4-2-21 सा अस्मिन् पौर्णमासी इति सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
index: 4.2.21 sutra: सास्मिन् पौर्णमासीति संज्ञायाम्
'सा अस्मिन् पौर्णमासी (इति) संज्ञायाम्' इति समर्थानाम् प्रथमात् परः अण् प्रत्ययः
index: 4.2.21 sutra: सास्मिन् पौर्णमासीति संज्ञायाम्
पौर्णमास्याः यत् प्रथमासमर्थं नाम, तस्मात् शब्दात् 'अस्मिन्' इत्यर्थे मासस्य, अर्धमासस्य, संवत्सरस्य वा निर्देशं कर्तुमण् प्रत्ययः भवति ।
index: 4.2.21 sutra: सास्मिन् पौर्णमासीति संज्ञायाम्
To indicate the name of a month, fortnight or a year based on the name of the full-moon-day falling in it, the प्रथमासमर्थ name of the full moon day gets the appropriate तद्धितप्रत्यय.
index: 4.2.21 sutra: सास्मिन् पौर्णमासीति संज्ञायाम्
सा इति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति, यत् तत् प्रथमासमर्थं पौर्णमासी चेद् भवति। इतिकरणः ततश्चेद् विवक्षा भवति। संज्ञायाम् इति समुदायोपाधिः, प्रत्ययान्तेन चेत् संज्ञा गम्यते इति। मासार्धमाससंवत्सराणाम् एषा संज्ञा। पौषी पौर्णमासी अस्मिन् पौषो मासः। पौषोऽर्धमासः। पौषः संवत्सरः। इह न भवति, पौषी पौर्णमासी अस्मिन् दशरात्रे इति। भृतकमासे च न भवति। इतिकरणस्य संज्ञाशब्दस्य च तुल्यम् एव फलं प्रयोगानुसरणं, तत्र किमर्थं द्वयमुपादीयते? संज्ञाशब्देन तुल्यताम् इति करणस्य ज्ञापयितुं, न ह्ययं लोके तथा प्रसिद्धः। संज्ञार्थत्वे तु सम्प्रति ज्ञापिते यत् तत्र तत्र उच्यते इतिकरणस् ततश्चेद् विवक्षा इति तदुपपन्नं भवति। अथ पौर्णमासी इति कोऽयं शब्दः। पूर्णमासादण् पौर्णमासी। अथवा पूर्णो माः पूर्णमाः, पूर्णमास इयं पौर्णमासी। मा इति चन्द्र उच्यते।
index: 4.2.21 sutra: सास्मिन् पौर्णमासीति संज्ञायाम्
इतिशब्दात्संज्ञायामिति लभ्यते । पौषी । पौर्णमासी अस्मिन् पौषो मासः ॥
index: 4.2.21 sutra: सास्मिन् पौर्णमासीति संज्ञायाम्
पौर्णमास्याः नाम्नः साहाय्येन 'इयम् पौर्णमासी अस्मिन् मासे / अर्धमासे / संवत्सरे वा अस्ति' इति मासस्य / अर्धमासस्य / संवत्सरस्य निर्देशः कर्तव्यः अस्ति चेत् वर्तमानसूत्रस्य प्रयोगः क्रियते । यथा -
= पौषी + अण्
→ पौषी + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ पौष् + अ [यस्येति च 6.4.148 इति अन्तिमवर्णलोपः]
→ पौष ।
= माघी + अण्
→ माघी + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ माघ् + अ [यस्येति च 6.4.148 इति अन्तिमवर्णलोपः]
→ माघ ।
ज्ञातव्यम् -
