परिवृतो रथः

4-2-10 परिवृतः रथः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन

Sampurna sutra

Up

'तेन परिवृतो रथः' (इति) समर्थानाम् प्रथमात् परः अण् प्रत्ययः

Neelesh Sanskrit Brief

Up

तृतीयासमर्थात् 'परिवृतः' इत्यस्मिन् अर्थे रथं निर्देशयितुमण् प्रत्ययः भवति ।

Neelesh English Brief

Up

To represent a रथ using a material used to cover it completely, an appropriate तद्धितप्रत्यय can be attached to the तृतीयासमर्थ indicating the covering entity.

Kashika

Up

तेनेति तृतीयासमर्थात् परिवृत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, योऽसौ परिवृतो रथश्चेत् स भवति। वस्त्रेण परिवृतो रथो वास्त्रो रथः। काम्बलः। चार्मणः। रथ इति किम्? वस्त्रेण परिवृतः कायः। समन्ताद् वेष्टितः परिवृत उच्यते, यस्य न कश्चिदवयवो वस्त्रादिभिरवेष्टितः। तेनेह न भवति — छात्रैः परिवृतो रथः॥

Siddhanta Kaumudi

Up

वस्त्रैः परिवृतो वास्त्रो रथः । रथः किम् । वस्त्रेण परिवृतः कायः । समन्ताद्वेष्टितः परिवृत उच्यते तेनेह न । छात्रैः परिवृतो रथः ॥

Laghu Siddhanta Kaumudi

Up

अस्मिन्नर्थेऽण् प्रत्ययो भवति। वस्त्रेण परिवृतो वास्त्रो रथः॥

Neelesh Sanskrit Detailed

Up

रथस्य आवरणस्य / आच्छादनस्य साहाय्येन रथस्य निर्देशं कर्तुमस्य सूत्रस्य प्रयोगः क्रियते । 'परिवृतः' इत्युक्ते 'समन्तात् वेष्टितः' । यथा - वस्त्रेण परिवृतः रथः वास्त्रः । चर्मणा परिवृतः रथः चार्मणः । (अत्र <<नस्तद्धिते>> 6.4.144 इत्यनेन नकारान्तस्य टिलोपे प्राप्ते <<न मपूर्वोऽपत्येऽवर्मणः>> 6.4.170 इत्यनेन सः निषिध्यते ।) ज्ञातव्यम् - 1. यदि रथस्य निर्देशः नास्ति तर्हि अस्य सूत्रस्त प्रसक्तिः नास्ति । यथा - 'वस्त्रेण परिवृतः कायः' इत्यत्र अस्य सूत्रस्य प्रयोगः न क्रियते । 2. 'छात्रैः परिवृतः रथः' एतादृशेषु वाक्येषु अपि अस्य सूत्रस्य प्रयोगः न भवति, यतः अत्र 'वेष्टनम् / आच्छादनम्' नास्ति ।

Balamanorama

Up

<<परिवृतो रथः>> - परिवृतो रथः ।तेने॑त्यनुवर्तते । तेन 'परिवृतोरथः' इत्यर्थे तृतीयान्तादणादयः स्युरित्यर्थः । ननु छात्रैः परिवृतो रथ इत्यत्रापि स्यादित्यत आह — समन्तादिति । रथस्य समन्तादाच्छादनार्थं यद्वस्त्रादिकं रथावयवभूतं तद्वाचकादेवेत्याशयः, एकान्तग्रहणिति वार्तिकात् ।

Padamanjari

Up

चार्मण इति । ठन्ऽ इति प्रकृतिभावः । परिवृतो रथ इति । तदेकान्तग्रहणम्, येन परिवृतो रथस्तदेकान्तश्चेद्भवतीति वक्तव्यम् । तेन चर्मवस्त्रादावेव भवति, इतरथा छात्रादावपि प्रसङ्ग इत्याह - समन्ताद्वेष्टित इत्यादि । वृणोतिर्वेष्टने परिः सर्वतो भावे । यस्य न कश्चिदवयव इति । बाहुल्याभिप्रायमेतत्, न हि चक्रनेमिप्रभृतयश्चर्मणा पिधीयन्ते नाप्यन्तरावयवाः । ननु तत्कारी चायं यदाह - छात्त्रैः परिवृत इति । तद्द्वेषी च, यदाह - समन्ताद्वेष्टित इत्यादि । नायं तत्कारी, औपचारिकोऽयं प्रयोगः, परिवृतः इव परिवृतः ॥