दीङो युडचि क्ङिति

6-4-63 दीङः युट् अचि क्ङिति असिद्धवत् अत्र आभात् आर्धधातुके

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

दीङो युडागमो भवत्यजादौ क्ङिति प्रत्यये परतः। उपदिदीये, उपदिदीयाते, उपदिदीयिरे। दीङ इति पञ्चमीनिर्देशादजादेर्युडागमो भवति। विधानसामर्थ्यात् च <<एरनेकाचः०>> ६.४.८२ इति यणादेशे कर्तव्ये तस्यासिद्धत्वं न भवति। अचीति किम्? उपदेदीयते। क्ङितीति किम्? उपदानम्॥

Siddhanta Kaumudi

Up

दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट् स्यात् ।<!वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ !> (वार्तिकम्) ॥ दिदीये ॥

Laghu Siddhanta Kaumudi

Up

दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट्। <<वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ>> (वार्त्तिकम्)। दिदीये॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<दीङो युडचि क्ङिति>> - दीङो युडचि । 'आर्धधातुके' इत्यधिकृतमचा विशेष्यते । तदादिविधिः । 'दीङ' इति पञ्चमी । सप्तमी षष्ठर्थे ।तदाह — दीङः परस्येत्यादिना । दिदी ए इति स्थिते परत्वात् 'एरनेकाचः' इति यणि प्राप्ते नित्यत्वाद्युट् । टकार इत् । उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । दिदीये इति रूपमिति भावः । ननु युटि कृतेऽपि तस्याऽसिद्धत्वाद्यण्दुर्वारः । तथाच दिद्य्ये इति स्यात् । इकारो न श्रूयेत, यकारद्वयं श्रूयेतेत्यत आह -वुग्युटाविति ।

Padamanjari

Up

दीङ् इति पञ्चमीनिर्देशादिति । षष्ठ।लं त्वास्यां दीङ् एवादितो युट् स्यात्, पञ्चम्यां तूभयनिर्देशे पञ्चमीनिर्देशो बलीयानिति अचीति सप्यम्याः षष्ठ।लं प्रकल्पितायामजादेर्युड् भवति । सप्तमीनिर्देशस्तूतरार्थः, तदादिविध्यर्थश्च । विधानसामर्थ्याच्चेति । यदि युटोऽसिद्धत्वेन यणादेशः स्यात्, युड्विधानमनर्थकं स्यात् उपदिय्य इति रुपे विशेषाभावात् । न च यकारद्वयश्रवणाद्विशेषः, हलो यमां यमि लोपः, थैति पक्षे यलोपविधानात् । न च पक्षे श्रुतिभदः, यणो मयो द्वे इति द्विर्वचनविधानादेव सिद्धत्वात् । श्रुतिभेदोऽपि व्यञ्जनात्परस्यैकस्यानेकस्य वा यकारस्य कीदृश इति चिन्त्यम् । उपदानमिति । मीनातिमिनोतिदीङं ल्यपि च त्यात्विम्, दीङ्ः इत्यनुबन्धनिर्द्देशो यङ्लुकि मा भूदिति ॥