तस्येदम्

4-3-120 तस्य इदम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तस्येति षष्ठीसमर्थादिदमित्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। अणादयः पञ्च महोत्सर्गाः, घादयश्च प्रत्यया यथाविहितं विधीयन्ते। प्रकृतिप्रत्ययार्थयोः षष्ठ्यर्थमात्रं तत्संबन्धिमात्रं च विवक्षितम्, यदपरं लिङ्गसंख्याप्रत्यक्षपरोक्षादिकं तत् सर्वमविवक्षितम्। उपगोरिदमौपगवम्। कापटवम्। राष्ट्रियम्। अवारपारीणम्। अनन्तरादिष्वनभिधानाद् न भवति, देवदत्तस्यानन्तरमिति॥ संवहेस्तुरणिट् च॥ संवोढुः स्वं सांवहित्रम्। सिद्ध एवात्राण्, इडर्थमुपसंख्यानम्॥ अग्नीधः शरणे रञ् भं च॥ आग्नीध्रम्॥ समिधामाधाने षेण्यण्॥ सामिधेन्यो मन्त्रः। सामिधेनी ऋक्॥

Siddhanta Kaumudi

Up

उपगोरिदमौपगवम् ।<!वहेस्तुरणिट् च !> (वार्तिकम्) ॥ संवोढुः स्वं सांवहित्रम् ।<!अग्नीधः शरणे रण् भं च !> (वार्तिकम्) ॥ अग्निमिन्धे अग्नीत्, तस्य स्थानमाग्नीध्रम् । तात्स्थ्यात्सोऽप्याग्नीध्रः ।<!समिधामाधाने षेण्यणू !> (वार्तिकम्) ॥ सामिधेन्यो मन्त्रः । सामिधेनी ऋक् ॥

Laghu Siddhanta Kaumudi

Up

उपगोरिदम् औपगवम् ॥ इति शैषिकाः ॥ ५ ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<तस्येदम्>> - तस्येदम् । इदमित्यर्थे षष्ठन्तादणादयः साधारणप्रत्यया, राष्ट्रावारेत्यादिभिर्विशिष्य विहिता घादयश्च प्रत्यया यताविहितं स्युरित्यर्थः । अत्र शेषे इत्यनुवृत्तम् । ततश्च अपत्यादिचतुरथ्र्यन्तार्थेभ्योऽन्येषां शेषभूतसर्वविशेषाणां सामान्यविशेषरूपेण प्रत्ययार्थत्वं लभ्यते । अपत्यादीनां तु न केनापि रूपेण इदंशब्दार्थत्वमितितस्यापत्य॑मित्यत्रोक्तम् ।वहेस्तुरणिट् चेति । वार्तिकमिदम् ।तु॑रिति तृन्तृचोः सामान्येन ग्रहणम् । वहधातोर्विहितो यस्तृप्रत्ययस्तस्मादण् स्यात्तृप्रत्ययस्य इडागमश्च । तत्र अण् पूर्वे सिद्ध इड्विध्यर्थमनूद्यते । संवोढुः स्वमिति । विग्रहदर्शनम् । वहेस्तृच्, तृन् वा । वहेरनुदात्तत्वात् 'एकाच उपदेशे' इति नेट् । ढत्वधत्वष्टुत्वढलोपाः ।सहिवहोरोदवर्णस्ये॑त्योत्त्वम् । सांवहित्रमिति । ढत्वादीनामसिद्धत्वादलौकिक एव विग्रहवाक्ये पूर्वमिट् । ततो निमित्ताऽभावान्न ढत्वादि । अग्नीधः शरणे इति । वार्तिकमिदम् ।शरण॑मित्यर्थे अग्नीच्छब्दात्षष्ठन्ताद्रण्, तस्मिन्परे भत्वं च वक्तव्यमित्यर्थः । शरणं — गृहम् । अग्नीदिति । ऋत्विग्विशेषोऽयम् । इन्धेः क्विप् ।अनिदिता॑मिति नलोपः । आग्नीध्रमिति । सोमे महावेदेरुत्तरार्धे पञ्चरत्नि चतुरश्रस्थानविशेषसंज्ञेयम् । भत्वान्न जश्त्वम् । प्रत्ययस्वरेणान्तोदात्तो ।ञयं शब्दः । तैत्तिरीयेएतद्वै यज्ञस्यापराजितं यदाग्नीध्र॑दित्यादावाद्युदात्तत्वं तुआग्नीध्रसाधारणादञ् वक्तव्यः॑ इति स्वार्थिके अञि बोध्यम् । नन्वेवम्आग्नीध्रः प्रत्याश्रावये॑दित्यादौ कथमृत्विग्विशेषे आग्नीध्रशब्दः । तत्राह — तात्स्थ्यादिति । आग्नीध्राख्यदेशस्थत्वात् ऋत्विग्विशेषे आग्नीध्रशब्दो गौण इति भावः । समिधामिति । आधीयते अनेनेत्याधानो मन्त्रः । आधानो मन्त्र इत्यर्थे षष्ठन्तात्समिच्छब्दात् षेन्यण्प्रत्ययटो वाच्य इत्यर्थः । षत्वं ङीषर्थमित्याह — सामिधेनीति । सामिधेन्यशब्दात् ङीष् ।हलस्तद्धितस्ये॑ति यलोपः ।

Padamanjari

Up

'तस्या पत्यम्' इत्यत्रोक्तमेवार्थं स्मारयति - प्रकृतिप्रत्ययार्थयोरित्यादि । प्रकृतौ षष्ठ।ल्र्थमात्रं विवक्षितम्, प्रत्ययार्थेऽपि तत्सम्बन्धिमात्रं यद्योगात्षष्ठी, तस्मिन्निभिधेये प्रत्ययः । मात्रशब्दव्यवच्छेद्यं दर्सयति - यदपरमिति । इदं शब्दः प्रत्यक्षवचंनः, तच्छब्दः परोक्षवचनः । आदिशब्देन सामान्याभिधायित्वं गृह्यते । तत्सर्वमविवक्षितमिति । अत्र कारणम्'तस्यापत्यम्' इत्यत्रैवोक्तम् । वहेस्तुरिति । तृन्तृचोः सामान्येन ग्रहणम् । सावहित्रमिति । ढत्वादीनामसिद्धत्वात्पूर्वमिहेटि कृते निमिताभावातेषामभावः । अग्नीध इति । अग्निमिन्ध इति क्विप्, अग्नीत् ठृत्विग्विशेषः ।'त्वमग्निदृतीयते' इत्यत्र तुछान्दसंह्रस्वत्वम् । शरणमुगृहम्, स्थानम्, यत्राग्नीध्रीयं धिष्ण्यं तदाग्नीध्रम्, तात्स्थ्यातु मञ्चाः क्रोशन्तीतिवदृत्विजि प्रयोगः कल्पसूत्रकाराणाम् -'प्रत्याश्रावयेदाग्रीधः आग्नीध्रं पोतारं ब्रह्मणः' इति । च्छप्रत्ययं च ततः शरणे कुर्वन्ति, ठाग्नीध्रीयसकाशमुतरेणाग्नीध्रीयं धिष्ण्यं परीत्यऽ इति शरणवचनाच्छः । समिधामाधान इति । यया समिध्यतेऽग्निः सा समित्, सम्पदादित्वात्करणे क्विप् । सा समिदाधीयते यया सा सामिधेनी ऋक्, षित्वान्ङीष्,'हलस्तद्धितस्य' इति यलोपः ॥