कृते ग्रन्थे

4-3-116 कृते ग्रन्थे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तेनेत्येव। तृतीयासमर्थात् कृत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत् तत् कृतं ग्रन्थश्चेत् स भवति। वररुचिना कृता वाररुचाः श्लोकाः। हैकुपादो ग्रन्थः। भैकुराटो ग्रन्थः। जालूकः। ग्रन्थ इति किम्? तक्षकृतः प्रासादः। उत्पादितं कृतम्, विद्यमानमेव ज्ञातमुपज्ञातमित्ययमनयोर्विशेषः॥

Siddhanta Kaumudi

Up

वररुचिना कृतो वाररुचो ग्रन्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कृते ग्रन्थे>> - कृते ग्रन्थे । 'तेन कृतो ग्रन्थ' इत्यर्थे तृतीयान्ताद्यर्थाविहितं प्रत्ययाः स्युरित्यर्थः ।

Padamanjari

Up

'तितिरिवरतन्तु' इत्यादीनि सूत्राण्यत्र प्रकरणे न पठितानि । तितिर्यादयो हि च्छन्दसां प्रवक्तारो न कर्तारः; नित्यानि हि च्छन्दांसि न केनचित्क्रियन्ते ॥