'पौर्णमासी' इत्युक्ते सः दिवसः यस्मिन् चन्द्रमसः दर्शनम् सम्पूर्णरूपेण भवति । तस्मिन् दिने चन्द्रमाः यस्मिन् नक्षत्रे वर्तते, तस्य नक्षत्रस्य नाम्नः साहाय्येनैव प्रायः पौर्णमास्याः नाम अपि दीयते । यथा - 'मघया युक्ता पौर्णमासी' अस्मिन् अर्थे नक्षत्रेण युक्तः कालः4.2.3 अनेन अण्-प्रत्ययविधानं कृत्वा 'माघी पौर्णमासी' इति सिद्ध्यति । अस्मात् एव 'माघी'शब्दात् अग्रे वर्तमानसूत्रेण पुनः अण्-प्रत्ययविधानं कृत्वा 'माघ' इति प्रातिपदिकं सिद्ध्यति ।
अस्मिन् सूत्रे 'संज्ञायाम्' इति निर्दिष्टमस्ति । अस्मिन् विषये काशिकाकारः वदति - 'मास-अर्धमास-संवत्सराणाम् एषा संज्ञा' । अतः 'यस्मिन् मासे / अर्धमासे / संवत्सरे' काचन पौर्णमासी वर्तते, तस्य मासस्य / अर्धमासस्य / संवत्सरस्य निर्देशं पौर्णमास्याः नाम्ना कर्तुम् वर्तमानसूत्रस्य प्रयोगः क्रियते । मास/अर्धमास/संवत्सरान् त्यक्त्वा अन्येषु कालेषु अस्य प्रयोगः न भवति । यथा - 'पौषी पौर्णमासी अस्मिन् दशरात्रे' इत्यत्र 'दशरात्री' इत्यस्य कारणात् अत्र अस्य सूत्रस्य प्रसक्तिः न वर्तते ।
index: 4.2.21 sutra: सास्मिन् पौर्णमासीति संज्ञायाम्
साऽस्मिन् पौर्णमासीति (संज्ञायाम्) - इतिशब्दादिति । एतच्च भाष्ये स्थितम् । पौषीति । पुष्येण युक्ता पौषी पौर्णमासी, सा यस्मिन्मासे स पौषो मासः । पौषीशब्दादणियस्येति चे॑ति ईकारलोपः । एवं मघाभिर्युक्ता पौर्णमासी माघी, सा यस्मिन्स माघो मासः । तथा फाल्गुन इत्यादि । संज्ञायां किम् । पौषी पौर्णमासी अस्मिन्पञ्चदशरात्रे ।
index: 4.2.21 sutra: सास्मिन् पौर्णमासीति संज्ञायाम्
ततश्चेद्विवक्षेति । ततः प्रत्ययान्ताल्लोकस्य विवक्षा भवति चेद् एवं प्रत्ययो भवति, नान्यथेत्यर्थः । संज्ञायामिति समुदायोपाधिरिति । एतदेव स्पष्टयति - प्रत्ययान्तेन चेदिति । पौषी पौर्णमासीति ।'लुबविशेषे' इति पौर्णमास्यां लुब्न भवतीति पूर्वमेवोक्तम् । भृतकमासे चेति । भृता एव भृतकाः, कर्मकरास्तेषां यो मासः कर्मकरणादारभ्य त्रिशद्रात्रलक्षणः स यदा पौष्या पौर्णमास्या तद्वान् भवति । वस्तुतश्च न माघादिव्यपदेशभाक् तत्रेत्यर्थः । तुल्यमेव फलमिति । कि पुनस्तदित्याह - प्रयोगानुसारणमिति । ण्यर्थाल्ल्यट् । संज्ञाशब्देन तुल्यतामिति । तुल्यफलतामित्यर्थः । इति कणस्य ज्ञापयितुमिति । किं पुनरिदं ज्ञापकसाध्यम् ? तत्राह - न ह्ययमिति । ज्ञापनस्य प्रयोजनं दर्शयति - संज्ञार्थत्वे त्विति । संज्ञाब्देन तुल्यफलत्वे इत्यर्थः । प्रवृत्तिभेदेन चायमर्थो ज्ञाप्यत इति । संज्ञायामिति द्वितीयाप्रवृत्तिः, इह शाल्त्रे'संज्ञायाम्' इत्यस्यार्थे इतिशब्दो वेदितव्य इति परिभाषा सम्पद्यते । पूर्णमासादणिति । पूर्णो मासोऽस्यां तथाविति बहुव्रीहौ प्रज्ञादेराकृतिगणत्वादस्मादेव वा निपातनादण् । मा इति चन्द्रमा उच्यत इति । चन्द्रमश्शब्दैकदेशप्रयोगः, सत्याभामा भामेतिवत् ॥