिति सतीति, तेन हिनस्तीत्यत्र तिपः पितवादङ्त्वेऽइपि श्नममेव ङ्तिमाश्रित्य लोपो भविष्यति । इहापि तर्हि प्राप्नोति - नन्दमान इति, चानशो ङ्त्वात् एविं तर्हि नशब्दमेव क्ङ्त्वेनि विषेषयिष्यामः - क्ङितो निश्बदादिति, तस्मात् नान्नलोपः इति वक्तव्यमिति पृच्छति - शकारवतो ग्रहणं किमिति । यज्ञानामति । यजयाच इत्यादिना नङ्, श्चनत्वम्, तस्यासिद्धत्वान्नशब्द एवायम् । ननु यद्यपि नामि दीर्घादयं लोपः परः, सुपि च इत्येतर्द्दर्घत्वमस्मात्परम्, तत्र कृते नादिति व्यपदेशाभावादेव लोपो न भविष्यति अत आह - सुपि चेत्यादि । स्थानिवद्भावादिति । पूर्वस्यादपि विधौ स्थानिवद्भावात् । अथ गृह्यमाणेऽपि शकारवतो ग्रहणे विश्नानाम्, प्रश्नानामित्यत्र कस्मान्न भवति, ननु सम्प्रति श्नरुपत्वादत्रैव प्राप्नोति अत आह - विश्नानामिति । एअत्र संग्रहलोकः - नान्नस्यायं विधेयो ननु लुबनिदितां नन्दिता चापि सिध्येद् हिंसेर्न प्राप्तिरेवं क्ङिति सति तु तथा नन्दमानो न सिध्येत् । क्ङ्न्नाच्चेच्चाथि यत्नाद्वहुवचनाबिधौ दुष्यति स्थानिवत्वाद् विश्नानां लक्षणोक्तप्रतिपदवचनात्सिद्ध एवेत्यदोषः ॥ लोपनं लुप्, लोप इत्यर्थः । राल्लोपः इति प्रकृते लोपग्रहणं विस्पष्टार्थम् ॥