ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि

6-4-175 ऋत्व्यवस्त्व्यवास्त्वमाध्वीहिरण्ययानि छन्दसि असिद्धवत् अत्र आभात् भस्य

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ऋत्व्य वास्त्व्य वास्त्व माध्वी हिरण्यय इत्येतानि निपात्यन्ते छन्दसि विषये। ऋतु वास्तु इत्येतयोर्यति यणादेशो निपात्यते। ऋतौ भवम् ऋत्व्यम् (पै०सं० १९.२५.१४)। वास्तौ भवं वास्त्व्यम्। वस्तुशब्दस्याणि यणादेशो निपात्यते। वस्तुनि भवो वा॒स्त्व॑म् (मै०सं० २.२.४)। मधुशब्दस्याणि स्त्रियां यणादेशो निपात्यते। माध्वी॑र्नः स॒न्त्वोष॑धीः(ऋ०१.९०.६)। हिरण्यशब्दाद् विहितस्य मयटो मशब्दस्य लोपो निपात्यते। हि॒र॒ण्ययम् (ऋ०१.२५.१३)॥

॥ इति श्रीवामनविरचितायां काशिकायां वृत्तौ षष्ठाध्यायस्य चतुर्थः पादः॥

Siddhanta Kaumudi

Up

ऋतौ भवमृत्व्यम् । वास्तुनि भवं वास्त्व्यम् वास्त्वं च । मधुशब्दस्याणि स्त्रिया यणादेशो निपात्यते । माध्वीर्नः सन्त्वोषधीः (माध्वी॑र्नः स॒न्त्वोष॑धीः) । हिरण्यशब्दाद्विहितस्य मयटो मशब्दस्य लोपो निपात्यते । हिरण्ययेन सविता रथेन (हिर॒ण्यये॑न सवि॒ता रथे॑न) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

मलोपो निपात्यत इति । तस्यासिद्धत्वाद्यस्येतिलोपाभावः । एवमपि अकृत्सार्वधातुकयोर्दीर्घः इति दीर्धः प्राप्नोति, अङ्गवृतेः पुनर्वृतौ इति वचनान्न भविष्यति । क्वचितु मकारलोप इति पठन्ति । तत्र यस्येति लोपे कृते प्रत्ययाकारस्य श्रवणम् ॥