सोऽस्य निवासः

4-3-89 सः अस्य निवासः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं निवासश्चेत् स भवति। निवसन्त्यस्मिन्निवासो देश उच्यते। स्रुघ्नो निवासोऽस्य स्रौघ्नः। माथुरः। राष्ट्रियः॥

Siddhanta Kaumudi

Up

स्रुघ्नो निवासोऽस्य स्रौघ्नः ॥

Laghu Siddhanta Kaumudi

Up

स्रुग्घ्नो निवासोऽस्य स्रौग्घ्नः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<सोऽस्य निवासः>> - सोऽस्य निवासः । अस्मिन्नर्थे प्रथमान्तात्प्रत्ययाः स्युरित्यर्थः ।यत्र संप्रत्युष्यते स निवास॑ इति भाष्यम् ।

Padamanjari

Up

इह यस्य स्रुघ्नो निवासः स्रुघ्नेऽसौ भवति, ततः'तत्र भवः' इत्येव सिद्धम्, शब्दार्थभेदातु पृथगुपादानम् ॥