तेनैकदिक्

4-3-112 तेन एकदिक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तेनेति तृतीयासमर्थादेकदिगित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। एकदिक् तुल्यदिक्, समानदिगित्यर्थः। सुदाम्ना एकदिक् सौदामनी विद्युत्। हैमवती। त्रैककुदी। पैलुमूली। तेनेति प्रकृते पुनः समर्थविभक्तिग्रहणं छन्दोऽधिकारनिवृत्त्यर्थम्। पूर्वत्र हि छन्दोऽधिकारात् तद्विषयता साध्यते॥

Siddhanta Kaumudi

Up

सुदाम्ना अद्रिणा एकदिक् सौदामनी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<तेनैकदिक्>> - तेनैकदिक् । सहार्थे तृतीया । एका दिक् अधिकरणात्मिका यस्य तदेकदिक् । तेन सह एकस्यां दिशि विद्यमानमित्यर्थे तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । सौदामनीति । अणिअ॑निति प्रकृतिभावान्न टिलोपः ।

Padamanjari

Up

सौदामनीति । ठन्ऽ इति प्रकृतिभावः । सुदामादयःउपर्वतविशेषाः ॥