कृतलब्धक्रीतकुशलाः

4-3-38 कृतलब्धक्रीतकुशलाः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तत्रेत्येव। सप्तमीसमर्थात् कृतादिष्वर्थेषु यथाविहितं प्रत्ययो भवति। स्रुघ्ने कृतो वा लब्धो वा क्रीतो वा कुशलो वा स्रौघ्नः। माथुरः। राष्ट्रियः। ननु च यद् यत्र कृतं जातमपि तत् तत्र भवति, यच्च यत्र क्रीतं लब्धमपि तत् तत्रैव भवति, किमर्थं भेदेनोपादानं क्रियते? शब्दार्थस्य भिन्नत्वाद् वस्तुमात्रेण क्रीतं लब्धं भवति, शब्दार्थस्तु भिद्यत एव॥

Siddhanta Kaumudi

Up

तत्रेत्येव । स्रुघ्ने कृतो लब्धः क्रीतः कुशलो वा स्रौघ्नः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

यद्यत्र कृतं जातमपि ततत्र भवतीति । यद्यपि जातं सर्वं कृतं न भवति, स्वयं जातस्यापि भावात् ; कृतं तु सर्वं जातं भवति, न ह्यजननस्वभावंक्रियते, यथा -व्योमेति भावः । यच्च क्रीत लब्धमपि ततत्र भवतीति । अत्रापि लब्धं सर्वं क्रीतं न भवति ; दानादिनापि लाभसम्भावात् । क्रीतं तु लब्धमेव ; क्रयस्यापि लाभहेतुत्वादित्यर्थः । तत्किमर्थं भेदेनोपादानं क्रियत इति । जातलब्धाभ्यामेव गतमिति प्रश्नः । शब्दार्थस्याभिन्नत्वादिति । परव्यापारोपहितं रूपं कृतमित्युच्यते, तद्रहितं तु जातमिति; तथा मूल्यप्रदानरूपो यः स्वीकर्तुर्व्यापारस्तदुपहितं रूपं क्रीतामत्युच्यते, तद्रहितं तु लब्धमिति । तत्र यथा - विक्लिन्न ओदनः, पक्व ओदन इति शब्दार्थाभेदः, तथात्रापीत्यर्थः । एतदेव स्पष्टयति - वस्तुमात्रेणेति । वस्तुत इत्यर्थः । एतदुक्तं भवति - क्रीतं वस्तुतो लब्धं भवतीत्येतावत्, शब्देन तु रूपान्तरमभिधीयते । एवं कृतमपि वस्तृतो जातं भवति, शब्देन तु रूपान्तरमभिधीयत इति द्रष्टव्यम् । उपसंहरति - शब्दार्थस्तुभिद्यत एवेति । तत्राक्रियमाणे कृक्रीतयोरुपादाने यथा - क्वायं घटः कृतः, क्रीतो वा इति पृष्टे स्रुघ्ने जातो लब्ध इति चोतरं नं प्रयुज्यते; तथा तद्धितोऽपि न स्यात्। तस्मात्कृतक्रीतयोस्तद्धितेनाभिधानाय भेदेनोपादानमिति ॥