देयमृणे

4-3-47 देयम् ऋणे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र कालात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तत्रेत्येव, कालादिति च। सप्तमीसमर्थात् कालवाचिनः प्रातिपदिकाद् देयमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यद् देयमृणं चेत् तद् भवति। मासे देयमृणं मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। ऋण इति किम् ? मासे देया भिक्षा॥

Siddhanta Kaumudi

Up

कालादित्येव । मासे देयमृणं मासिकम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<देयमृणे>> - देयमृणे । कालादित्येवेति । तत्रेत्यप्यनुवर्तते । वुञिति निवृत्तम् । सप्तम्यन्तात्कालवाचिनो देयमित्यर्थे यताविहितं प्रत्ययाः स्युः । तस्मिन्देयद्रव्ये ऋणे सतीत्यर्थः । मासिकमिति ।कालट्ठञ् ।

Padamanjari

Up