4-3-39 प्रायभवः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र
तत्रेत्येव। सप्तमीसमर्थाद् ङ्याप्प्रातिपदिकात् प्रायभव इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। प्रायशब्दः साकल्यस्य किंचिन्न्यूनतामाह। स्रुघ्ने प्रायेण बाहुल्येन भवति स्रौघ्नः। माथुरः। राष्ट्रियः। प्रायभवग्रहणमनर्थकम्, तत्रभवेन कृतार्थत्वात्। अनित्यभवः प्रायभव इति चेद्, मुक्तसंशयेन तुल्यम्॥
तत्रेत्येव । स्रुघ्ने प्रायेण बाहुल्येन भवति स्रौघ्नः ॥
तत्रेत्येव। स्रुग्घ्ने प्रायेण बाहुल्येन भवति स्रौग्घ्नः॥
<<प्रायभवः>> - प्रायभवः । तत्रेत्येवेति । प्रायभव इत्यर्थे सप्तम्यन्तादणादयो घादयश्च यथायथं स्युरित्यर्थः । प्रायशब्दस्य व्याख्यानम् — बाहुल्येनेति । तत्र भव इत्येव सिद्धत्वात्प्रत्याख्यातमिदं भाष्ये ।
प्रायेण भवः,'कर्तृकरणे कृता बहुलम्' इति समासः । तत्र भवेन कृतत्वादिति । यत्प्रायभव इत्यस्य साध्यम्, तस्य'तत्र भवः' इत्यनेनैव साधितत्वादित्यर्थः । यो हि राष्ट्रे प्रायेण भवति तत्रैवासो भवतीति'तत्र भवः' इत्येव सिद्धम् । शङ्कते - अनित्यभवः प्रायभव इति चेदिति । यस्तत्र कदाचिद्भवति कदाचिन्न स प्रायभवः, यस्य तु नियत आधाराधेयभावः स'तत्र भवः' इति पृथगुपादानसामर्थ्याद्भेद आश्रीयत इति यद्यौच्येतेत्यर्थः । निराकरोति - मुक्तसंशयेन तुल्यमिति । यं भवान्मुक्तसंशयं न्याय्यं तत्रभव उदाहरणं मन्यते - स्रौघ्नो देवदत इति, तेनैव तुल्यम्, सोऽपि हि कदाचितस्मादुदक्देशादभिनिष्क्रामति । तत्र चेद्यौक्ता तत्र भवता, इहापि युक्ता दृश्यताम् । अथैतदपि प्रायभवस्योदाहरणम् - स्रौघ्नो देवदत इति । तत्रभवनस्य किमुदाहरणम् ? तत्र नित्यभवः स्रौघ्नः प्राकार इति । यद्येवम्,'तत्र भवः' इति प्रकृत्य जिह्वामूलाङ्गुलेश्छाए विधीयते स तस्मिन्दृष्टापचारे न स्यात्, दृश्यते च - वानरोऽहं महाभागे दूतो रामस्य धर्मतः । रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ॥ इति । तस्मातत्रभवे सामान्ये प्रायभवस्य विशेषस्यान्तर्भावादनर्थकं प्रायग्रहणम् ? इदं तर्हि प्रयोजनम् - ठुपजानूपकर्णोपनीवेष्ठक्ऽ प्रायभवे यथा स्यान्नित्यभवे मा भूत् - उपजानु भवं गड्विति । अथेदानीं जानुसमीपस्थशरीरावययववाचिन उपजानुशब्दातत्र भव इति प्रकृत्य'शरीरावयवाद्यत्' इति यत्कस्मान्न भवति ? अनभिधानात् । ठगपि तर्ह्यनबिधानादेव न भविष्यति ? तदेवं स्थितम् - एतत्प्रायग्रहणमनर्थकम्, तत्र भवेन कृतत्वादिति ॥