4-3-135 अवयवे च प्राण्यौषधिवृक्षेभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम् तस्य विकारः
प्राण्योषधिवृक्षवाचिभ्यः शब्देभ्यः षष्ठीसमर्थेभ्योऽवयवे यथाविहितं प्रत्ययो भवति, चकाराद् विकारे च। तत्र प्राणिभ्योऽञं वक्ष्यति ४.३.१५४। कपोतस्य विकारोऽवयवो वा कापोतः। मायूरः। तैत्तिरः। ओषधिभ्यः — मौर्वं काण्डम्। मौर्वं भस्म। वृक्षेभ्यः — कारीरं काण्डम्। कारीरं भस्म। इत उत्तरे प्रत्ययाः प्राण्योषधिवृक्षेभ्यो विकारावयवयोर्भवन्ति। अन्येभ्यस्तु विकारमात्रे। कथं द्वयमप्यधिक्रियते तस्य विकारः, अवयवे च प्राण्योषधिवृक्षेभ्य इति? विकारावयवयोर्युगपदधिकारोऽपवादविधानार्थः। कृतनिर्देशौ ४.३.१२० हि तौ ॥
चाद्विकारे । मयूरस्यावयवो विकारो वा मायूरः । मौर्वं काण्डं भस्म वा । पैप्पलम् ॥
चाद्विकारे। मयूरस्यावयवो विकारो वा मायूरः। मौर्वं काण्डं भस्म वा। पैप्पलम्॥
<<अवयवे च प्राण्योषधिवृक्षेभ्यः>> - अवयवे च प्रा.प्राणिवाचिन ओषधिवाचिनो वृक्षवाचिनश्च षष्ठन्तेभ्योऽवयवे विकारे च अणादयः उक्ता वक्ष्यमाणाश्च प्रत्यया यथाविहितं स्युः, अन्येभ्यस्तु विकारमात्र इत्यर्थः । प्राणिन उदारहरति — मायूर इति । 'लघावन्ते' इति मयूरशब्दो भध्योदात्तः । ततः 'प्राणिरजतादिभ्यः' इत्यञ् । ओषधेरुदाहरति — मौर्वमिति । मूर्वा ओषधिविशेषः । तस्या अवयवो विकारो वेत्यर्थः । औत्सर्गिकोऽण् ।अनुदात्तादेश्चे॑त्यञ् तु वक्ष्यमाणो न भवति,तृणधान्यानां च द्व्यषा॑मित्याद्युदात्तत्वात् । वृक्षस्योदाहरति — पैप्पलमिति । पिप्पलः-अआत्थः, तस्यावयवो विकारो वेत्यर्थः । 'लघावन्ते' इति मध्योदात्तः पिप्पलशब्दः ।अनुदात्तादेश्चे॑ति वक्ष्यमा॑णाऽञोभावे औत्सर्गिकोऽण् ।
मौर्वमिति । मूर्वाशब्दः'तृणधान्यानां च द्व्यषाम्' इत्याद्यौदातः । खदिरमिति । खादेः खदिरशब्दः किरच्प्रत्ययान्तो निपातितः, तेनानुदातादिलक्षणो वुञ् प्राप्नोति । यदि त्वणिष्यते, बिल्वादिषु पठितव्यः । कृतनिर्देशौ हि ताविति ।'तस्येदम्' इत्यनेन । यद्यपि शैषिकनिवृत्यर्थत्वं पूर्वयोगस्य प्रयोजनमुक्तम्, तथापि तदनपेक्ष्य भास्मनम्, मार्तिकमित्यादौ तावदणादयः सिद्धा इत्यभिसन्धायेदमुक्तम् ॥